________________
३
अनन्तानन्तमुत्कृष्टं, भवेदेवंकृते सति । मेयाभावादस्य मध्ये, नैव व्यवहृति: पुन: ॥ २० ॥ एवं च नवधाऽनन्तं, कर्मग्रन्थमते भवेत् । भवत्यष्टविधं किञ्च, सिद्धान्ताश्रयिणं मते ॥ २०३ ॥ सर्वेषां रूपमेकमेषां ज्येष्ठकनीयसाम् । मध्यमानां तु रूपाणि, भवन्ति बहुधा किल ॥ २०४ ॥ संख्यातभेदं संख्यातमसंख्यातविधं पुनः । असंख्यातमनन्तं चानन्तभेदं प्रकीर्तितम् ॥ २०५ ॥ प्रयोजनं त्वेतेषाम्अभविअ चउत्थणंते, पंचम्मि सम्माइपरिवडिअ सिद्धा । सेसा अट्ठमणंते, पज्जथूलवणाइ बावीसम् ॥ ते चामीबायरपज्जत्तवणा बायरेपज्ज अपज्जबायरवणा य । बायरअपज्ज बायर सुहमापज्जवण सुहुमअपज्जा । सुहुमवणापज्जत्ता पज्ज्सुहुमा सुहुम भव्यय निगोया । वण एगिदिय तिरिया मिच्छदिट्ठी अविरया य ॥ सकसाइणो य छेउमा सजोगि संसारि सव्वजीवा य । जहसंभवमभहिया, बावीसं अट्ठमेऽयंते ॥ इत्यादि यथास्थानं ज्ञेयम् ॥
इत्यङ्गलादिप्रकृतोपयोगिमानं मयाप्तोक्तिमपेक्ष्य दृब्धम् ।
अतो यथास्थानमिदं नियोज्यं, कोशस्थितं द्रव्यमिवागमज्ञैः ॥ २०६ ॥ विश्वाश्चर्यदकीर्तिकीर्तिविजयश्रीवाचकेन्द्रान्तिष-द्राजश्रीतनयोऽतनिष्ट विनय: श्रीतेजपालात्मजः । काव्यं यत्किल तत्र निश्चितजगत्तत्त्वप्रदीपोपमे, सर्गो निर्गलितार्थसार्थसुभगो पूर्णः सुख्नेनादिमः ॥ २०७ ॥
॥ इति श्री लोकप्रकाशे प्रथमः सर्गः समाप्तः ॥
१०
११
१२
१३
१४
१५
१८
२१
२२
१. दृष्टिवादभृदाचार्यप्रणीतकर्मप्रकृत्यादिशास्त्राणामप्रामाण्यमापादयितुमशक्यत्वात् । अग्रत: संख्याऽभावात् पूर्वानन्तप्रक्षेपेऽनवस्थानात् ।
अथ द्वितीयः सर्गः ।
स्तुमः शोश्वरं पार्श्व, मध्यलोके प्रतिष्ठितम् । देहलीदीपकन्यायाद्, भुवनत्रयदीपकम् ॥ १॥ प्रस्तूयतेऽथ प्रकृतं, स्वरूपं लोकगोचरम् । द्रव्यत: क्षेत्रतः कालभावतस्तच्चतुर्विधम् ॥२॥ एक: पञ्चास्तिकायात्मा, द्रव्यतो लोक इष्यते । योजनानामसंख्येयाः, कोटयः क्षेत्रतोऽभितः ॥ ३॥ कालतोऽभूच्च भाव्यस्ति, भावतोऽनन्तपर्यवः । लोकशब्दप्ररूप्यास्तिकायस्थगुणपर्यवैः ॥ ४॥ अथवाजीवाजीवास्वरूपाणि, नित्यानित्यत्ववन्ति च । द्रव्याणि षट् प्रतीतानि, द्रव्यलोकः स उच्यते ॥५॥