________________
270
जम्बूद्वीपेऽन्यत्र चास्य, मेरोरुत्तरतः पुरी । वक्ष्यमाणसुराणामप्येवं पुर्यायुरादिकम् ॥३॥ दक्षिणोत्तरविस्तीर्णः, स पूर्वपश्चिमायतः । सर्वमस्य निषधवत्, ज्ञेयं धनुःशरादिकम् ॥४॥ किन्तु जीवा दक्षिणस्यामुत्तरस्यां शरासनम् । दक्षिणाभिमुखो बाण, एवमग्रेऽपि भाव्यताम् ॥५॥ दीप्रप्रभैरयं कूटैर्नवभिः शोभितोऽभितः । ब्रह्मव्रतश्रुतस्कन्ध, इव गुप्तिनिरूपणैः ॥६॥ तत्र सिद्धायतनाख्यं, समुद्रासन्नमादिमम् । द्वितीयं नीलवत्कूट, नीलवत्पर्वतेशितुः ॥७॥ ततः पूर्वविदेहेशसुपर्वैश्वर्यशालितम् । कूटं पूर्वविदेहाख्यं, तृतीयं परिकीर्तितम् ॥ ८॥ शीताकूटं तुरीयं च, शीतानदीसुरीश्रितम् । नारीकान्तं पञ्चमं तन्नारीकान्तासुरीश्रितम् ॥९॥ केसरिहदवासिन्याः, कीर्तिदेव्या निकेतनम् । षष्ठं स्पष्टं जिनप्रष्टैः, कीर्तिकूटं प्रकीर्तितम् ॥ १० ॥ तथाऽपरविदेहाख्यं, कूटं सप्तममीरितम् । सदाऽपरविदेहेशनिर्जरस्थानमुत्तमम् ॥ ११ ॥ रम्यकक्षेत्रनाथेन, रम्यकाख्यसुधाभुजा । अधिष्ठितं यच्छिष्टेष्टैस्तन्निष्टङ्कितमष्टमम् ॥ १२ ॥ तथा चानवमज्ञानैः, कूटं नवममीरितम् । उपदर्शनसंज्ञं तदुपदर्शनदैवतम् ॥ १३ ॥ एषामाये जिनगृहं, शेषेषु पुनरष्टसु । तत्तत्कूटसमाख्यानां, प्रासादा: कूटनाकिनाम् ॥ १४ ॥ उक्तवक्ष्यमाणकूटप्रासादचैत्यगोचरम् । स्वरूपं हिमवत्कूटप्रासादजिनसद्मवत् ॥ १५ ॥ अस्योपरि महानेकश्वकास्ति केसरिहृदः । निषधोपरिभागस्थतिगिञ्च्छेरिव सोदरः ॥ १६ ॥ अत्यन्तसुन्दराकारकेसरालीपरिष्कृतैः । शोभते शतपत्राद्यैः, ख्यातोऽयं केसरी ततः ॥ १७ ॥ ढे निम्नगे हृदादस्मान्निर्गते कन्यके इव । शीता च नारीकान्ता च, दक्षिणोत्तरगे क्रमात् ॥ १८ ॥ दाक्षिणात्यतोरणेन, निर्गत्य दक्षिणामुखी । शीता पूर्वविदेहान्तर्गत्वैति प्राक्पयोनिधिम् ॥ १९ ॥ विशेषतोऽस्या: स्वरूपं च प्रागुक्तमेव ॥ उत्तराहतोरणेन, विनिर्गत्योत्तरामुखी । नारीकान्ता स्वप्रपातकुण्डे निपत्य निर्गता ॥ २० ॥ दक्षिणार्द्धरम्यकस्य, विदधाना द्विधा खलु । असंप्राप्ता योजनेन, माल्यवन्तं नगं तत: ॥ २१ ॥ रम्यकस्यापरभागं, द्विधा कृत्वाऽपराम्बुधौ । षट्पञ्चाशच्छैवलिनीसहनैर्याति संश्रिता ॥ २२ ॥ अस्या वाप्रिवेशान्तं, स्वरूपमाहृदोद्गमात् । विज्ञेयं हरिसलिलानद्या इवाविशेषितम् ॥ २३ ॥ हदेऽस्मिन् मूलकमलं, चतुर्योजनसंमितम् । तदर्धार्धप्रमाणानि, पद्मानां वलयानि षट् ॥ २४ ॥ पल्योपमस्थितिस्तत्र, कीर्तिता कीर्तिदेवता । भवनादिस्थितिस्त्वस्याः, श्रीदेव्या इव भाव्यताम् ॥ २५ ॥ इति नीलवान् पर्वतः ॥ उत्तरस्यां नीलवतो, दक्षिणस्यां च रुक्मिण: । राजते रम्यकक्षेत्रं, रम्यकामरभर्तृकम् ॥ २६ ॥ स्वर्णमाणिक्यवचितैर्भूप्रदेशैमनोरमैः । नानाकल्पद्रुमैर्रम्यतयेदं रम्यकाभिधम् ॥ २७ ॥