________________
282
सहस्राणि दश व्यासो, मेरोस्ततोऽविशिष्यते । नवाशीतिः सहस्राणि चत्वारिंशा च षट्शती ॥ ३९ ॥ एतावान् मण्डलक्षेत्रे, मेरुव्यासो न यद्यपि । तथापि भूतलगतो, व्यवहारादिहोच्यते ॥ ४० ॥ तथाहुः श्रीमलयगिरिपादा बृहत्क्षेत्रसमासवृत्तौ । “यद्यपि च नाम मण्डलक्षेत्रे मेरोर्विष्कम्भो दशयोजनसहस्रात्मको न लभ्यते किन्तु न्यूनः तथापि धरणितले दशयोजनसहस्रप्रमाणः प्राप्यते इति तत्रापि स तावान् व्यवहारतो विवक्ष्यते ॥” अस्मिन्नाशाद्धिते च, सम्पद्यते यथोदितम् । ओघतो मण्डलक्षेत्रान्तरं मेरुव्यपेक्षया ॥ ४१ ॥ इति मेरुं प्रतीत्य मण्डल क्षेत्राबाधा ॥ १ ॥
एतदेवान्तरं मेरो:, सर्वान्तर्मण्डलस्य च । अतः परं यदपरं नास्ति मण्डलमान्तरम् ॥ ४२ ॥ सर्वान्तरानन्तरे तु द्वितीयमण्डले ततः । साष्टाचत्वारिंशदंशं वर्द्धते योजनद्वयम् ॥ ४३ ॥ इत्थं प्राग्मण्डलादग्य्रमण्डले योजनद्वयम् । साष्टाचत्वारिंशदंशमबाधायां विवर्द्धते ॥ ४४ ॥ एवं यावत्सर्वबाह्यमण्डलं मेरुतः स्थितम् । सहस्रैः पञ्चचत्वारिंशता त्रिंशैस्त्रिभिः शतैः ॥ ४५ ॥ इति मेरुं प्रतीत्य प्रतिमंडलमबाधा ॥ २ ॥
यदाऽर्कौ चरतः प्राप्य, सर्वाभ्यन्तरमण्डलम् । तदा सूर्यस्य सूर्यस्य स्यात् परस्परमन्तरम् ॥ ४६ ॥ सहस्रा नवनवतिश्चत्वारिंशाश्च षट्शती । द्वीपव्यासादुभयतो मण्डलक्षेत्र (१८०) कर्षणात् ॥ ४७ ॥ सर्वान्तरान्तरौ तौ द्वितीयं मण्डलं यदा । उपसंक्रम्य चरतस्तदा मिथोऽन्तरं तयोः ॥ ४८ ॥ सहस्रा नवनवतिर्योजनानां च षट्शती । पञ्चचत्वारिंशदाढ्या, पञ्चत्रिंशत्तथा लवाः ॥ ४९ ॥ तथा ह्येकोऽप्यर्क इह, द्वितीयमण्डले व्रजन् । साष्टाचत्वारिंशदंशे, द्वे योजने व्यतिक्रमेत् ॥ ५० ॥ एवं द्वितीयोऽपि ततो वर्द्धन्ते प्रतिमण्डलम् । योजनानि पञ्च पञ्चत्रिंशद्भागा मिथोऽन्तरे ॥ ५१ ॥ एवं यावत्सर्वबाह्यमण्डले चरतस्तदा । तयोर्मिथोऽन्तरं लक्षं, सषष्टीनि शतानि षट् ॥ ५२ ॥ अन्तर्विशन्तौ तौ सर्वबाह्यमण्डलतः पुनः । अर्वाचीने सर्वबाह्याद्धर्त्तेते मण्डले यदा ॥ ५३ ॥ तदार्कयोरन्तरं स्याल्लक्षमेकं शतानि षट् । चतुःपञ्चाशानि लवाः, षड्विंशतिः पुरोदिताः ॥ ५४ ॥ एवमन्तः प्रविशतः, प्रतिमण्डलमन्तरम् । पञ्चभिर्योजनैः पञ्चत्रिंशतांशैश्च हीयते ।। ५५ ।। एवं पूर्वोदितमेव, सर्वाभ्यन्तरमण्डले । मिथोऽन्तरं द्वयोर्भान्वोः पुनस्तदवशिष्यते ॥ ५६ ॥ इति मण्डले मण्डले सूर्ययोः परस्परमबाधा ॥ इति मण्डलाबाधा प्ररूपणा ॥ द्वे द्वे च योजने सूर्यमण्डलानां मिथोऽन्तरम् । कथमेतद् इति श्रोतुं श्रद्धा चेत् श्रूयतां तदा ।। ५७ ।। सूर्यमण्डलविष्कम्भे, स्फुरच्चतुरशीतिना । शतेन गुणिते त्यक्ते, मण्डल क्षेत्रविस्तृतेः ॥ ५८ ॥ शेषा स्थिता योजनानां, सषट्षष्टिः शतत्रयी सत्र्यशीतिशतेनास्यां, भक्तायामेतदन्तरम् ॥ ५९ ।।
,