________________
277
चतुःषष्टिविजयगा, महानद्यश्चतुर्दश । अन्तर्नयो द्वादशातिरिच्यन्ते नवतिस्त्वियम् ॥ १७९ ॥ तथाहुः श्रीरत्नशेखरसूरयः स्वक्षेत्रसमासे । अडसयरि महाणइओ, बारस अंतरणइओ सेसाओ । परिअरणइओ चउदश, लख्खा छप्पण्णसहस्साय ॥
[गा. ६४] श्रीमलयगिरयस्तु प्रवेशे च सर्वसंख्ययाऽऽत्मना सह चतुर्दशभिनंदीसहनैः समन्विता भवतीति । क्षेत्रसमासवृत्तौ कच्छविजयगतसिन्धुनदी वर्णयन्तो महानदीनां न पृथक् गणनेति सूचयाञ्चक्रुः ।
तथापि द्वादश अन्तरनद्योऽतिरिच्यन्त एवेत्यत्र तत्वं बहुश्रुतगम्यमिति ज्ञेयम् ॥ तथापि पूर्वाचार्यानुरोधात् संख्या तथोदिता । नात्र पर्यनुयोगार्हा, वयं प्राच्यपथानुगाः ॥ १८० ॥
___ केचित्तु “गाहावई महानईपवूढासमाणी सुकच्छमहाकच्छविजए दुहा विभयमाणी अठ्ठाविसाए सलिलासहस्सेहिं समग्गा दाहिणेणं सीयं महानईं समप्पेइ” इत्यादि जम्बूद्धीपप्रज्ञप्तिवचनातथा नद्यो विजयच्छेदिन्यो रोहितावत्कुण्डा : स्वनामसमदेवीवासा अष्टाविंशतिनदीसहस्रानुगाः प्रत्येकं सर्वत्रसमाः पञ्चविंशशतविस्तृता अर्धतृतीययोजनावगाहा गाहावती पङ्गवती इत्याधुमास्वातिवाचकवचनाच्च द्वादशानामतर्नदीनामपि प्रत्येकमष्टाविंशतिसहस्ररूपं परिवारं मन्यमानाः षट्त्रिंशत्सहस्राधिकनदीलक्षत्रयेणान्तर्नदीपरिवारेण सह द्विनवतिसहस्राधिकानि सप्तदश नदीलक्षाणि मन्यन्ते ॥ उक्तं च ।
सुत्ते चउद्दसलक्खा, छप्पन्नसहस्स जम्बूदीवंमि । हुंति उ सत्तरस लक्खा, बाणवइ सहस्स मेलविया ॥
अन्ये तु यद्यन्तर्नदीष्वनेकानि परिवारनदीसहस्राणि प्रवेशेयुस्तदा कथं तासां क्रमेण परत: परतो गच्छन्तीनां विस्तारविशेषो गङ्गादिनदीनामिव न संपयेत ? यस्तु परिवारः सिद्धान्तेऽभिदधे स तु यथाष्टाशीतिर्ग्रहाचंद्रस्यैव परिवारतया प्रसिद्धा अपि सूर्यस्यापि स एव परिवारः । न पुनः पृथक् प्रतीयते ॥ उक्तं च समवायाङ्गवृत्तौ । अष्टाशीतिर्महाग्रहाः, एते यद्यपि चन्द्रस्यैव परिवारेऽन्यत्र श्रूयते तथापि सूर्यस्यापि इन्द्रत्वादेत एव परिवारतयाऽवसेया इति । तथा गङ्गादिसम्बन्धीन्येवाष्टाविंशतिनदीसहस्राणि अन्तर्नदीनामपि परिवार इति ॥ एवं चान्तर्नदीनां पृथक्परिवारमनभ्युपगच्छन्तो यथावस्थितामेवनदीसंख्यां मन्यन्ते इत्यादिकं जम्बूद्वीपसंग्रहणीवृत्तौ । तथा चाहुः श्रीहरिभद्रसूरयः । [लघुसंग्रहणी गाथा. २५] सीया सीओयाविय, बत्तीससहस्सपंचलक्नेहिं । सब्बे चउद्दसलक्खा, छप्पन्न सहस्स मेलविया ॥ दिक्पटोऽप्येवमाह ।
जम्बूद्दीवि नराहिव, संखा सम्वनइ चउदह य लक्खा । छप्पन्नं च सहस्सा, नवइ नइओ कहंति जिणा॥ कुण्डोद्वेधस्तथा दीपोच्छ्रायस्तद्भवनस्य च । परिमाणं समग्रासु, नदीषु सदृशं भवेत् ॥ १८१ ॥