________________
271
परमायामरूपाऽस्य, प्रत्यञ्चा हरिवर्षवत् । किन्त्वत्र सा दक्षिणस्यामुत्तरस्यां शरासनम् ॥ २८ ॥ इषुबाहाक्षेत्रफलाद्यपीह हरिवर्षवत् । क्षेत्रानुभावकालादिस्वरूपं तददेव च ॥२९ ।। क्षेत्रस्यास्य मध्यभागे, विभाजकोऽर्धयोर्द्धयोः । माल्यवानिति विख्यातो, वृत्तवैताढ्यपर्वतः ॥ ३०॥ माल्यवत्सदृशाकारैस्तद्धदेवारुणप्रभैः । सदा राजन्नुत्पलाद्यैर्माल्यवानिति कीर्त्यते ॥ ३१ ॥ जम्बूद्वीपप्रज्ञप्तिसूत्रे तु माल्यवत्पर्याय इति नाम दृश्यते ॥ प्रभासाख्यसुरस्तत्र, स्वामी पल्योपमस्थितिः । मेरोरुत्तरतस्तस्य, पुरी नीलवदादिवत् ॥ ३२ ॥ हरिवर्षस्थायिगन्धापातिवैताढ्यशैलवत् । ज्ञेयमस्यापि सकलं, स्वरूपमविशेषितम् ॥ ३३ ॥ उदक् रम्यकवर्षस्यापाग हैरण्यवतस्य च । रुक्मी नाम्ना वर्षधरः, प्रज्ञप्तः परमर्षिभिः ॥ ३४ ॥ स पूर्वपश्चिमायामो, दक्षिणोत्तरविस्तृतः । महाहिमवतो बन्धुरिवात्यन्तसमाकृतिः ॥ ३५ ॥ रुक्म रूप्यं तदस्यास्तीत्यन्वर्थकलिताभिधः । सर्वात्मना रूप्यमयो, रुक्मिनामसुराश्रितः ॥ ३६॥ इदं जम्बूद्धीपप्रज्ञप्तौ । क्षेत्रसमासवृत्तौ तु रुक्मं श्वेतं हेम तन्मयोऽयमुक्तः इति ज्ञेयम् ॥ विशिष्टैरष्टभिः कूटैः, सोऽतितुङ्गैरलङ्कृतः । दिगङ्गनानामष्टानां, क्रीडापर्वतकैरिव ॥ ३७ ॥ आद्यं पूर्वार्णवासन्नं, सिद्धायतनसंज्ञितम् । रुक्मिदेवाधिष्ठितं च, रुक्मिसंज्ञं द्वितीयकम् ॥ ३८ ॥ रम्यकाधीश्वरस्थानं, तृतीयं रम्यकाभिधम् । तुर्यं नरकान्तादेव्या, नरकान्ताभिधं च तत् ॥ ३९॥ तथा महापुण्डरीकहदेहशायाः शुभास्पदम् । बुद्धिकूटं बुद्धिदेव्या, पञ्चमं परिकीर्तितम् ॥ ४० ॥ रूप्यकूलानदीदेव्याः, षष्टं कूटं तदाख्यया । सप्तमं हैरण्यवतं, हैरण्यवतदैवतम् ॥ ४१ ॥ मणिकाञ्चनदेवाढ्यं, मणिकाञ्चनमष्टमम् । आये जिनालयोऽन्येषु, प्रासादा: स्वामिनाकिनाम् ॥ ४२ ॥ मानं स्वरूपं कूटानां, चैत्यनिर्जरसद्मनाम् । हिमवगिरिवत् सर्वं, तथैवास्य गिरेरपि ॥ ४३॥ हृदो महापुण्डरीको, महापद्महदोपमः । विभाति सलिलैः स्वच्छैर्निर्जयन् मानसं सरः ॥ ४४ ॥ अस्मिंश्च मूलकमलं, योजनद्धयसंमितम् । तदर्धाद्धप्रमाणानि, शेषाज्जवलयानि षट् ॥ ४५ ॥ अत्राधिष्ठायिका बुद्धैर्बोधिता बुद्धिदेवता । भवनादिसमृद्ध्या सा, श्रीदेवतानुकारिणी ॥ ४६॥ हृदादस्मादापगे ढे, दक्षिणोदग्मुख्ने क्रमात् । विनिर्गते श्मश्रुलेखे, इवोत्तरौष्टमध्यतः ॥ ४७ ॥ दाक्षिणात्यतोरणेन, निःसृत्य दक्षिणामुखी । नरकान्ता स्वके कुण्डे, गत्वा स्नात्वेव निर्गता ॥ ४८ ॥ रम्यकोदीच्यभागस्य, द्वैधीकारभयादिव । अर्वाक् स्थिता योजनेन, माल्यवद्धरणीधरात् ॥ ४९ ॥ ततो वलित्वा भिन्दाना, पूर्वार्द्ध रम्यकस्य सा । पूर्वाभ्भोधौ याति नदीषट्पञ्चाशत्सहस्रयुक् ॥ ५० ॥
औत्तराहतोरणेन, विनिर्गत्योत्तरामुखी । रूप्यकूला स्वप्रपातकुण्डे निपत्य निर्गता ॥५१॥ दक्षिणार्धं च हैरण्यवतस्य कुर्वती द्विधा । क्रोशद्धयेनासंप्राप्ता, विकटापातिनं गिरिम् ॥ ५२ ॥