________________
293
दूरत्वादेव भूलग्नाविव तावुदयोस्तयोः । नैकट्यादेव दृश्येते, मध्याह्न खाग्रगाविव ॥ २६२ ॥ उच्चत्वं तु सर्वदाऽपि, समानमेव सूर्ययोः । योजनानां ह्यष्टशत्या, नार्वाक् न परतश्च तौ ॥ २६३ ॥ एवं दृष्टिपथप्राप्तिप्ररूपणा प्रपञ्चिता । अथ प्ररूपणा भान्वोः, कुर्मोऽर्धमण्डलस्थितेः ॥ २६४ ॥ एक मण्डलमेकेनाहोरात्रेण समाप्यते । द्वाभ्यामभिमुखस्थाभ्यां, रविभ्यां प्रतिवादिवत् ॥ २६५ ॥ मेरोदक्षिणपूवस्यां, यदा प्रथममेव हि । एकः सूर्यः प्रविशति, सर्वाभ्यन्तरमण्डलम् ॥ २६६ ॥ पश्चिमोत्तरदिग्भागे, तदैवान्योऽपि भास्करः । समकालं स्पर्द्धयेव, सर्वान्तर्मण्डलं विशेत् ॥ २६७ ॥ इत्थं ताभ्यां प्रविशद्भ्यां, व्याप्तं यत्प्रथमक्षणे । क्षेत्रं व्यपेक्षया तस्य, कल्प्यमान्तरमण्डलम् ॥ २६८ ॥ प्रथमात्तु क्षणादू , विवस्वतौ शनैः शनैः । क्रमादपसरन्तौ च, सर्वाभ्यन्तरमण्डलात् ॥ २६९ ॥ अनन्तरबहिर्भाविमण्डलाभिमुखं किल । सर्पन्तौ चरतश्चारं, ततश्च प्रथमक्षणे ॥ २७० ॥ स्पृष्टं क्षेत्रं यदेताभ्यां, तदपेक्ष्य प्रकल्पितम् । ज्ञेयं मण्डलतुल्यत्वात्, मण्डलं न तु तात्त्विकम् ॥ २७१ ॥
तथाहुः, रविदुगभमणवसाओ, निप्पज्जइ मंडलं इहं एगम् । तं पुण मंडलसरिसं, ति मंडलं वुच्चइ तहा हि ॥ गिरिनिसिढनीलवंतेसु, उग्गयाणं रवीण कवंमि । पढमाओ चेव समयाओ, सरणेणं जओ भमणम् ॥ तो नो निच्छयरूवं, निप्पज्जइ मंडलं दिणयराणम् । चंदाण
वि एवंचिय, निच्छयओ मंडलाभावो ॥ मेरोदक्षिणपूर्वस्यामेकोऽभ्यन्तरमण्डले । संक्रम्य याम्यदिग्भागं, यदा मेरोः प्रकाशयेत् ॥ २७२ ॥ तदापरोत्तरदिशि, प्राप्तोऽभ्यन्तरमण्डलम् । अन्यो मेरोरुदग्भागं, प्रकाशयति भानुमान् ॥ २७३ ॥ दक्षिणोत्तरयोमरोः, सर्वोत्कृष्टं दिनं तदा । रात्रिः सर्वजघन्यैषोऽहोरात्रो वत्सरेऽन्तिमः ॥२७४ ॥ अहोरात्रे नवाब्दस्य, चरत: प्रथमे यदि । द्वितीयस्मिन् मण्डले कौ, निष्क्रम्यान्तरमण्डलात् ॥ २७५ ॥ दाक्षिणात्यस्तदा सूर्यः, सर्वान्तर्मण्डलाश्रितात् । विनिर्गत्य दक्षिणार्धात्, वायव्यां सुरभूभृतः ॥ २७६ ॥ द्वितीयस्य मण्डलस्योत्तरार्द्धं आश्रितश्चरन् । मेरोरुत्तरदिग्भागं, प्रकाशयति दीपवत् ॥ २७७ ॥
औत्तराहः पतंगस्तु, सर्वान्तर्मण्डलाश्रितात् । औत्तरार्धात् विनिर्गत्य, मेरोदक्षिणपूर्वतः ॥ २७८ ॥ द्वितीयस्य मण्डलस्य, दक्षिणार्धमुपाश्रितः । मेरोदक्षिणदिग्भागं, प्रकाशयति लीलया ॥ २७९ ॥ क्षेत्रमाभ्यां च यत्स्पृष्टं, तस्याहः प्रथमक्षणे । द्वितीयं मण्डलं बुद्ध्या, कल्प्यते तदपेक्षया ॥ २८० ॥ एवं च, एकैकस्मिन्नहोरात्रे, एकैकमर्धमण्डलम् । संक्रम्य संचरन्तौ तावन्योन्यव्यतिहारतः ॥ २८१ ॥ प्रत्येकं द्वौ मुहूर्तेकषष्टिभागौ दिने दिने । क्षपयन्तौ सर्वबाह्यमण्डलावधिगच्छतः ॥ २८२ ॥ तस्मात्पुनः सर्वबाह्यार्वाचीनमण्डलस्थितात् । दक्षिणार्धात् विनिर्गत्य, सर्वान्त्यमण्डलाश्रितम् ॥ २८३ ॥ उत्तरार्धं स विशति, यः प्रकाशितवान् पुरा । रविमरोर्याम्यभागं, सर्वाभ्यन्तरमण्डले ॥ २८४ ॥