________________
280
तथाहुः पञ्चमाङ्गे ॥ “से केणठेणं भंते एवं वुच्चइ सूरे आइच्चे । सूरे आइच्चे गोयम
सूराइयाणं समयाइ वा आवलियाइ वा जाव वा उस्सप्पिणीति वा अवसप्पिणीति वा ॥" ततोऽत्र बहुवाच्येऽपि, प्रथमं सैव तन्यते । पञ्चानुयोगद्वाराणि, तस्यामाहुर्जिनेश्वराः ॥३॥ मण्डलानामिह क्षेत्रप्ररूपणा ततः परम् । संख्याप्ररूपणा तेषां, तदबाधाप्ररूपणा ॥ ४॥ ततः परं मण्डलानामन्तरस्य प्ररूपणा । चारप्ररूपणा चैषां, भाव्यन्तेऽनुक्रमादिमाः ॥५॥ इह प्रकरणे यत्र, क्वाप्यंशा अविशेषतः । कथ्यन्ते तत्रैकषष्टिछिन्नांस्तान् परिचिन्तयेत् ॥६॥ अभ्यन्तरादिभिर्बाह्यपर्यन्तैः सूर्यमण्डलैः । आकाशं स्पृश्यते यत्तन्मण्डलक्षेत्रमुच्यते ॥७॥ योजनानां पञ्चशती, दशोत्तरा तथा लवाः । अष्टचत्वारिंशदस्य, विष्कम्भश्चक्रवालत: ॥ ८॥ तथाहि । अष्टचत्वारिंशदंशा, विष्कम्भाः प्रतिमण्डलम् । मण्डलानां च चतुरशीत्याढ्यं शतमीरितम् ॥९॥ अष्टचत्वारिंशता सा, गुण्यते मण्डलावली । द्वात्रिंशानि शतान्यष्टाशीतिर्भागा भवन्ति ते ॥ १० ॥ विभज्यंते चैकषष्ट्या, योजनानयनाय ते । पूर्वोदितानामंशानामेकषष्टयात्मकत्वतः ॥ ११ ॥ चतुश्चत्वारिंशमेवं, योजनानां शतं भवेत् । अष्टचत्वारिंशदंशाः, शेषमत्रावशिष्यते ॥ १२ ॥ मण्डलानामन्तराणि स्युस्त्र्यशीत्यधिकं शतम् । स्युः सर्वत्राप्यन्तराणि, रूपोनान्यङ्गलीष्विव ॥ १३ ॥ योजनदयमानं स्यादेकैकं मण्डलान्तरम् । शतं त्र्यशीत्याभ्यधिकं, दिकेन गुण्यते ततः ॥ १४ ॥ शतानि त्रीणि षट्षष्ट्याभ्यधिकानि भवन्त्यत: । प्राच्यमत्र चतुश्चत्वारिंशं प्रक्षिप्यते शतम् ॥ १५ ॥ योजनानां पञ्चशती, दशोत्तरा तथा लवा: । अष्टचत्वारिंशदेषा, मण्डलक्षेत्रविस्तृति: ॥ १६ ॥ इति सूर्यमण्डलक्षेत्रम् ॥ १॥ समाक्रम्य योजनानामशीतिसंयुतं शतम् । पञ्चषष्टिमण्डलानि, जम्बूद्धीपे विवस्वतः ॥ १७ ॥ विशेषश्चायमत्र । पञ्चषष्ट्या मण्डलैः स्यादेकोनाशीतियुक्शतम् । योजनानामेकषष्टिभागैर्नवभिरञ्चितम् ॥ १८ ॥ तत: षट्षष्टितमस्य, मण्डलस्य लवैः सह । स्यात् द्विपञ्चाशताशीतियुक् योजनशतं ह्यदः ॥ १९ ॥ तथा-साष्टचत्वारिंशद्भागां, योजनशतत्रयी त्रिंशान् । व्याप्याब्धौ मण्डलशतमर्कस्यैकोनविंशं स्यात् ॥ २० ॥ एवं च मण्डलशतं, खेश्चतुरशीतिमत् । पूर्वोक्तं मण्डलक्षेत्रं, समाक्रम्य व्यवस्थितम् ॥२१॥ ____ अत्र जम्बद्धीपवर्तिनां पञ्चषष्टेमण्डलानां विषयविभागव्यवस्थायां संग्रहणीवृत्त्यायुक्तोऽयं वृद्धसम्प्रदायः ।