________________
278
शीता च हरिसलिला, गङ्गासिन्धू च रोहिता । स्वर्णकूला नरकान्ता, नद्योऽभूर्दक्षिणामुखाः ॥ १८२ ॥ उदक याता रक्तवती, रक्ता च रूप्यकूलिका । नारीकान्ता रोहितांशा, शीतोदा हरिकान्तिका ॥ १८३ ॥ सिन्धुं विना या: सरितो, दक्षिणां दिशमागताः । ता: पूर्वाम्बुधिं गामिन्यः, सिन्धुस्तु पश्चिमाब्धिगा ॥ १८४ ॥ उदक याताश्च या नद्यो, विना रक्तामहानदीम् । ता: पश्चिमाब्धिगामिन्यो, रक्ता पूर्वाब्धिगामिनी ॥ १८५ ॥ स्वकीयहुदविस्तारेऽशीतिभक्ते यदाप्यते । दक्षिणाभिमुखीनां सा, नदीनां मुखविस्तृतिः ॥ १८६ ॥ उत्तराभिमुखीनां तु, स्वकीयहृदविस्तृतौ । चत्वारिंशद्धिभक्तायां, यल्लब्धं तन्मिता मताः ॥ १८७ ॥ व्यवस्थेयं दक्षिणस्यां, सरितां मन्दराचलात् । उदक् याम्योत्तरदिशाभिमुखीनां विपर्ययात् ॥ १८८ ।। सर्वासां मुखविस्तारे, दशने प्रान्तविस्तृतिः । व्यासपञ्चाशत्तमांशः, सर्वत्रोद्वेध आहित: ॥ १८९ ॥ मुखपर्यन्तविस्तारविश्लेषे गतयोजनैः । गुणिते पञ्चचत्वारिंशत्सहस्रविभाजिते ॥ १९० ।। लब्धं यत्तदुभयतो, व्यासवृद्धिरभीप्सिते । योजनादौ गते सर्वास्वपि तस्यार्धमेकतः ॥ १९१ ॥ चतुःषष्टि विजयेषु, सप्तवां चतुर्दश । द्वादशान्तर्नदीनां च, कुण्डानां नवतिस्त्वियम् ॥ १९२ ॥ द्विजदिनप्रमाणानि, कुण्डानि जितिकादिवत् । तुल्यान्यन्तर्निम्नगानां, मिथो विजयगानि च ॥ १९३ ॥ प्रागुक्ता: पर्वता: कूटाः, कुण्डानि च महापगाः । सर्वे वृत्ता वेदिकया, वनाढ्योभयपार्श्वया ॥ १९४ ॥ वेदिकावनखण्डानां, सर्वत्राप्यविशेषितम् । स्वरूपं जगतीस्थायिवेदिकावनखण्डवत् ॥ १९५ ॥ ऐरवते च भरते, विजयेष्वखिलेषु च । प्रत्येकं त्रित्रिसद्भावात्तीर्थानां व्युत्तरं शतम् ॥ १९६ ॥ श्रेण्यः चतस्रः प्रत्येकं, वैताढयेषु गुहादयम् । श्रेण्यः शतं स्युः षट्त्रिंशमष्टषष्टिश्च कन्दराः ॥ १९७ ॥ दशोत्तरं पुरशतं, प्रतिवैताढ्यपर्वतम् । सप्तत्रिंशच्छतान्येवं, चत्वारिंशानि तान्यपि ॥ १९८ ॥ द्वात्रिंशच्च विदेहस्था, भरतैरवते इति । विजयाः स्युश्चतुस्त्रिंशच्चक्रीजेतव्यभूमयः ॥ १९९ ॥ चतुस्त्रिंशद्राजधान्यो, दौ कुरुस्थौ महाद्रुमौ । अस्यान्तिकेऽन्तरद्धीपाः, षट्पञ्चाशच्च वार्धिगाः ॥ २०० ॥ एवं च संग्रहद्वारा, यदुक्तमप्यनूदितम् । सुखावबोधोद्यतानां, तदस्माकं न दोषकृत् ॥ २०१॥
जिनैश्चक्रिभिः सिरिभिः शाङ्गिभिश्च चतुर्भिश्चतुर्भिर्जघन्येन युक्तः ।
सनाथस्तथोत्कर्षतस्तीर्थनाथैः चतुनिशताऽयं भवेद्द्वीपराजः ॥ २०२ ॥ चक्रवर्तिबलदेवकेशवै स्त्रिंशता परिचितः प्रकर्षतः । भारतैरखतयोर्द्धयं तथा ते परे खलु महाविदेहगाः ॥ २०३॥
जम्बूद्वीपे स्युनिधीनां शतानि षड्युक्तानि त्रीणि सत्तामपेक्ष्य । षट्त्रिंशत्ते चक्रिभोग्या जघन्यादुत्कर्षण द्धे शते सप्ततिश्च ॥ २०४ ॥
चक्री गङ्गाद्यापगानां मुख्रस्थानेतानात्ताशेषषट्खण्डराज्यः ।
१ भरतादिषु गङ्गादिवत् महाविदेहेषु शीताशीतोदाभावात् सप्तवा इति, चतुष्षष्टिः विजयेषु तु गङ्गाद्याः ।