SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ तथोक्तं स्थानाङ्गवृत्तौजीवमजीवे रुवमरुवि सपएसमप्पएसे अ । जाणाहि दब्बलोग, निच्चमनिच्चं च जं दव्वं ॥ ये संस्थानविशेषेण तिर्युगूर्ध्वमध:स्थिताः । आकाशस्य प्रदेशास्तं, क्षेत्रलोकं जिना: जगुः ॥६॥ समयावलिकादिश्च, काललोको जिनैः स्मृतः । भावलोकस्तु विज्ञेयो, भावा औदयिकादयः ॥७॥ यदाहुः स्थानाङ्गवृत्तौउदईए उवसमिए, खइए अ तहा खओवसमिए अ । परिणामसन्निवाए, छव्विहो भावलोओत्ति ॥ तत्र प्रथमतो द्रव्यलोकः किञ्चिद्वितन्यते । मया श्रीकीर्तिविजयप्रसादप्राप्तबुद्धिना ॥८॥ धर्मास्तिकायाधर्मास्तिकायावाकाश एव च । जीवपुद्गलकालाश्च, षड् द्रव्याणि जिनागमे ॥९॥ धर्माधर्माभ्रजीवाख्याः, पुद्गलेन समन्विताः । पञ्चामी अस्तिकायाः स्युः, प्रदेशप्रकरात्मका: ॥ १० ॥ अनागतस्यानुपत्तेरुत्पन्नस्य च नाशत: । प्रदेशप्रचयाभावात्, काले नैवास्तिकायता ॥ ११ ॥ विना जीवेन पञ्चामी, अजीवा कथिताः श्रुते । पुद्गलेन विना चामी, जिनैरुक्ता अरूपिणः ॥ १२ ॥ धर्मास्तिकायं तबाह, पञ्चधा परमेश्वरः । द्रव्यत: क्षेत्रत: कालभावाभ्यां गुणतस्तथा ॥ १३ ॥ द्रव्यतो द्रव्यमेकं स्यात्, क्षेत्रतो लोकसम्मितः । कालत: शाश्वतो यस्मादभूद्भाव्यस्ति चानिशम् ॥ १४ ॥ वर्णरूपरसैगंधस्पर्शः शून्यश्च भावतः । गत्युपष्टम्भधर्मश्च, गुणतः स प्रकीर्तितः ॥ १५ ॥ स्वभावत: सञ्चरतां लोकेऽस्मिन् पुद्गलात्मनाम् । पानीयमिव मीनानां, साहाय्यं कुरुते हासौ ॥ १६ ॥ जीवानामेष चेष्टासु, गमनागमनादिषु । भाषामनोवच:काययोगादिष्वेति हेतुताम् ॥ १७ ॥ अस्याऽसत्त्वादलोके हि, नात्मपुद्गलयोर्गतिः । लोकालोकव्यवस्थापि, नाभावेऽस्योपपद्यते ॥ १८ ॥ द्रव्यक्षेत्रकालभावैर्धर्मभ्रातेव युग्मजः । स्यादधर्मास्तिकायोऽपि, गुणत: किन्तु भिद्यते ॥ १९ ॥ स्थित्युपष्टम्भकर्ता हि, जीवपुद्गलयोरयम् । मीनानां स्थलवद्येनालोके नासौ न तत्स्थितिः ॥ २० ॥ अयं निषदनस्थानशयनालम्बनादिषु । प्रयाति हेतुतां चित्तस्थैर्यादिस्थिरतासु च ॥ २१ ॥ इदमर्थतो भग० श० १३ ॥ गतिस्थितिपरिणामे, सत्येवैतौ सहायकौ । जीवादीनां न चेत्तेषां, प्रसज्येते सदापि ते ॥ २२ ॥ भवेदभ्रास्तिकायस्तु, लोकालोकभिदा द्विधा । लोकाकाशास्तिकाय: स्यात्तत्रासंख्यप्रदेशकः ॥ २३ ॥ स भात्यलोकाकाशेन, परीतोऽतिगरीयसा । गोलकं मध्यशुषिरं, महान्तमनुकुर्वता ॥ २४ ॥ तथोक्तं भगवती शतक ११ उ ११ “अलोएणं भंते ! किं संठिए पं. ? गो० ! झुसिर गोलगसंठिए पं.” इत्यादि असौ च धर्माधर्माभ्यां, स्वतुल्याभ्यां सदान्वितः । भूपाल इव मन्त्रिभ्यां, बिभर्ति सकलं जगत् ॥ २५ ॥ १. समयादि समूहस्य । २. स्वभावः ।
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy