________________
288
मन्दतेजस्तया दूरतया च बाह्यमण्डले । निशातमः क्षेत्रवृद्धिस्तापक्षेत्राल्पता हिमम् ॥ १६८ ॥
यत्तु जम्बूदीपप्रज्ञप्तिसूत्रे सर्वान्तर्मण्डलस्थे रवी समुद्रदिशि तापक्षेत्रविष्कम्भः चतुर्नवतिर्योजनसहस्राण्यष्टौ शतान्यष्टषष्ट्यधिकानि चतुरश्च दशभागान् योजनस्योक्तः, तथा ध्वान्तविष्कम्भश्च त्रिषष्टिोजनसहस्राणि द्वे च पञ्चचत्वारिंशदधिके योजनशते षट् च दशभागा योजनस्यायमेव च सर्वबाह्यमण्डलस्थे रवौ तापक्षेत्रध्वान्तक्षेत्रयोः विपर्ययेण विष्कम्भरुक्तः, स तु जम्बूद्धीपपरिधेरेव दशांशद्धयत्रयकल्पनया इति व्यामोहो न विधेयः । यत्तु तत्र सर्वान्तर्मण्डले उभयतः समुदितं द्वीपसम्बन्धि षष्ट्यधिकं योजनशतत्रयं न्यूनतया न विवक्षितं । यच्च सर्वबाह्यमण्डले उभयत: समुदितानि समुद्रसम्बन्धीनि षष्ट्यधकानि षट् योजनशतान्यधिकतया न विवक्षितानि तत्राविवक्षैव बीजम् । इत्यादिकमर्थत उपाध्यायश्रीशान्तिचन्द्रोपज्ञ
जम्बूदीपप्रज्ञप्तिवृत्तेरवसेयम् ॥ तापक्षेत्रस्य च व्यासो, यावान् स्याद्यत्र मण्डले । करप्रसारस्तस्या?, पूर्वतोऽपरतोऽपि च ॥ १६९ ॥ मेरोर्दिशि तु मेवर्द्ध, यावत्तेजः प्रसर्पति । पाथोधिदिशि पाथोधेः, षड्भागं यावदर्कयोः ॥ १७० ॥ करप्रसार ऊर्ध्वं तु, योजनानां शतं मत: । यत्तापयत एतावदूर्ध्वं निजविमानतः ॥ १७१ ॥ शतेष्वष्टासु सूर्याभ्यामधस्तात् समभूतलम् । सहस्रं च योजनानामधोग्रामास्ततोऽप्यधः ॥ १७२ ॥ तांश्च यावत्तापयतः, प्रसरन्ति करास्ततः । विवस्वतोर्योजनानामष्टादश शतान्यधः ॥ १७३॥ सप्तचत्वारिंशदथ, सहस्राणि शतद्वयम् । त्रिषष्टिश्च योजनानां, षष्टयंशा एकविंशतिः ॥ १७४ ॥ करप्रसार एतावान्, सर्वान्तर्मण्डलेऽर्कयोः । पूर्वतोऽपरतश्चाथ, दक्षिणोत्तरयोचुवे ॥ १७५ ॥ सहस्राणि पञ्चचत्वारिंशत्स्वर्गिगिरेर्दिशि । साशीतियोजनशतोनान्यथाब्धेर्दिशि ब्रुवे ॥ १७६ ॥ त्रयस्त्रिंशत् सहस्राणि, त्रयस्त्रिंशं शतत्रयम् । योजनत्र्यंशयुक् वाद्धौ, दीपेऽशीतियुतं शतम् ॥ १७७ ॥ सर्वबाह्यमण्डले तु, चरतोरुष्णरोचिषोः । करप्रसार एतावान्, स्यात् पूर्वापरयोर्दिशोः ॥ १७८ ॥ एकत्रिंशत्सहस्राणि, शतान्यष्टौ तथोपरि । एकत्रिंशद्योजनानि, त्रिंशदंशाश्च षष्टिजाः ॥ १७९ ॥ मेरोदिशि योजनानां, वाद्धौं त्रिशं शतत्रयम् । द्वीपे च पञ्चचत्वारिंशत्सहस्रास्ततः परम् ॥ १८०॥ त्रयस्त्रिंशत्सहस्राणि, सत्र्यंशं योजनत्रयम् । करप्रसारो भान्वोः स्याल्लवणाब्धौ शिखादिशि ॥ १८१ ॥ ऊर्ध्वं तु योजनशतं, तुल्यं सर्वत्र पूर्ववत् । अष्टादश योजनानां, शतान्यधस्तथैव च ॥ १८२ ॥
इति क्षेत्रविभागेन दिनरात्रिमानप्ररूपणा तत्प्रसंगादातपतम:संस्थानादिप्ररूपणा च ।। कृता क्षेत्रविभागेन, दिनरात्रिप्ररूपणा । परिक्षेपमिति ब्रूमः, साम्प्रतं प्रतिमण्डलम् ॥ १८३ ॥ वगाह्योभयतो दीपे, सर्वान्तर्मण्डलं स्थितम् । साशीतियोजनशतं, द्विजं कार्यमिदं ततः ॥ १८४ ॥ सषष्टियोजनशतत्रयं जातमिदं पुनः । द्वीपव्यासाल्लक्षरूपादिशोध्यते ततः स्थितम् ॥ १८५ ॥