________________
281
यथैकतो मेरुगिरेस्त्रिषष्टिर्निषधोपरि । हरिवर्षजीवाकोट्यां, विज्ञेयं मण्डलद्वयम् ॥ २२ ॥ मेरोरपरतोऽप्यूर्ध्वं, त्रिषष्टिनीलवगिरेः । रम्यकजीवाकोट्यां च, मण्डले द्वे विवस्वतः ॥ २३ ॥ इयं भरतैरवतापेक्षया मण्डलस्थितिः । अग्निवायुस्थयोर्मे रोज़ैया निषधनीलयोः ॥ २४ ॥ प्राग्विदेहापेक्षया तु, मेरोरैशानकोणके । स्युस्त्रिषष्टिर्नीलवति, मण्डलानीति तद्धिदः ॥ २५ ॥ एवं प्रत्यग्विदेहानामपेक्षया सुमेरुतः । नैऋतस्थायि निषधे, विज्ञेया मण्डलावली ॥ २६ ॥ किं च-विदिग्गताभ्यां श्रेणीभ्यां, मण्डलाल्यौ स्थिते इमे । औदयिकक्षेत्रपरावर्तादयनयोर्द्धयोः ॥ २७ ॥ कान्तिहान्याऽयने याम्येऽगिर्वागागतौ रखी । दृश्येते कान्तिवृद्ध्या च, दूरतोऽप्युत्तरायणे ॥ २८ ॥ एवं हरिवर्षरम्यकजीवाकोट्योरपि भावना ॥
तथाहुः - जम्बूदीपप्रज्ञप्तिसूत्रे-जम्बूद्दीवे णं भंते ! दीवे सूरिया उदीणपाइणमुग्गच्छ पाइणदाहिणमागच्छन्ति (१) पूर्वविदेहापेक्षयेदम् । पाइणदाहिणमग्गच्छ दाहिणपडीणमागच्छन्ति (२) भरतापेक्षयेदम् । दाहिणपडीणमुग्गच्छ पडीणउदीणमागच्छन्ति (३) पश्चिमविदेहापेक्षयेदम् ।
पडीणउदीणमुग्गच्छ उदीणपाइणमागच्छन्ति (४) ऐरावतापेक्षयेदम् ॥ या मण्डलानां विषयव्यवस्थेयमुदीरिता । भारतादिमध्यभागापेक्षया सा विभाव्यताम् ॥ २९ ॥ अन्यत्र तु स्वस्वभानूदयक्षेत्रे यथोदिता । मण्डलानां व्यवस्था साऽव्यक्ता वक्तुं न शक्यते ॥ ३० ॥ एवं चयेषामदृश्यो दृश्यत्वं दृश्यो वा यात्यदृश्यताम् । यत्र तत्रैवोदयास्तौ, तेषां भानुमतो नृणाम् ॥ ३१ ॥ नन्वेवं सति सूर्यस्योदयास्तमयने खलु । स्यातामनियते बाढं, स्तो यदुक्तं पुरातनैः ॥ ३२ ॥ जह जह समए समए, पुरओ संचरइ भक्खरो गयणे । तह तह इओ वि नियमा, जायइ रयणीइ भावत्यो । एवं च सइ नराणां, उदयत्थमणाइं होतऽनिययाइं । सइ देसकालभेए, कस्सइ किंचिव दिस्सए नियमा ॥ सइ चेव अनिद्दिठो, रुद्धमुहुत्तो कमेण सबेसि । तेसिं चीदाणिपि य, विसयपमाणो रखी जेसिं ॥ भगवतीसूत्रशतक ५ प्रथमोद्देशकवृत्तौ । इति सूर्यमण्डलसंख्या प्रसंगात्तद्विषयव्यवस्था च ॥ वाच्याऽथ मण्डलाबाधा, त्रिविधा सा निरूपिता । ओधतो मण्डलक्षेत्राबाधाऽधिकृत्य मन्दरम् ॥ ३३ ॥ मेरुमेवाधिकृत्यान्या, चाबाधा प्रतिमण्डलम् । मण्डले मण्डले बाधा, तृतीया त्वर्कयोमिथः ॥ ३४ ॥ सहस्राणि चतुश्चत्वारिंशदष्टौ शतानि च । विंशानि मेरुतो दूरे, मण्डलक्षेत्रमोघतः ॥ ३५ ॥ तथाहि जम्बूद्धीपान्त:, सर्वाभ्यन्तरमण्डलम् । साशीतियोजनशतं, स्थितमवगाह्य सर्वतः ॥ ३६ ॥ ततश्च दीपविष्कम्भाल्लक्षरूपाद्वियोज्यते । साशीतियोजनशतं, प्रत्येकं पार्श्वयोर्द्धयोः ॥ ३७॥ सहस्रा नवनवतिश्चत्वारिंशा च षट्शती । ईदृग्रूपः स्थितो राशिरस्मादप्यपनीयते ॥ ३८ ॥