SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ 273 रक्तवत्यावर्त्तनाख्यं, प्रज्ञप्तं कूटमष्टमम् । इलादेव्या दिक्कुमार्या, नाम्ना च नवमं मतम् ॥ ७४ ॥ दशमं चैरावताख्यमैरावतसुराश्रितम् । स्यात्तिगिञ्छिहदेशायास्तिगिञ्छिकूटमन्तिमम् ॥७५ ॥ इदं जम्बूदीपप्रज्ञप्तिसूत्राभिप्रायेण ॥ क्षेत्रसमासे त्वत्र पञ्चमं श्रीदेवीकूटं नवमं गन्धापातीकूटमिति दृश्यते ॥ आये चैत्यं शेषकूटदशके च सुधाभुजाम् । तत्तत्कूटसमाख्यानां, स्युः प्रासादावतंसका: ॥७६ ॥ पुण्डरीकह दश्चात्र, पद्महदसहोदरः । अस्मिश्च मूलकमलमेक योजनसम्मितम् ॥७७ ॥ तदर्धाद्धप्रमाणानि, शेषाब्जवलयानि षट् । लक्ष्मीदेवी वसत्यत्र, स्थित्या श्रीदेवतेव सा ॥ ७८ ॥ हिमवगिरिवत् सर्वं, मानमत्रापि चिन्त्यताम् । ज्याबाहाधनुरादीनां, केवलं दिग्विपर्ययः ॥७९॥ नद्यस्तिसो हुदादस्मान्निर्गतास्त्रिभिरध्वभिः । नदी सुवर्णकूलाख्या, रक्ता रक्तवतीति च ॥८॥ दक्षिणेनाध्वना तत्र, निर्गत्य दक्षिणामुखी । सुवर्णकूला पतति, कुण्डे स्वसमनामनि ॥ ८१ ॥ ततो निर्गत्य हैरण्यवतोत्तरार्धभेदिनी । योजनार्धन दूरस्था, विकटापातिभूधरात् ॥८२॥ प्राक् परावर्त्य हैरण्यवतपूर्वार्धमादितः । सूत्रधारस्येव रज्जुः, द्विधा विदधती क्रमात् ॥ ८३ ॥ अष्टाविंशत्या सहनदीभिः परिपूरिता । गृहिणीव स्वामिगेहे, विशति प्राच्यवारिधौ ॥ ८४ ॥ अस्मादेव हृदात् प्राच्यतोरणेन विनिर्गता । रक्तानदी पूर्वदिशि, प्रवृत्ता पर्वतोपरि ॥८५ ॥ योजनानां पञ्चशतीमतिक्रम्य ततः परम् । रक्तावर्तनकूटस्याधस्तादुत्तरतो भवेत् ॥८६॥ त्रयोविंशां पञ्चशती, योजनानां कलात्रयम् । सार्द्धं गत्वाऽधिकमुदक, शिखरिदमाधरोपरि ॥ ७ ॥ वज्रजिव्हिकयोत्तीर्य, कुण्डे रक्ताप्रपातके । शतयोजनप्रपाता, भुजङ्गीवाविशत् बिले ॥८॥ उदीच्यतोरणेनास्मादिनिर्गत्योत्तरामुखी । नदीसप्तसहस्राढ्या, वैताढ्यगिरिसीमया ॥ ८९ ॥ दर्याः खण्डप्रपातायाः, प्राच्यां वैताढ्यभूधरम् । भित्वोदीच्यैः सप्तनदीसहस्रैराश्रिताध्वनि ॥ ९० ॥ सहनैः सरितामेवं, चतुर्दशभिराश्रिता । विभिद्य जगती पूर्वाणवेऽसौ विशति द्रुतम् ॥ ९१ ॥ पश्चिमेन तोरणेन, हृदादस्मादिनिर्गता । रक्तावती पश्चिमायां, प्रवृत्ता पर्वतोपरि ॥ ९२ ॥ अतिक्रम्य पञ्चशी, निजावर्तनकूटतः । पर्वतोपर्युत्तरस्यां, व्यूढा तत्र व्यतीत्य च ॥९३ ॥ त्रयोविंशां पञ्चशी, साग्रं सार्धकलात्रयम् । वज्रमय्या जिव्हिकया, योजनैकशतोन्नतात् ॥ ९४ ॥ निपत्य पर्वताद्रक्तावतीप्रपातकुण्डके । रोषावेशात् भामिनीव, दत्तझम्पा महावटे ॥ ९५ ॥ उदीच्येनाध्वना तस्मादुदग्मुखी विनिर्गता । आवैताढ्यान्तिकं सप्तनदीसहस्रसेविता ॥ ९६ ॥ कन्दरायास्तमिस्रायाः, पश्चिमायां धराधरम् । द्रुतं विभिद्य वैताढ्यमुत्तरार्धं समागता ॥ ९७ ॥ उदीच्यै सप्तभिः सिन्धुसहनैः सह गच्छति । पश्चिमाब्धाविति नदीचतुर्दशसहस्रयुक् ॥ ९८ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy