________________
290
तत: षष्ट्या विभज्यन्ते, परिक्षेपाः स्वकस्वकाः । एवं सर्वमण्डलानां, मुहूर्तगतिराप्यते ॥ २०३ ॥ एवं च-संक्रम्य चरतः सूर्यो, सर्वान्तर्मण्डले यदा । तदा प्रत्येकमेकैकमुहूर्तेऽसौ गतिस्तयोः ॥ २०४ ॥ नूनं पञ्च सहस्राणि, योजनानां शतद्धयम् । एकपञ्चाशमेकोनत्रिंशदंशाश्च षष्टिजा: ॥ २०५ ॥ द्वितीयादिमण्डलेष्वप्येवं परिरयैः स्वकैः । मुहूर्तगतिरानेया, षष्ट्या भक्तैर्विवस्वतोः ॥ २०६ ॥ यद्रा प्रतिपरिक्षेपं, योक्ताष्टादशयोजनी । वृद्धिः षष्ट्या विभक्तुं तामूर्ध्वाधस्तद्वयं न्यसेत् ॥ २० ॥ राशिः षष्टेर्न दत्तेऽशं, तत्राष्टादशलक्षणः । ततोऽष्टादश षष्टिनाः, स्युः सहस्रमशीतियुक् ॥ २०८ ॥ तेषां षष्ट्या हृते भागे, लब्धा अष्टादश स्फुटम् । एतावन्त: षष्टिभागाः, किञ्चिदूनास्तु निश्चयात् ॥ २०९ ॥ प्राच्यमण्डलमुहूर्तगतौ क्षिप्यन्त इत्यतः । यथोक्तं तत्परिमाणं, भवेदेवं यथोत्तरम् ॥ २१० ॥ एतद्याम्यायने सौम्यायने तु प्रतिमण्डलम् । अष्टादशांशाः क्षीयन्ते, मुहूर्तीयगतौ रखेः ॥ २११ ॥ एवं च, सर्वबाह्ये योजनानां, पञ्चोत्तरं शतत्रयम् । सहस्राणि पञ्च पञ्चदशभागाश्च षष्टिजाः ॥ २१२ ॥ सर्वान्तिमार्वाचीने तु, त्रिशती चतुरुत्तरा । सहस्राणि पञ्च सप्तपञ्चाशत् षष्टिजा लवा: ॥ २१३ ॥ मुहूर्तगतिरित्येवं, विवस्वतोर्निरूपिता । अथ प्रपञ्च्यते दृष्टिपथप्राप्तिप्ररूपणा ॥ २१४ ॥ मुहूर्तगतिरकस्य, या विवक्षितमण्डले । यच्च तस्मिन् दिनमानं, द्रयमेतत् पृथग् न्यसेत् ॥ २१५ ॥ मुहूर्तगतिरेषाऽथ, दिनमानेन गुण्यते । एकार्कस्य: तदैकाहः, प्रकाश्यं क्षेत्रमाप्यते ॥ २१६ ॥ यावच्चैकाहःप्रकाश्यं क्षेत्रमेकत्रमण्डले । तदर्धन मनुष्याणां, भवेत् दृग्गोचरो रविः ॥ २१७ ॥ अयं भावः, यावन्क्षेत्रं दिनार्धन, भानुर्भावयितुं क्षम: । दृश्यते तावतः क्षेत्रात्, मण्डलेष्वखिलेष्वपि ॥ २१८ ॥ यथा पञ्च सहस्राणि, योजनानां शतद्वयम् । एकपञ्चाशमेकोनत्रिंशदंशाश्च षष्टिजाः ॥ २१९ ॥ मुहूर्त्तगतिरेषा या, प्रोक्ताऽभ्यन्तरमण्डले । गुण्यते सा दिनार्द्धन, मुहूर्त्तनवकात्मना ॥ २२० ॥ सप्त चत्वारिंशदेवं, सहस्राणि शतद्धयम् । त्रिषष्टिश्च योजनानां, षष्ट्यंशा एकविंशतिः ॥ २२१ ॥ उद्गच्छन्नियतः क्षेत्रात्, भानुरस्तमयन्नपि । इहत्यैः दृश्यते लोकैः, सर्वाभ्यन्तरमण्डले ॥ २२२ ॥ ततश्चैतत् द्विगुणितमुदयास्तान्तरं भवेत् । प्रकाशक्षेत्रमप्येतावदेवोभयतोऽन्वितम् ॥ २२३ ॥ तथाहुः- रविणो उदयत्यंतर, चउणवइसहस्स पणसय छब्बिसा । बायालसट्ठिभागा, कक्कडसंकंतिदियहमि
[बृहत्संग्रहणी गा. ११८] एवं च, सहनैः सप्तचत्वारिंशता द्वितीयमण्डले । सैकोनाशीतिनादृश्यो, योजनानां शतेन च ॥ २२४ ॥ सप्तपञ्चाशता षष्टिभागैरेकस्य तस्य च । अंशैरेकोनविंशत्या, विभक्तस्यैकषष्टिधा ॥ २२५ ॥ एवं च, त्र्यशीतियोजनान्यंशास्त्रयोविंशतिरेव च । षष्टिभक्तयोजनस्यैकस्य षष्टिलवस्य च ॥ २२६ ॥ एक षष्टिविभक्तस्य, द्विचत्वारिंशदंशका: । हानिरत्रेयमाद्यात् स्यात्, पुरो हानौ ध्रुवोऽप्ययम् ॥ २२७ ॥ किं च, सर्वान्तर्मण्डलात्तातीयीकं यत्किल मण्डलम् । तदेवाद्यं प्रकल्प्याने, येषु येषु विभाव्यते ॥ २२८ ॥