________________
यत्रान्तिमायां वेलायां, रिक्तीभूतोऽनवस्थित: । तावन्मानस्तदाऽस्त्येष, त्रयस्त्वन्ये यथोदिताः ॥ १५५ ॥ अर्थतांश्चतुर: पल्यान्, सावकाशे स्थले क्वचित् । उद्घम्य तत्सर्षपाणां, निचयं रचयेद्धिया ॥ १५६ ॥ ततश्च जम्बूद्धीपादिद्वीपवार्धिषु सर्षपान् । उच्चित्य पूर्वनिक्षिप्तांस्तत्रैव निचये क्षिपेत् ॥ १५७ ॥ एकसर्षपरूपेण, न्यूनोऽयं निचयोऽखिल: । भवेदुत्कृष्ट संख्यातमानमित्युदितं जिनैः ॥ १५८ ॥ एतदुत्कृष्टसंख्यातमेकरूपेण संयुतम् । भवेत्परीत्तासंख्यातं, जघन्यमिति तद्धिदः ॥ १५९ ॥ ज्येष्ठात्परीत्तासंख्यातादर्वाग् जघन्यतः परम् । मध्यं परीत्ताऽसंख्यातं, भवेदिति जिनैः स्मृतम् ॥ १६० ॥ जघन्ययुक्तासंख्यातमेकरूपविवर्जितम् । भवेत्परीत्तासंख्यातमुत्कृष्टमिति तद्विदः ॥१६१ ॥ जघन्ययुक्तासंख्यातप्रकारश्वायम्यावत्प्रमाणो यो राशिर्भवेत्स्वरूपसंख्यया । स न्यस्य तावतो वारान्, गुणितोऽभ्यास उच्यते ॥ १६२ ॥ यथा पञ्चात्मको राशि:, पञ्चवारान् प्रतिष्ठितः । मिथ: संगुणितो जातः, प्रथमं पञ्चविंशतिः ॥ १६३ ॥ शतं सपादं सञ्जातो, गुणित: सोऽपि पञ्चभिः । पुनः संगुणित: पञ्चविंशानि स्युः शतानि षट् ॥ १६४ ॥ जातश्चतुर्थवेलायामेकत्रिंशच्छतानि सः । पञ्चविंशत्युपचितान्यभ्यासगुणितं ह्यदः ॥ १६५ ॥ ततश्चप्रागुक्ते सार्षपे पुजे, यावन्तः किल सर्षपा: । तत्संख्यान् मुख्यनिचयतुल्यान् राशीन् पृथक्पृथक् ॥ १६६ ॥ कृत्वा मिथस्तद्गुणने, यो राशिर्जायतेऽन्तिमः । जघन्ययुक्तासंख्यं तदावलीसमयैः समम् ॥ १६७ ॥ इयमत्र भावनास सर्षपाणां निकरः, कल्प्यते चेद्दशात्मकः । प्राग्वदभ्यासगुणितः सहस्रकोटिको भवेत् ॥ १६८ ॥ गरिष्ठयुक्तासंख्यातादर्वाग् जघन्यतः परम् । मध्यमं जायते युक्तासंख्यातमिति तद्धिदः ॥ १६९ ॥ जघन्ययुक्तासंख्यातं, प्राग्वदभ्यासताडितम् । हीनमेकेन रूपेण, युक्तासंख्यातकं गुरुः ॥ १७० ॥ एतदेव रूपयुक्तमसंख्यासंख्यकं लघुः । मध्यासंख्यातासंख्यातमस्मादुत्कृष्टतावधि ॥१७१ ॥ जघन्यासंख्यासंख्यातं, भवेदभ्यासताडितम् । एकरूपोनितं ज्येष्ठासंख्यासंख्यातकं स्फुटम् ॥ १७२ ॥ अत्रैकरूपक्षेपे च, परीत्तानन्तकं लघुः । मध्यं चास्मात्समुत्कृष्टपरीत्तानन्तकावधिः ॥ १७३ ॥ हुस्वं परीत्तानन्तं च, प्राग्वदभ्याससंगुणम् । परीत्तानन्तकं ज्येष्ठमेकरूपोनितं भवेत् ॥ १७४ ॥ सैकरूपं तज्जघन्ययुक्तानन्तकमीरितम् । परमस्मात्पराच्चार्वाग्, युक्तानन्तं हि मध्यमम् ॥ १७५ ॥ युक्तानन्तं तज्जघन्यमभ्यासपरिताडितम् । निरेकरूपमुत्कृष्टयुक्तानन्तकमाहितम् ॥ १७६ ॥ अत्रैकरूपक्षेपे स्यादनन्तानन्तकं लघु । अस्माद्यदधिकं मध्यानन्तानन्तं च तत्समम् ॥ १७७ ॥ उत्कृष्टानन्तानन्तं तु, नास्ति सिद्धान्तिनां मते । अनुयोगदारसूत्रे, यदुक्तं गणधारिभिः ॥ १७८ ॥