SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ 284 अौ यदा सर्वबाह्यमण्डले समुपस्थितौ । अहोरात्रेऽस्य वर्षस्य, त्र्यशीतियुक्शतोन्मिते ॥ ८० ॥ तदा ताभ्यां मुहूत्तैकषष्ट्यंशानां शतत्रयम् । सषट्षष्टिदिनाकृष्ट, रजन्यां चाभिवद्धितम् ॥ ८१ ॥ तावद्भिश्च मुहूत्तैकषष्टिभागैर्यथोदितैः । विभाजितैरेकषष्ट्या, मुहूर्तानि भवन्ति षट् ॥ ८२ ॥ अहोरात्रेऽत्र तद्रात्रिरष्टादशमुहूर्तिका । उत्कृष्टाहश्चापकृष्टं, स्यात् द्वादशमुहूर्त्तकम् ॥ ८३ ॥ याम्यायनस्य पूर्णस्याहोरात्रोऽयं किलान्तिम: । त्र्यशीतियुगहोरात्रशतेनेदं हि पूर्यते ॥ ८४ ॥ लोके तुः- “रसद्धिनाड्योऽर्कपला मृगे स्युः, सचापकुम्भेऽष्टकृतैः पलैस्ताः । अलौ च मीनेऽष्टयमा: सशक्रा, मेषे तुलायामपि त्रिंशदेव ॥ कन्यावृषे भूशिखिनोगवेदाः, सार्कास्त्रिरामा मिथुने च सिंहे । कर्के त्रिरामा वसुवेदयुक्ता, एषा मितिः संक्रमवासराणाम् ॥ ततश्च:एकार्कपक्षद्धिशरास्त्रिदन्तास्त्रिदन्तपक्षद्भिशराः कुसूर्याः । मृगादिषट्केऽहनि वृद्धिरेवम् कर्कादिषट्केपचिति:पलाढ्या ॥ प्रविशन्तौ सर्वबाह्यमण्डलात्तरणी यदा । संक्रम्य चरतः सर्वबाह्यार्वाचीनमण्डले ॥ ५ ॥ तदा दाभ्यां मुहूतैकषष्ट्यंशाभ्यां विवर्द्धते । दिवसः क्षीयते रात्रिस्ताभ्यामेव यथोत्तरम् ॥८६॥ क्रमादेवं यदा प्राप्तौ, सर्वाभ्यन्तरमण्डले । त्र्यशीतियुक्शततमे, बाह्यार्वाचीनमण्डलात् ॥ ८७ ॥ तदोत्कृष्टं दिनमानमष्टादशमहूर्त्तकम् । रात्रिः सर्वजघन्या तु, स्यात् द्वादशमुहूर्तिका ॥ ८ ॥ एतदेवोदगयनस्यान्त्यं दिनमुदीरितम् । पूर्णे चास्मिन्नहोरात्रे, संपूर्णः सूर्यवत्सरः ॥ ८९ ॥ अत्युत्कृष्टं चापकृष्टं, प्रत्यब्दमेकमेव हि । दिनं रात्रिस्तथैवैका, सर्वोत्कर्षापकर्षभाक् ॥ ९ ॥ रात्रिर्याम्यायनान्तेऽतिगुर्वी लघुतमं दिनम् । दिनः सौम्यायनान्तेऽतिगुरुर्निशा लघीयसी ॥ ९१ ॥ तथा च सिद्धान्तः ॥ इह खलु तस्सेयं आइच्चसंवच्छरस्स सई अट्ठारसमुहुत्ते दिवसे भवइ । सई अठ्ठारसमुहुत्ता राइ भवइ । सई दुवालसमुहुत्तो दिवसो भवइ । सई दुवालसमुहुत्ता राइ भवइ ॥ जम्बूद्वीपे यदा मेरोदक्षिणोत्तरयोर्दिनम् ॥ चकितेव तदा रात्रिः, स्यात् पूर्वापरयोर्दिशोः ॥ ९ ॥ जम्बूद्वीपे यदा मेरोदक्षिणोत्तरयोर्निशा । तदास्याद् वासरो मेरोः, पूर्व पश्चिमयोर्दिशोः ॥ ९३ ॥ सर्वोत्कृष्टं दिनमानं, दक्षिणोत्तरयोर्यदा । रात्रिः सर्वजघन्या स्यात्, पूर्वपश्चिमयोस्तदा । ९४ ॥ सर्वोत्कृष्टं दिनमानं, पूर्वपश्चिमयोर्यदा । रात्रिः सर्वजघन्या स्यात्, दक्षिणोत्तरयोस्तदा ॥ ९५ ॥ किंञ्च क्षेत्रेषु सर्वेषु, समं मानमहर्निशोः । किन्त्वेतयोरवस्थाने, यथोक्त: स्यादिपर्यय: ॥ ९६ ॥ क्षेत्रे काले च सर्वस्मिन्नहोरात्रो भवेद्धवम् । त्रिंशन्मुहूर्तप्रमाणो, न तु न्यूनाधिकः क्वचित् ॥ ९७ ॥ लोके तुः- भवेत् पैत्रं त्वहोरात्रं मासेनाब्देन दैवतम् । दैवे युगसहस्रे ब्राम्यं कल्पौ तु तौ नृणाम् ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy