________________
276
महाहदाश्च षट् पद्मपुण्डरीकौ समाविह । महापद्ममहापुण्डरीकावपि मिथः समौ ॥ १५२ ॥ तिगिञ्छिकेसरिणौ च, तुल्यौ द्विनौ यथोत्तरम् । दश देवोत्तरकुरुहदा: पद्महदोपमाः ॥ १५३ ॥ एवं हृदाः षोडशैते, षण्महाहददेवताः । श्रीहीधृतिकीर्तिबुद्धिलक्ष्म्य: परस्परं समाः ॥ १५४ ॥ चतुर्दश महानद्यो, गङ्गाद्याः सपरिच्छदा: । जम्बूद्वीपशुभक्षेत्रे, कुल्यातुल्या विभान्ति याः ॥ १५५ ॥ गङ्गासिन्धू रोहितांशा, रोहिता च तथापरा । हरिकान्ता हरिनदी, शीतोदा चेति नामतः ॥ १५६ ॥ मेरोदक्षिणत: सप्त, ख्याता एता महापगाः । मेरोरुत्तरतोऽप्येवं, शोभन्ते सप्त सिन्धवः ॥ १५७ ॥ शीता च नारीकान्ता च, नरकान्ता तथापरा । रूप्यकूला स्वर्णकूला, रक्ता रक्तवतीति च ॥ १५८ ॥ हिमवत्पर्वतस्थायिपद्महदादिनिर्गताः । गङ्गासिन्धुरोहितांशा, नाम्न्यस्तिस्रो महापगा: ॥ १५९ ॥ महाहिमवदद्रिस्थमहापद्महदात् पुनः । रोहिता हरिकान्तेति, निर्गते द्वे महापगे ॥ १६० ॥ निषधाचलमौलिस्थतिगिञ्छिहदमध्यतः । समुद्भूते हरिनदी, शीतोदेति महापगे ॥ १६१ ॥ नीलवत्पर्वतगतकेसरिहदतः किल । शीता च नारीकान्ता च, निर्गते द्वे महापगे ॥ १६२ ॥ तथा महापुण्डरीकहदात् रुक्मिनगाश्रितात् । नरकान्ता रूप्यकलेत्युद्गते निम्नगे उभे ॥ १६३ ॥ शिखरिदमाघरस्थायिपुण्डरीकहदोत्थिताः । रक्तारक्तवतीस्वर्णकूलाभिधा महापगाः ॥ १६४ ॥ एवं च-तिस्रो नद्यो हिमवतस्तिस्रः शिखरिणो गिरेः । शेषवर्षधरेभ्यश्च, महानद्योर्द्धयं द्वयम् ॥ १६५ ॥ वर्षाण्याश्रित्य सरितः प्रतिवर्षं द्वयं द्वयम् । द्धे विदेहेष्वपाच्यां षट्, षडुदीच्यां ततो यथा ॥ १६६ ॥ गङ्गा सिन्धुश्च भरते, रोहितारोहितांशिके । हैमवते हरिवर्षे, हरिकान्ताहरी उभे ॥ १६७ ॥ शीताशीतोदे विदेहक्षेत्रे तथा च रम्यके । नारीकान्तानरकान्ते, हैरण्यवतगे उभे ॥ १६८ ॥ रूप्यकूलास्वर्णकूले, तथा चैरवतस्थिते । नद्यौ रक्तारक्तवत्यावेवमेताश्चतुर्दश ॥ १६९ ॥ गङ्गासिन्धुरक्तवतीरक्तानां सरितामिह । चतुर्दशसहस्राणि, परिवारः प्रकीर्तितः ॥ १७० ॥ रूप्यकूलास्वर्णकूलारोहितारोहितांशिका: । अष्टाविंशत्या सहनैः, स्रोतस्विनीभिराश्रिताः ॥ १७१ ॥ नारीकान्ता नरकान्ता, हरिकान्ता हरिस्तथा । षट्पञ्चाशच्छैवलिनीसहनैः परिवारिताः ॥ १७२ ॥ शीताशीतोदयोद्योः, प्रत्येकं च परिच्छदः । पञ्चलक्षाः सहस्राणि, द्वात्रिंशत् परिकीर्तितः ॥ १७३ ॥ श्लोकक्रमेण सरितामिह श्लोकचतुष्टये । द्विगुणं जिव्हिकामानविस्तारोद्धेद्धतादिकम् ॥ १७४ ॥ एकश्लोकोदितानां तु, सर्वं तुल्यं परस्परम् । गङ्गासिन्धुरक्तवतीरक्तानां तुल्यता यथा ॥ १७५ ॥ दश लक्षाश्चतुःषष्टि, सहस्राणि विदेहगा: । नद्योऽपाच्यां लक्षमेकं, षण्णवतिसहस्रयुक् ॥ १७६ ॥ उदीच्यामपि तावन्त्य, एवं च सर्वसंख्यया । षट्पञ्चाशत्सहस्राढ्या, नदीलक्षाश्चतुर्दश ॥ १७७ ॥ जम्बूद्धीपोऽभितो रुद्धः, स्वविरुद्धेन वार्धिना । स्वमोक्षायेव दत्तेऽस्मै, कनी: शैवलिनीरिमाः ॥ १७८ ॥