________________
274
इति शिखरी पर्वतः ॥
१०५ ॥
उत्तरस्यां शिखरिण, उदीच्यलवणार्णवात् । दक्षिणस्यामैरवतक्षेत्रं भाति मनोहरम् ।। ९९ ।। ऐरावत: सुरो ह्यस्य, स्वामी पल्योपमस्थितिः । वसत्यत्र ततः ख्यातमिदमैरवताख्यया ॥ १०० ॥ भरतस्य प्रतिबिम्बमिवेदं संमुखेऽम्बुधौ । तत्प्रमाणं तेन तुल्यं सदा तदनुवर्त्तते ॥ १०१ ॥ भानुना भासिते तस्मिंस्तेनेदमपि भासितम् । इन्दुना शोभिते तत्रादोऽपि स्यात्तेन शोभितम् ॥ १०२ ॥ तद्यदा षड्भिररकैर्भिन्नां भिन्नां दशां श्रयेत् । तथेदमपि सन्मित्रमिव मित्रानुवृत्तिकृत् ॥ १०३ ॥ जिने तत्र जिनोऽत्रापि चक्रयत तत्र चक्रिणि । वासुदेवादिषु सत्सु तत्रात्रापि भवन्ति ते ॥ १०४ ॥ इदं दशाश्चर्ययुतं, स्यात्तत्राश्चर्यशालिनि । हसतीव निजं मित्रं भरतं तुल्यचेष्टया ॥ मध्ये स्थितेन द्वेधेदं, वैताढ्यगिरिणा कृतम् । दाक्षिणात्यैरावतार्द्धमुदीच्यैरावतार्द्धकम् ॥ १०६ ॥ यदुदीच्यार्णवासन्नमुत्तरार्द्धं तदुच्यते । शिखरिक्ष्माधरासन्नं, दक्षिणार्द्धमुदीरितम् ।। १०७ ।। क्षेत्राशापेक्षया ह्येषा दक्षिणोदग्व्यवस्थितिः । सूर्याशापेक्षया त्वस्य, याम्यादर्द्धं वार्धिसन्निधौ ॥ १०८ ॥ उदीच्यार्द्धं नगासन्नं, व्यवहारस्त्वयं पुनः । क्षेत्राशापेक्षया सर्वो न तापदिगपेक्षया ॥ १०९ ॥ उदीच्यादर्द्धमस्य याम्यभरताद्र्धेन सन्निभम् । तद्वज्जीवेषुचापानि, बाहाऽत्रापि न सम्भवेत् ॥ ११० ॥ इतः प्रभृति याम्यादर्द्धादिषु सर्वं विवर्द्धते । आविदेहार्द्धमिष्वासजीवाबाहाशरादिकम् ॥ १११ ॥ वैताढ्यस्याप्यत्र तत, उत्तरस्यां किलाल्पकः । आयामो दक्षिणस्यां च वर्द्धमानः क्रमान्महान् ॥। ११२ ।। याम्यविद्याधरश्रेण्यां, विद्याधरपुराण्यतः । षष्टिर्भवन्त्युदीच्यायां श्रेण्यां पञ्चाशदेव च ॥ ११३ ॥ शेषं सर्वमाभियोग्यश्रेणिवेदीवनादिकम् । ज्ञेयं भरतवैताढ्योपममुक्तानुसारतः ॥ ११४ ॥ कूटानि नव चात्रापि, तन्नामानि तथा क्रमात् । किंतु नाम्नि विशेषोस्ति, द्वितीयस्याष्टमस्य च ।। ११५ ।। दक्षिणैरवतार्द्धाख्यं, द्वैतीयीकं भवेदिह । उत्तरैरखतार्द्धाख्यं भवेच्च कूटमष्टमम् ॥ ११६ ॥ रक्तारक्तावतीस्रोतस्विनीभ्यां तस्थुषान्तरे । वैताढ्येन च षट्खण्डमिदमैरावतं कृतम् ॥ ११७ ॥ तत्र च-उत्तरार्द्धमध्यखण्डे, उदीच्यलवणोदधेः । दक्षिणस्यामुदीच्यां च वैताढ्याभिधभूधरात् ।। ११८ ।। चतुर्दशाधिकशतं योजनानां कलास्तथा । एकादशातिक्रम्याब्धिवैताढ्याभ्यामिहान्तरे ॥ ११९ ॥ नगरी स्यादयोध्याख्या, नवयोजनविस्तृता । द्वादशयोजनायामालङ्कृतोत्तमपुरुषैः ॥ १२० ॥ शेषाः पञ्चापि खण्डाः स्युरनार्या धर्मवर्जिताः । अत्रापि चार्यदेशानामध्यर्द्धा पञ्चविंशतिः ॥ १२१ ॥ एतेष्वेव हि देशेषु, जिनचक्र्यर्द्धचक्रीणां । स्यादुत्तमनृणां जन्म, प्रायो धर्मव्यवस्थितिः ॥ १२२ ॥ एवं च जम्बूद्वीपेऽस्मिन्, सप्तक्षेत्री विराजते । मध्ये महाविदेहाख्यमपागुदक् त्र्यं त्रयम् ॥ १२३ ॥ भरतैरावते तत्र, तुल्यरूपे निरूपिते । समस्वरूपे हैरण्यवत हैमवते अपि ।। १२४ ।।
"