________________
एवमुक्कोसयं अणंताणतयं नत्थित्ति । अभिप्राय: समग्रोऽयं, प्रोक्तः सूत्रानुसारतः । अथ कार्मग्रन्थिकानां, मतमत्र प्रपञ्च्यते ॥ १७९ ॥ समद्विघातो वर्ग: स्यात्, इति वर्गस्य लक्षणम् । पञ्चानां वर्गकरणे, यथा स्युः पञ्चविंशतिः ॥ १८० ॥ जघन्ययुक्तासंख्यातावधि: तुल्यं मतदये । अतः परं विशेषोऽस्ति, स चायं परिभाव्यते ॥ १८१ ॥ जघन्ययुक्तासंख्यातादारभ्योत्कृष्टतावधिः । मध्यमं युक्तासंख्यातं, स्यादुत्कृष्टमथोच्यते ॥ १८२ ॥ जघन्ययुक्तासंख्यातं, वर्गितं रूपवर्जितम् । उत्कृष्टयुक्तासंख्यातं, प्राप्तरूपैः प्ररूपितम् ॥ १८३ ॥ एकरूपेण युक्तं तदसंख्यासंख्यक लघुः । अर्वागुत्कृष्टतो मध्यमथोत्कृष्टं निरूप्यते ॥ १८४ ॥ जघन्यासंख्यासंख्यातं, यत्ततो वर्गितं त्रिश: । अमीभिर्दशभिः क्षेपैर्वक्ष्यमाणैर्विमिश्रितम् ॥ १८५ ॥ तच्चैवम्त्रिंशत्कोटिकोटिसारा, ज्ञानावरणकर्मणः । स्थितिरुत्कर्षतो ज्ञेया, जघन्याऽऽन्तर्मुहूर्तिकी ॥ १८६ ॥ अनयोरन्तराले च, मध्यमाः स्युरसंख्यश: । आसां बन्धहेतुभूताऽध्यवसाया असंख्यश: ॥ १८७ ॥ एवमेवाध्यवसाया, अपरेष्वपि कर्मसु । स्युरसंख्येयलोकाभ्रप्रदेशप्रमिता इमे ॥ १८८ ।। जघन्यादिभेदवन्तोऽनुभागाः कर्मणां रसाः । तेप्यसंख्येयलोकाभ्रप्रदेशप्रमिताः किल ॥ १८९ ॥ ततश्च-लोकाभ्रधर्माधमैकजीवानां ये प्रदेशका: । अध्यवसायस्थानानि, स्थितिबन्धानुभागयोः ॥ १९० ॥ मनोवच:काययोगविभागा निर्विभागकाः । कालचक्रस्य समयास्तथा प्रत्येकजन्तवः ॥ १९१ ॥ अनन्ताङ्गिदेहरूपा, निगोदाश्च दशाप्यमून् । त्रिवर्गिते लध्वसंख्यासंख्येऽसंख्यान्नियोजयेत् ॥ १९२ ॥ त्रिश: पुनर्वर्गयेच्च, भवेदेवं कृते सति । असंख्यासंख्यमुत्कृष्टमेकरूपविनाकृतम् ॥ १९३ ॥ तत्रैकरूपप्रक्षेपे, परीत्तानन्तकं लघुः । परीत्तानन्तकाज्ज्येष्ठाद्यदर्वाक् तच्च मध्यमम् ॥ १९४ ॥ अभ्यासगुणिते प्राग्वत्परीत्तानन्तके लघौ । परीत्तानन्तमुत्कृष्टमेकरूपोज्झितं भवेत् ॥ १९५ ॥ सैकरूपे पुनस्तस्मिन्, युक्तानन्तं जघन्यकम् । अभव्यजीवैस्तुलितं, मध्यं तूत्कृष्टकावधि ॥ १९६ ॥ जघन्ययुक्तानन्ते च, वर्गिते रूपवर्जिते । स्यायुक्तानन्तुमुत्कृष्टमित्युक्तं पूर्वसूरिभिः ॥ १९७ ॥ अत्रैकरूपप्रक्षेपादनन्तानन्तकं लघुः । प्राग्वदेतदपि ज्ञेयं, मध्यमुत्कृष्टकावधिः ॥ १९८ ॥ जघन्यानन्तानन्तं तत्, वर्गयित्वा त्रिशस्ततः । क्षेपानमूननन्तान् षट्, वक्ष्यमाणान्नियोजयेत् ॥ १९९ ॥ ते चामीवनस्पती निगोदानां, जीवान् सिद्धांश्च पुद्गलान् । सर्वकालस्य समयान्, सर्वालोकन शकान् ॥ २०० ॥ पुनस्त्रिवर्गिते जातराशौ तस्मिन् विनिक्षिपेत् । पर्यायान् केवलज्ञानदर्शनानामनन्तकान् ॥ २०१॥