________________
275
रम्यकाख्यहरिवर्षे, उभे तुलाधृते इव । पूर्वापरविदेहानामप्येवं तुल्यता मता ।। १२५ ।। देवोत्तरकुरूणामप्येवं तुल्यत्वमाहितम् । विना भरतैवतविदेहानपराः पुनः ।। १२६ ।। अकर्मभूमयः षट् स्युः, कृष्यादिकर्मवर्जिताः । तिस्रो भरतैरवतविदेहाः कर्मभूमयः ।। १२७ ।। तथा चात्र वर्षधरपर्वताः षट् प्रकीर्तिताः । विदेहेभ्यो दक्षिणस्यामुदीच्यां च त्रयं त्रयम् ॥ १२८ ॥ हिमवच्छिखरी चैकादशकूटौ मिथः समौ । रुक्मिमहाहिमवतावष्टकूटौ तथैव च ॥ १२९ ॥ नीलवन्निषधौ तुल्यौ, नवकूटौ परस्परम् ॥ मेरुर्निरूपमः सोऽपि, नवकूटोपशोभितः ॥ १३० ॥ भरतैरवतक्षेत्रद्वात्रिंशद्विजयोद्भवाः । वैताढ्याः स्युश्चतुस्त्रिंशत्, प्रत्येकमेकभावतः ॥ १३१ ॥ सर्वेऽप्येते रूप्यवर्णा, नवकूटोपशोभिताः । दशोत्तरशतद्रङ्गाभियोग्यालिद्धयान्विताः ॥ १३२ ॥ चत्वारो वृत्तवैताढ्याः, समरूपाः परस्परम् । हरिवर्ष हैमवत हैरण्यवतरम्यके ॥ १३३ ॥ देवोत्तरकुरुस्थेषु, हृदेषु दशसु ध्रुवम् । प्राक् प्रत्यक् च दश, दश काञ्चनाचलभावतः ॥ १३४ ॥ द्वे शते काञ्चननगाः, परस्परानुकारिणः । स्थिता भोक्तुं चतसृभिः, पङ्क्तिभिर्बान्धवा इव ॥ १३५ ॥ गजदन्तौ सौमनसगन्धमादनसंज्ञितौ । रूप्यपीतरत्नमयौ, सप्तकूटोपशोभितौ ।। १३६ ।। विद्युत्प्रभमाल्यवन्तौ, वैडूर्यतपनीयजौ । नवकूटाञ्चितौ तुल्या, इत्याकृत्या नगा अमी ॥ १३७ ॥ चतुःकूटाः षोडशापि, वक्षस्काराद्रयः समाः । विचित्रचित्रयमकाः, समरूपाः परस्परम् ॥ १३८ ॥ द्विशत्येकोनसप्तत्याधिकेत्यत्र धराधरः । हिमवच्छिखरीस्पृष्टाः, दंष्ट्राश्चाष्टौ मिथः समाः ॥ १३९ ॥ वैताढ्येषु नव नव, कूटा: प्रत्येकमित्यतः । सर्ववैताढ्यकूटानि षडुत्तरं शतत्रयम् ॥ १४० ॥ प्रतिवैताढ्यमेतेषु, कूटत्रयं तु मध्यमम् । सौवर्णं शेषकूटाश्च, रानिका इति तदिदः ॥ १४१ ॥ सक्रोशषड्योजनोच्चाः, चैत्यप्रासादशोभिताः । सर्वेऽपि भरतस्थायिवैताढ्यकूटसोदराः ॥ १४२ ॥ कूटाः सप्त सौमनसगन्धमादनशैलयोः । रुक्मिमहाहिमवतोरष्टावष्टौ पृथक् पृथक् ॥ १४३ ॥ विद्युत्प्रभमाल्यवतोर्नीलवन्निषधागयोः । मेरोश्च नन्दनवने, कूटा नव नवोदिताः ॥ १४४ ॥ हिमवच्छिखरिकूटाः, एकादश पृथक् पृथक् । षोडशानां चतुःषष्टिर्वक्षस्कारमहीभृताम् ॥ १४५ ॥ हरिस्सहहरिकूटबलकूटोज्झिता इमे । शतं सर्वेऽष्टपञ्चाशं, हिमवत्कूटसन्निभाः ॥ १४६ ॥ योजनानां पञ्च शतान्युच्चा रात्ना मिथः समाः । साहस्राः स्वर्णजास्तुल्या, हरिस्सहादयस्त्रयः ॥ १४७ ॥ एवं च गिरिकूटानां, त्रिविधानां प्रमाणतः । सर्वसंख्या सप्तषष्ट्या, समन्विता चतुःशती ॥ १४८ ॥ द्वात्रिंशतिविजयेषु, भरतैरवताख्ययोः । चतुस्त्रिंशद्धि वृषभकूटास्तुल्याः परस्परम् ।। १४९ ।। भद्रसालभिधवने, जम्बूशाल्मलीवृक्षयोः । अष्टाष्टेत्यष्टपञ्चाशत्, भूमिकूटा मिथः समाः ॥ १५० ॥ एतेषां वक्तुमुचिते पर्वतत्वेऽपि वस्तुतः । कूटत्वव्यवहारोऽयं, पूर्वाचार्यानुरोधतः ॥ १५१ ॥