________________
286
प्रकाशक्षेत्रतश्चैवं, दशांशौ दक्षिणायने । हीयेते क्रमतस्तौ च, वर्द्धते उत्तरायणे ॥ १२१ ॥ अत्रोपपत्तिः । द्वाभ्यां किलाहोरात्राभ्यामेकेनार्केण मण्डलम् । पूर्यतेऽहोरात्रयोश्च, मुहूर्ताः षष्टिराहिताः ॥ १२२ ॥ षष्टेश्च दशमो भागः, षट् ते च त्रिगुणीकृताः । दशांशत्रयरूपाः स्युः, षष्टेरष्टादश क्षणाः ॥ १२३ ॥ तदेभिरष्टादशभिर्मुहूत्तैः परिधेरपि । उत्कृष्टदिवसे युक्तं, दशांशत्रयदीपनम् ॥ १२४ ॥ दशांशद्धयरूपाश्च, षष्टेर्दादश निश्चिताः । तत् तैर्दादशभिर्युक्तं, दशांशद्धयदीपनम् ॥ १२५ ॥
तथाहुः, इह छच्चिय दसभाए, जंबूद्दीवस्स दुन्नि दिवसयरा । ताविंति दित्तलेसा, अजिंतरमंडले संता ॥
चत्तारिय दसभाए, जंबुद्दीवस्स दुन्नि दिवसयरा । ताविंति मंदलेसा, बाहिरए मंडले संत ॥ एवं प्रकाशक्षेत्रस्य, दशांशकल्पना बुधैः । आपुष्करार्धं कर्तव्या, रवीनामथ तत्र च ॥ १२६ ॥ दिशत्येकोनपञ्चाशा, चतुस्त्रिंशत् सहस्रका: । द्विचत्वारिंशच्च लक्षाः, कोट्येका परिधिर्भवेत् ॥ १२७ ॥ दशांशत्रितयं लक्षा, द्विचत्वारिंशदस्य च । सप्तत्रिंशाच्चतुस्त्रिंशत्सहस्त्राः परमे दिने ॥ १२८ ॥ तापक्षेत्रं तिर्यगेतत्, पुष्कराः विवस्वताम् । ततस्तदः पश्यन्ति, तत्रत्या: सूर्यमुद्गतम् ॥ १२९ ॥ तथोक्तम्, लक्नेहिं एगवीसाइ, साइरेगेहिं पुक्खरद्धंमि । उदए पिच्छंति नरा, सूरं उक्कोसए दिवसे ॥
[विशेषावश्यक श्लो. ३४५] सर्वान्तरमण्डलगतसूर्ययोरातपाकृतिः । ऊर्धास्यतालिकापुष्पसंस्थानसंस्थिता मता ॥ १३० ॥ मेरूदिश्यर्धवलयाकारा वारिनिधेर्दिशि । शकटो:मूलभागानुकारेयं प्रकीर्तिता ॥ १३१ ॥ मेरोदिशि सङ्कचिता, विस्तृता चाम्बूधेर्दिशि । प्रत्येकमस्या आयामो, दक्षिणोत्तरयोर्दिशोः ॥ १३२ ॥ मेरोरन्तात् योजनानां, सहस्राण्यष्टसप्ततिः । शतत्रयं त्रयस्त्रिंशं, तृतीययोजनांशयुक् ॥ १३३ ॥ सहस्राः पञ्चचत्वारिंशद्योजनानि तत्र च । जम्बूद्धीपे शेषमब्धौ, द्रयोोंगे यथोदितम् ॥ १३४ ॥ मेरुणा यन्मते सूर्यप्रकाश: प्रतिहन्यते । तेषां मते मानमिदं, तापक्षेत्रायते: ध्रुवम् ॥ १३५ ॥ येषां मते मेरुणार्कप्रकाशो नाभिहन्यते । किन्तु मेरुगुहादीनामप्यन्तः प्रथते महः ॥ १३६ ॥ तेषां मते मन्दरार्धादारभ्य लवणोदधेः । षड्भागं यावदायामस्तापक्षेत्रस्य निश्चित: ॥ १३७ ॥ तदा च, योजनानां सहस्राणि, पञ्च राशौ पुरातने । क्षिप्यन्ते मन्दराद्धस्य, ततो मानमिदं भवेत् ॥ १३८ ॥ योजनानां सहस्राणि, त्र्यशीतिः त्रिशती तथा । त्रयस्त्रिंशत्समधिका, तृतीयोशश्च योजनः ॥ १३९ ॥ सुपर्वपर्वतादेवं, पूर्वपश्चिमयोरपि । तापक्षेत्रस्य प्रत्येकमायामो ज्ञायतामियान् ॥ १४० ॥ सर्वेषु मण्डलेष्वेष, चरतो नुमालिनोः । अवस्थितः सदा तापक्षेत्रायामः प्रकीर्तितः ॥ १४१ ॥ विष्कम्भस्तु मेरुपाचे, तस्यार्धवलयाकृते: । स्यात् मेरुपरिधेर्भागे, दशमे त्रिगुणीकृते ॥ १४२ ॥