________________
289
विष्कम्भायामतो नूनं, सर्वाभ्यन्तरमण्डलम् । सहस्रा नवनवतिश्चत्वारिंशा च षट्शती ॥ १८६ ॥ परिधिस्तु यथाम्नायमस्य लक्षत्रयं युतम् । सहस्रैः पञ्चदशभिर्नवाशीतिश्च साधिका ॥ १८७ ॥ सषष्टियोजनशतत्रयं यत्प्रागपाकृतम् । तस्य वा परिधि: कार्य:, पृथगीदृद्धिधस्तु सः ॥ १८८ ॥ एकादश शतान्यष्टत्रिंशान्येनं विशोधयेत् । जम्बूद्धीपस्य परिधेः, स्यादप्येवं यथोदितः ॥ १८९ ॥ अथैकत: स्थितं सर्वान्तरानन्तरमण्डलम् । अष्टचत्वारिंशदंशान्, सर्वान्तर्मण्डलात्मकान् ॥ १९० ॥ द्धे योजने च त्यक्त्वार्वाक्, परतोप्येवमेव तत् । एवं पञ्चत्रिंशदंशं, भवद्योजनपञ्चकम् ॥ १९१ ॥ ततोऽर्क युग्मान्तरवद्र्धन्ते प्रतिमण्डलम् । योजनानि पञ्च पञ्चत्रिंशदंशाश्च विस्तृतौ ॥ १९२ ॥ ततस्तेषां परिक्षेपा, ज्ञेया व्यासानुसारतः । स पञ्चत्रिंशदंशस्य, योजनपञ्चकस्य वा ॥ १९३ ॥ परिक्षेपः पृथक्कार्य, ईदृगूपः स जायते । साधिकाष्टात्रिंशदंशयुक् सप्तदशयोजनी ॥ १९४ ॥ अष्टादश योजनानि, परन्तु व्यवहारतः । संपूर्णानि विवक्ष्यन्ते, ततोऽष्टादशयोजनीम् ॥ १९५ ॥ प्राच्यप्राच्यमण्डलस्य, परिक्षेपे नियोजयेत् । ततोऽयायमण्डलस्य, परिक्षेपमितिर्भवेत् ॥ १९६ ॥ एवं वृद्धिः परिक्षेपे, यावच्चरममण्डलम् । ततो यथा वृद्धि हानिरासर्वान्तरमण्डलम् ॥ १९७ ॥ एवं च परिधिः सर्वान्तरानन्तरमण्डले । लक्षत्रयं पञ्चदशसहस्राः सप्तयुक्शतम् ॥ १९८ ॥ तार्तीयिके मण्डले च, सर्वाभ्यन्तरमण्डलात् । लक्षास्तिस्रः पञ्चदश, सहस्रास्तत्त्वयुक्शतम् ॥ १९९ ॥ लक्षास्तिस्रोऽष्टादशैव, सहस्रास्त्रिशती तथा । युक्तोनैः पञ्चदशभिः, सर्वान्त्ये परिधिर्भवेत् ॥ २०० ॥
तथाहुः श्रीमलयगिरिपादा: क्षेत्रविचारबृहद्वृत्तौ ॥ एवं मण्डले मण्डले आयामविष्कम्भयोः पञ्च पञ्च योजनानि पञ्चत्रिंशदेकषष्टिभागाधिकानि परिरय अष्टादश अष्टादश योजनानि परिवर्धयता तावद्भक्तव्यं यावत्सर्वबाह्यमण्डलं एकं योजनशतसहस्त्र षट् शतानि षष्ट्यधिकानि आयाम विष्कम्भाभ्यां त्रीणि योजनशतसहस्त्राणि अष्टादश सहस्राणि त्रीणि शतानि पञ्चदशोत्तराणि किञ्चिदूनानि परिरये इति । अत्र च यद्यपि प्रतिपरिक्षेपमष्टादशाऽष्टादशवृद्धौ त्र्यशीत्यधिकशतस्याष्टादशभिर्गुणने चतुर्नवत्यधिकानि द्वात्रिंशच्छतानि भवन्ति एतेषां च सैकोननवतिपञ्चदशसहस्राधिकलक्षत्रयरूपप्रथममण्डलपरिक्षेपेण सह योगे सर्वबाह्यमण्डलपरिरयस्तिस्रो लक्षा अष्टादश सहस्रा त्रिशती त्र्यशीत्युत्तरा भवन्ति । परन्तु प्रागुक्तानि सप्तदशयोजनानि साधिकयोजनसत्काष्टात्रिंशदेकभागाधिकानि प्रतिपरिरयंवृद्धिरिति विभाव्यैव न्यूनपञ्चदशाधिक-शतत्रययुक्ताष्टादशसहस्राधिकलक्षत्रयरूपः सर्वबाह्यमण्डलपरिधिरुक्त इति सम्भाव्यते । यद्यप्यत्रापि उपरितनं शतत्रयं चतुर्दशोत्तरमेव भवति तथापि उपरितनानां अष्टात्रिंशतो भागानां साधिकत्वात्
न्यूनानि पञ्चदशैव विवक्षितानीति सम्यग्विभावनीयं गणितज्ञैः ॥ एवं कृता मण्डलानां, परिक्षेपप्ररूपणा । गतिं प्रतिमुहूर्तं च, ब्रूमहे प्रतिमण्डलम् ॥ २०१॥ एकैकं मण्डलं ह्येकमार्तण्डेन समाप्यते । दाभ्यां किलाहोरात्राभ्यां, मुहूर्ताः षष्टिरेतयोः ॥ २०२ ॥