________________
287 तथा च, सहसा नव षडशीत्यधिका च चतुःशती । योजनानां दशछिन्नयोजनस्य लवा नव ॥ १४३ ॥ विष्कम्भोऽम्भोधिपार्श्वे तु, तापक्षेत्रस्य निश्चित: । अन्तर्मण्डलपरिधेर्दशांशे त्रिगुणीकृते ॥ १४४ ॥ स चायम्, योजनानां सहस्राणि, चतुर्नवतिरेव च । षड्विशा: पञ्चशत्यंशाः, षष्टिजा द्वयब्धिसंमिताः ॥ १४५ ॥ नन्वेवमब्धेः षड्भागं, यावद्व्याप्तिमुपेयुष: । तापक्षेत्रस्य विष्कम्भः, संभवेत् नाधिकः कथम् ? ॥ १४६ ॥ तथाहि, पूर्वोक्ततापक्षेत्रस्य, प्रान्तेऽब्धौ परिधिस्तु य: । तद्दशांशत्रयमितो, विष्कम्भः संभवेन्न किम् ॥ १४७ ॥ अत्रोच्यते, संभवत्येव किन्त्वत्र, करणेनैष संवदन् । चतुर्नवतिसहस्रादिक एव मतो बुधैः ॥ १४८ ॥ व्यक्तिस्तु करणस्यास्य, मुहूर्तगतिचिन्तया । कार्या दृग्गोचरस्येव, साम्यान् दृक्पथतापयोः ॥ १४९ ॥
तथाहुः-अत्रोदयास्तान्तरं प्रकाशक्षेत्रं तापक्षेत्रमित्येकार्थाः ।। विष्कम्भस्त्वेष तापस्य, द्विविधोऽप्यनवस्थितः । याम्येऽयने हीयमानः, सौम्ये वृद्धिमवाप्नुयात् ॥ १५० ॥ मुहूर्तेकषष्टिभागदयगम्यं तु यद् भवेत् । क्षेत्रं तावन्मिता वृद्धिानिश्च प्रतिमण्डलम् ॥ १५१ ॥ तथा च मण्डलैः सार्धत्रिंशतैकैकभानुमान् । क्षेत्रं गम्यं मुहूर्तेन, वर्धयेदा क्षयं नयेत् ॥ १५२ ॥ मण्डलानां सत्र्यशीतिशतेनैवमनुक्रमात् । वर्धितं क्षपितं ताभ्यां, सौम्ययाम्यायनान्तयोः ॥ १५३ ॥ मुहूतैः षड्भिराक्रम्य, क्षेत्रं स्यादेष एव च । बाह्यान्तरमण्डलाभ्यां, दशांशो वृद्धिहानिभाक् ॥ १५४ ॥ प्रकाशपृष्टलग्नस्यान्धस्येव तमसोऽप्यथ । आकृतिश्चिन्त्यते भान्वोः, सर्वान्तर्मण्डलस्थयोः ॥ १५५ ॥ अस्याप्याकृतिरूवा॑स्यतालिकापुष्पसंस्थिता । तापक्षेत्रवदायाममानं चास्याप्यवस्थितम् ॥ १५६ ॥ अस्तं गते दिनपतौ, मेरोरपि गुहादिषु । ध्वान्तोपलब्धेरायामस्तमसोऽपि प्रकाशवत् ॥ १५७ ॥ विष्कम्भो मेरुसंलग्ने, स्यादेवं ध्वान्तचोलके । मन्दराद्रिपरिक्षेपदशांशे द्विगुणीकृते ॥ १५८ ॥ षट्योजनसहस्राणि, चतुर्विंशं शतत्रयम् । दशभागीकृतस्यैकयोजनस्य लवाश्च षट् ॥ १५९ ॥ लवणाम्भोधिदिशि तु, विष्कम्भस्तमसो भवेत् । अन्तर्मण्डलपरिधेर्दशांशे द्विगुणीकृते ॥ १६० ॥ स चायम्, योजनानां सहस्रास्त्रिषष्टिः सप्तदशाधिका: । अष्टचत्वारिंशदंशाः, षष्टिजास्तत्र मण्डले ॥ १६१ ॥ इति कर्क संक्रान्तौ आतपक्षेत्रतमःक्षेत्रयोः स्वरूपम् ॥ सर्वबाह्यमण्डलं तु, प्राप्तयोरुष्णरोचिषोः । तापान्धकारयोः प्राग्वत्, संस्थानादिनिरूपणम् ॥ १६२ ॥ किन्त्वब्धिदिशि विष्कम्भे, विशेषोऽस्ति भवेत्स च । बाह्यमण्डलपरिधेर्दशांशे द्विगुणीकृते ॥ १६३ ॥ स्युस्त्रिषष्टिः सहस्राणि, सत्रिषष्टिश्च षट्शती । तद्दशांशे त्रिगुणिते, ध्वान्तव्यासोऽप्यसौ तदा ॥ १६४ ॥ सहस्राः पञ्चनवतिश्चत्वायैव शतानि च । चतुर्नवतियुक्तानि, त्रिंशदंशाश्च षष्टिजाः ॥ १६५ ॥ बाह्यान्तर्मण्डलस्थार्क, तापक्षेत्रानुसारतः । वृद्धिहानिव्यतीहारः, प्रकाशतमसोर्भवेत् ॥ १६६ ॥ सामीप्यात् दीप्रतेजस्त्वात्, सर्वान्तमण्डलेऽर्कयोः । दिनातपक्षेत्रवृद्धिर्धर्मस्तीव्रस्तमोऽल्पता ॥ १६७ ॥