________________
285
एवमहोरात्रे विशेष वदन्ति । अत एव दक्षिणायनं देवानां रात्रिरुत्तरायणं तेषां दिनमिति
शुभकार्य तत्र विहितमिति मन्यन्ते ॥ ननु चाष्टादशमुहूर्तात्माऽहर्भरते यदि । स्यात्तदा च विदेहेषु, रात्रिः सर्वलधीयसी ॥९८ ॥ तर्हि रात्रे दशानां, मुहूर्तानां व्यतिक्रमे । स्यात् क्षेत्रे तत्र कः काल, इति चेदुच्यते श्रृणु ॥ ९९ ॥ युरात्रिमानविश्लेषे, शेषार्धाधु भवेत् द्रयोः । सामान्य क्षेत्रयो रात्रिदिनपूर्वापरांशयोः ॥ १०० ॥ तद्यथा, क्षणेभ्योऽष्टादशभ्यो द्वादशापकर्षणे स्थिताः । षट् तदर्धं त्रयं साधारणं ज्येष्ठदिनोषयोः ॥ १०१ ॥ एवं च, अष्टादशमुहूर्तात्मा, यदोत्कृष्टदिनस्तदा । पश्चात्त्रिक्षणशेषेऽति, भवेत् भानूदयोऽग्रतः ॥ १०२ ॥ तथाहि, मुहूर्त्तत्रयशेषेति, भरतैरवताख्ययोः । भवेदभ्युदयो भानोः, पूर्वापरविदेहयोः ॥ १०३ ॥ दिने त्रिक्षणशेषे च, पूर्वापरविदेहयोः । स्यात् भारतैरवतयोस्तरणेरुदयः खलु ॥ १०४ ॥ एवं च, स्यात् भारतैरवतयोरहोऽन्त्यं यत्क्षणत्रयम् । ज्येष्टेऽहनि तदेवाद्यं, पूर्वापरविदेहयोः ॥ १०५ ॥ दिने गुरौ यदेवाद्यं, पूर्वापरविदेहयोः । तत् भारतैरवतयोरहोऽन्त्यं स्यात्क्षणत्रयम् ॥ १०६ ॥ तथा, अष्टादशमुहूर्ता स्यात्, यदोत्कृष्टा निशा तदा । तन्मुहूर्त्तत्रयेऽतीते, भवेदऊदयः पुरः ॥ १०७ ॥ तथाहि । पूर्वापरविदेहेषु, भानोरस्तात् त्रिभिः क्षणैः । स्यात् भारतैरवतयोस्तरणेरुदयः खलु ॥ १०८ ॥ भारतैरवतयोश्च, भानोरस्तादनन्तरम् । त्रिभिः क्षणैः स्यात् प्रत्यूषं, पूर्वापरविदेहयोः ॥ १०९ ॥ क्षणशब्दश्चात्र प्रकरणे मुहूर्त्तवाचीति ध्येयम् ॥ तथा च, भवेदिदेहयोराद्यं, यन्मुहूर्त्तत्रयं निशः । स्यात् भारतैरवतयोः, तदेवान्त्यं क्षणत्रयम् ॥ ११० ॥ स्यात् भारतैरवतयोस्तदेवान्त्यं क्षणत्रयम् । भवेद्धिदेहयो रात्रेस्तदेवान्त्यं क्षणत्रयम् ॥ १११ ॥ इह च प्राग्विदेहादिक्षेत्राह्यानोपलक्षिताः । पूर्वादिक्षेत्रदिग्मध्यभागा ज्ञेया विवेकिभिः ॥ ११२ ॥ तेष्विदं कालनैयत्यं, ज्ञेयमन्यत्र तु स्फुटम् । भाव्यमस्यानुसारेणार्कोदयास्तविभावनात् ॥ ११३ ॥ एवं च, अपाच्युदीच्यो: प्रत्यूषात् मुहूर्त्तत्रियते गते । लघोर्निशाया: प्रारम्भः, स्यात् पूर्वापरयोर्दिशोः ॥ ११४ ॥ अपराहृत्रिमुहूर्त्यां, शेषायां चानयोर्दिशोः । प्रत्यक् प्राक् च निशान्तः, स्यादेवं सर्वत्र भाव्यताम् ॥ ११५ ॥ इदं गुरुदिने गुा, रात्रौ त्वस्याः क्षणत्रये । गते शेषे च कल्पाहःप्रान्तावुक्तदिशोः क्रमात् ॥ ११६ ॥ निशां चाहां मध्यमानामप्येवं स्तो यथोचितम् । विश्लेषशेषार्द्धशेषे, याते चादिपरिक्षयौ ॥ ११७ ॥ इति कृता वर्षमध्ये दिनरात्रिप्रमाणप्ररुपणा ॥ मण्डलस्याभ्यन्तरस्य, दशात्र परिधेर्लवाः ॥ कल्प्यास्तत्रोद्योतयेत्तांस्त्रीनेकोऽर्को दिने गुरौ ॥ ११८ ॥ त्रीच तत्संमुखानन्यः, षट्स्वंशेषु दिनं तत: । मध्ये तयोः लवौ द्वौ दौ, रजनीति लवा दश ॥ ११९ ॥ जघन्येऽहनि च द्वौ दौ, भागौ दीपयतो रवी । दिनं चतुर्षु भागेषु, निशा षट्सु लवेष्वत: ॥ १२० ॥