SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ 291 दृग्मार्गस्तरणेस्तत्र, तत्रैकट्यादिसंख्यया । हत्वा षट्त्रिंशतं भागं, भागांस्तान् योजयेत् ध्रुवे ॥ २२९ ॥ ततश्च, पूर्वमण्डलदृग्मार्गप्राप्तिस्तेन विवर्जिता । खरांशोः दृक्पथप्राप्तिपानं स्यादिष्टमण्डले ॥ २३० ॥ यथान्तर्मण्डलात्तार्तीयीके तरणिमण्डले । षट्त्रिंशदेकेन गुण्या, स्थितौ राशिस्तथैव सः ॥ २३१ ॥ तत: षट्त्रिंशदेवते, त्र्यशीत्युपरिवर्तिषु । योजिता भागभागेषु, जातास्ते चाष्टसप्ततिः ॥ २३२ ॥ एकषष्ट्या लवैश्चैकः, षष्टिभागो भवेत् स च । योज्यते षष्टिभागेषु, शेषाः सप्तदश स्थिताः ॥ २३३ ॥ एवं च, त्र्यशीतियोजनान्यंशा, षष्टिजाता जिनैर्मताः । सप्तदशैकषष्ट्यंशा, शोध्यराशिः भवत्यसौ ॥ २३४ ॥ अनेन राशिना हीने, द्वितीयमण्डलाश्रिते । दृग्गोचरे तृतीये स्यात्, मण्डले दृक्पथो रवेः ॥ २३५ ॥ एवं च, सहनैः सप्तचत्वारिंशता षण्णवतिं श्रितैः । योजनानां षष्टिभागैस्त्रयस्त्रिंशन्मितैस्तथा ॥ २३६ ॥ एकस्य षष्टिभागस्य, विभक्तस्यैकषष्टिधा । भागद्येन चोष्णांशुद्देश्यस्तृतीयमण्डले ॥ २३७ ॥ एवमुक्तप्रकारेण, बहिनिष्क्रमतो रवेः । दृक्पथप्राप्तिविषयात्, हीयते प्रतिमण्डलम् ॥ २३८ ॥ त्र्यशीति: साधिका वापि, चतुरशीतिख च । साधिका सा क्वापि पञ्चाशीतिः साप्यधिका क्वचित् ॥ २३९ ॥ योजनानां हानिरेवं, भाव्या गणितपण्डितैः । पूर्वोक्तगणिताम्नायात्, यावत्सर्वान्त्यमण्डलम् ॥ २४० ॥ तत्र चैकत्रिंशतैव सहनैरष्टभिः शतैः । एकत्रिंशैस्त्रिंशता च, षष्टयंशैर्दृश्यते रविः ॥ २४१ ॥ यद्यप्यान्तरतृतीयमण्डलापेक्षया ढ्यशीत्यधिकशततमेऽस्मिन् मण्डले पूर्वोक्तकरणप्रक्रियया शोध्यराशिः पञ्चाशीतिर्योजनानि एकादश षष्टिभागा एकस्य षष्टिभागस्य सत्का: षडेकषष्टिभागा (८५-११/६०) एवंरूपो जायते तथापि पूर्वोक्ताः षट्त्रिंशद्भागभागा: कलान्यूना अपि व्यवहारतः पूर्णा विवक्षिताः । तस्मिंश्च कलान्यूनत्वे अन्त्यमण्डले एकत्र पिण्डिते सति अष्टषष्टिरेकषष्टिभागा: त्रुट्यन्ति तदपसारेण पञ्चाशीतिर्योजनानि नव षष्टिभागा योजनस्यैकस्य षष्टिभागस्य सत्का षष्टिरेकषष्टिभागा जायन्ते ८५ ९/६० + (१/६०६०/६१) । अयं च शोध्यराशिः सर्वबाह्यार्वाचीनमण्डलगतदृक्पथप्राप्तिपरिमाणात् यदि शोध्यते तदा यथोक्तं सर्वान्त्यमण्डले दृक्पथप्राप्तिपरिमाणं भवतीति ध्येयम् ॥ पूर्वोक्तध्रुवकाद्युपपत्तिस्त्वत्रोपाध्यायश्रीशान्तिचन्द्रोपज्ञजम्बूद्धीपप्रज्ञप्तिसूत्रवृत्तेरवसेया । ग्रन्थगौरवभयान्नात्रोच्यते । इति ज्ञेयम् ॥ यद्धा, पञ्चयोजनसहस्राः, पञ्चोत्तरं शतत्रयम् । षष्टिभागा: पञ्चदश, मुहूर्त्तगतिरत्र हि ॥ २४२ ॥ षण्मुहूर्तात्मना चैषा, दिवसाधुन गुण्यते । ततोऽप्येतत् दृक्पथाप्तिमानं सर्वान्त्यमण्डले ॥ २४३ ॥ सर्वबाह्याक्तिने तु, चतुरशीतिवर्जितैः । द्वात्रिंशता योजनानां, सहनैर्दृश्यते रविः ॥ २४४ ॥ अंशैश्चैकोनचत्वारिंशता षष्टिसमुद्भवः । एकस्य षष्टिभागस्य, षष्टयांशैश्चैकषष्टिजैः ॥ २४५ ॥ ॥ ३१९१६-३९/६०-(१/६१६०/६१) योजन ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy