SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ 283 इति मण्डलान्तरप्ररूपणा ॥ ४ ॥ कर्त्तव्या मण्डलचारप्ररूपणा च सम्प्रति । सप्तानुयोगद्धाराणि, तत्राहु तत्त्ववेदिनः ॥६०॥ प्रत्यब्दं मण्डलचारसंख्याप्ररूपणा रवेः । वर्षान्तः प्रत्यहं रात्रिदिनमानप्ररूपणा ॥ ६१ ॥ मण्डले मण्डले क्षेत्रविभागेनाप्यहर्निशोः । प्ररूपणा मण्डलानां, परिक्षेपप्ररूपणा ॥६२ ॥ प्रतिमण्डलं मुहूर्तगतिमानप्ररूपणा । मण्डले मण्डले दृष्टिपथप्राप्तिप्ररूपणा ॥ ६३ ॥ प्ररूपणा सप्तमी च, ख्याताद्धमण्डलस्थितेः । अनुयोगद्धारमथ, प्रथमं परितन्यते ॥६४ ॥ चरतोऽकौ यदा सर्वान्तरानन्तरमण्डले । सूर्यसंवत्सरस्याहोरात्रोऽयं प्रथमस्तदा ॥६५॥ त्र्यशीतियुक्शततमे, द्वैतीयीकात्तु मण्डलात् । परिपाट्या सर्वबाह्यमण्डले तौ यदागतौ ॥ ६६ ॥ संपूर्णा: सूर्यवर्षस्य, षण्मासा: प्रथमे तदा । एतदेव च वर्षेऽस्मिन्, दक्षिणायनमुच्यते ॥ ६७ ॥ सर्वबाह्याक्तिनेऽथ, मण्डलेऽकौं यदा पुनः । तदोत्तरायणस्याहोरात्रोऽयं प्रथमो भवेत् ॥ ६८ ॥ त्र्यशीतियुक्शततमे, बाह्या चीनमण्डलात् । यदा क्रमाद्रवी प्राप्तो, सर्वाभ्यन्तरमण्डले ॥ ६९ ॥ पूर्णा द्वितीया षण्मासाः, पूर्ण तथोत्तरायणम् । पूर्ण वर्ष सषट्षष्ट्यहोरात्रत्रिशतात्मकम् ॥ ७० ॥ एवं चसर्वान्तरसर्वबाह्यमण्डलयोः किलैकश: । प्रत्यब्दं सूर्यचारः स्यात्, सर्वेष्वन्येषु च द्विश: ॥१॥ तथा चागमः ॥ जआ णं सूरिए सब्बभन्तराओ मंडलाओ सब्बबाहिरं मंडलं उवसंकमित्ता चारं चरड़ सव्वबाहिराओ य मंडलाओ सबभतरं मंडलं उवसंकमित्ता चारं चड़ एस णं अद्धा केवइएणं राइंदियग्गेणं आहियत्ति वएज्जा ? ॥ तिनिछावढे राइंदियसए राइंदियग्गेणं आहियत्ति वएज्जा ? ॥ ता एयाएणं अद्धाए सूरिए कइ मंडलाइं चरइ ? ता चुलसीयं मंडलसयं चार चरइ, बासीयं मंडलसयं दुक्खुत्तो चड् । तं जहा निक्खममाणे चेव पविसमाणे चेव दुवेय खलु मंडलाइं सई चरड् । तं जहा सम्बन्भन्तरं चेव सबबाहिरं चेव मंडलं ॥ इति मंडलचारसंख्याप्ररू पणा ॥ आक्रमेते यदा भानू, सर्वाभ्यन्तरमण्डले । अष्टादशमुहूर्तात्मा, सर्वोत्कृष्टा दिनस्तदा ॥७२॥ रात्रिःसर्वजघन्या तु, स्यात् द्वादशमुहूर्तिका । अथ क्रमात् रात्रिवृद्धिः, भावनीया दिनक्षतिः ॥७३॥ यदा तस्मादिनिर्यान्तौ, सर्वाभ्यन्तरमण्डलात् । आरभमाणौ नव्याद्रमहोरात्रेऽस्य चादिमे ॥ ७४ ॥ संक्रम्य चरतः सर्वाभ्यन्तरानन्तरस्थितम् । द्वितीयं मण्डलं सूयौ, दीपमन्दिरदीपकौ ॥७५॥ दाभ्यां मुहूर्तकषष्टिभागाभ्यां दिवसस्तदा । हीयते वासतेयी च, ताभ्यामेव विवर्द्धते ॥७६॥ अहोरात्रे द्वितीयेऽस्य, तृतीयमण्डले यदा । संक्रान्तौ तरणी सर्वान्तरानन्तरमण्डलात् ॥७७॥ मुहूत्तै कषष्टिभागैश्चतुर्भिर्दिवसस्तदा । हीयते वर्द्धते रात्रि गैस्तावद्भिरेव च ॥७८ ॥ एवं मुहूत्तैकषष्टिभागौ द्रौ प्रतिमण्डलम् । हापयन्तौ दिनक्षेत्रे, वर्द्धयन्तौ निशादिशि ॥७९॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy