________________
272
ततो निवृत्त्य हैरण्यवतापरार्द्धभेदिनी । अष्टाविंशत्या सहस्रैः, सरिद्भिराश्रिता पथि ।। ५३ ।। तादृक्क्षेत्रविभेदोत्थपातकानुशयादिव । पपात पश्चिमाम्भोधौ, तद्दुष्कृतजिघांसया ॥ ५४ ॥ इति रुक्मिपर्वतः ।
क्षेत्रं च हैरण्यवतमुदीच्यां रुक्मिणो गिरेः । दक्षिणस्यां शिखरिणोर्द्वयोर्लीनमिवान्तरे ॥ ५५ ॥ रूप्यं हिरण्यशब्देन, सुवर्णमपि चोच्यते । ततो हिरण्यवन्तौ द्वौ, तन्मयत्वाद्धराधरौ ॥ ५६ ॥ रुक्मी च शिखरी चापि तद्धिरण्यवतोरिदम् । हैरण्यवतमित्याहुः, क्षेत्रमेतत् महाधियः ॥ ५७ ॥ प्रयच्छति हिरण्यं वा, युग्मिनामासनादिषु । यत् सन्ति तत्र बहव:, शिलापट्टा हिरण्यजाः ॥ ५८ ॥ प्रभूतं तन्नित्ययोगि, वाऽस्यास्तीति हिरण्यवत् । तदेव हैरण्यवतमित्याहुर्मुनिसत्तमाः ॥ ५९ ॥ हैरण्यवतनामा वा, देव: पल्योपमस्थितिः । ऐश्वर्यं कलयत्यत्र, तद्योगात् प्रथितं तथा ॥ ६० ॥ क्षेत्रानुभावो मानं च नृतिरश्चामपि स्थिति: । निखिलं हैमवतवद्विज्ञेयमिह धीधनैः ॥ ६१ ॥ क्षेत्रस्यास्य मध्यभागे, चतुरंशविभाजकः । वैताढ्य विकटापाती, रानिकः पल्यसंस्थितः ॥ ६२ ॥ पद्मोत्पलशतपत्रादीनि सन्त्यत्र संततम् । विकटापातिवर्णानि, विकटापात्ययं ततः ।। ६३ ॥ आस्ते देवोऽरुणाख्योऽत्र, स्वामी पल्योपमस्थितिः । जम्बूद्वीपेऽन्यत्र नगर्युदीच्यामस्य मेरुतः ॥ ६४ ॥ शेषमस्य स्वरूपं तु, गन्धापातिनगेन्द्रवत् । एवं चत्वारोऽपि वृत्तवैताढ्या रात्निकाः समाः ॥ ६५ ॥ एवं च क्षेत्रविचारसूत्रवृत्यभिप्रायेण हैमवते शब्दापाती हैरण्यवते विकटापाती हरिवर्षे गन्धपाती रम्यके माल्यवानिति वृत्तवैताढ्यानां व्यवस्था || जम्बूद्वीपवृत्त्यभिप्रायेण तु हैमवते शब्दापाती हरिवर्षे विकटापाती रम्यके गन्धापाती हैरण्यवते माल्यवानिति व्यवस्थेति ॥ अत्र तत्त्वं सर्वविद्धेद्यम् ॥
इति हैरण्यवतक्षेत्रम् ॥
उदीच्यां हैरण्यवतादपागैरवतादपि । षष्टो वर्षधरः ख्यातः, शिखरी नाम पर्वतः ॥ ६६ ॥ ज्ञेयः शिखरिशब्देन, वृक्षस्तदाकृतीनि च । भूयांसि रत्नकूटानि, सन्त्यत्रेति शिखर्यसौ ॥ ६७ ॥ सन्त्येकादश कूटानि, वक्ष्यमाणानि यानि तु । तेभ्योऽमून्यतिरिक्तानि कूटानीति विभाव्यताम् ॥ ६८ ॥ अन्यथा सर्वशैलानां, यथोक्तकूटयोगतः । शिखरित्वव्यपदेशः, सम्भवन् केन वार्यते ॥ ६९ ॥ स चैकादशभिः कूटैः, परितोऽलङ्कृतो गिरिः । प्रतिमाभिरिव श्राद्धधर्मं शर्मददर्शनः ॥ ७० ॥ आद्यं सिद्धायतनाख्यं, पूर्ववारिधिसन्निधौ । द्वितीयं शिखरिस्वर्गिकूटं शिखरिसंज्ञकम् ॥ ७१ ॥ तृतीयं हैरण्यवतकूटं तत्स्वामिदैवतम् । तूर्यं सुवर्णकूलाख्यं तन्नदीदेवतास्पदम् ॥ ७२ ॥ दिक्कुमार्याः सुरादेव्याः, पञ्चमं च तदाख्यया । षष्टं रक्तावर्त्तनाख्यं, लक्ष्मीकूटं च सप्तमम् ॥ ७३ ॥