SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ 294 यस्तु तत्रोत्तरभागमदिदीपद्रविः पुरा । स सर्वबाह्यार्वाचीनमण्डलस्योत्तरार्धतः ॥ २८५ ॥ निर्गत्य दीपयेद्याम्यमधू सर्वान्त्यमण्डले । आद्यं संवत्सरस्यार्धमेवमाभ्यां समाप्यते ॥ २८६ ॥ ततस्तौ दावपि रखी, सौम्यायनादिमक्षणे । अनन्तरं सर्वबाह्यात्, द्वितीयं मण्डलं श्रितौ ॥ २८७ ॥ उत्तरार्द्ध योऽदिदीपत्, सर्वान्त्यमण्डलाश्रितम् । दीपयेत् सोऽत्र याम्यार्धमुत्तरार्धं ततः परम् ॥ २८८ ॥ एवं पुनर्मण्डलार्धमेकैकं व्यतिहारतः । एकैकस्मिन्नहोरात्रे, आक्रामन्तौ दिवाकरौ ॥ २८९ ॥ प्रत्येकं द्वौ मुहूत्तैकषष्टिभागौ दिने दिने । वर्धयन्तौ क्रमात् प्राप्तौ, सर्वाभ्यन्तरमण्डले ॥ २९० ॥ मण्डलेऽस्मिन्नहोरात्रे, गताब्दस्यान्तिमे रवी । यथाऽदिदीपतामद्धे, पुनर्दीपयतस्तथा ॥ २९१ ॥ इत्यर्धमण्डलस्थितिः । सूर्यवक्तव्यता चैवं, यथाम्नायं प्रपञ्चिता । एवं प्रपञ्चयामोऽथ, चन्द्रचारप्ररूपणाम् ॥ २९२ ॥ आदौ क्षेत्रं मण्डलानां, तदबाधा तदन्तरम् । तच्चारश्च वृद्धिहानिप्रतिभासप्ररूपणा ॥ २९३ ॥ अत्रानुयोगद्धाराणि, पञ्चाहुस्तत्त्ववेदिनः । तत्रादौ मण्डलक्षेत्रपरिमाणं प्रतन्यते ॥ २९४ ॥ मण्डलानि पञ्चदश, चन्द्रस्य सर्वसंख्यया ॥ षट्पञ्चाशद्यौजनैकषष्टिभागपृथून्यतः ॥ २९५ ॥ गुणिताः पञ्चदशभिः, षट्पञ्चाशात् भवन्ति ते । अष्टौ शतानि चत्वारिंशान्येकषष्टिजा लवाः ॥ २९६ ॥ एकषष्ट्या विभज्यन्ते, योजनानयनाय ते । त्रयोदश योजनानि, लब्धान्येतत्तु शिष्यते ॥ २९७ ॥ सप्तचत्वारिंशदंशा, योजनस्यैकषष्टिजा: । मण्डलानां पुनरेषामन्तराणि चतुर्दश ॥ २९८ ॥ पञ्चत्रिंशद्योजनानि, त्रिंशत्तथैकषष्टिजाः । लवा एकस्यैकषष्ट्यंशस्य क्षुण्णस्य सप्तधा ॥ २९९ ॥ भागाश्चत्वार एकैकमेतावदन्तरं भवेत् । शीतयुतेर्मण्डलेषु, तत्रोपपत्तिरुच्यते ॥ ३०० ॥ चन्द्रमण्डलविष्कम्भे, प्राग्वत्पञ्चदशाहते । शोधिते मण्डलक्षेत्रात्, योजनानां चतुःशती ॥ ३०१ ॥ शेषा सप्तनवत्याढ्या, ह्येकोऽशश्चैकषष्टिजः । विभज्यन्ते च ते चतुर्दशभिर्मण्डलान्तरैः ॥ ३०२ ॥ पञ्चत्रिंशद्योजनानि, लब्धान्युद्धरिते (सप्त) हते । एकषष्ट्यैकषष्ट्यंशेनैकेन च समन्विते ॥ ३०३ ॥ अष्टाविंशा चतुःशत्येतस्याश्च भजने सति । चतुर्दशभिराप्यन्ते, त्रिंशदंशा पुरोदिताः ॥ ३०४ ॥ शेषा अष्टौ स्थिता भाज्या, भाजकाश्च चतुर्दश । भागाप्राप्त्यापवत्यैते, ततो द्वाभ्यामुभावपि ॥ ३०५ ॥ भागभागास्ततो लब्धाश्चत्वारः साप्तिका इति । एतच्चतुर्दशगुणं, कर्तव्यं प्रथमं त्विह ॥ ३०६ ॥ पञ्चत्रिंशद्योजनानि, चतुर्दशगुणानि वै । शतान्यभवंश्चत्वारि, नवत्याढ्यानि येऽपि च ॥ ३०७ ॥ त्रिंशदेकषष्टिभागाश्चतुर्दशगुणीकृताः । जाताः शतानि चत्वारि, विंशत्याढ्यानि तेऽप्यथ ॥ ३०८ ॥ एकषष्ट्या विभज्यन्ते, योजनप्राप्तये तत: । लब्धा षट्योजनी शेषाश्चतुःपञ्चाशदंशकाः ॥ ३०९ ॥ सप्तभक्तस्यैकषष्टिभागस्य या चतुर्लवी । चतुर्दशगुणा सापि, षट्पञ्चाशत् भवन्त्यमी ॥ ३१० ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy