________________
आद्योऽनवस्थिताख्यः स्याच्छलाकाख्यो द्वितीयकः । तृतीयः प्रतिशलाकस्तुर्यो महाशलाककः ॥ १२९ ॥ आवेदिकान्तं सशिखस्तत्र पल्योऽनवस्थितः । मायादेकोऽपि न यथा, सर्षपैभ्रियते तथा ॥ १३० ॥ असत्कल्पनया कश्चिद्देवस्तमनवस्थितम् । कृत्वा वामकरे तस्मात्सर्षपं परपाणिना ॥ १३१ ॥ जम्बूद्वीपे क्षिपेदेकं, द्वितीयं लवणोदधौ । तृतीयं धातकीखण्डे, तुर्यं कालोदवारिधौ ॥ १३२ ॥ एवं दीपे समुद्रे वा, स पल्यो यत्र निष्ठितः । तत्समायामविष्कम्भपरिधि: कल्प्यते पुन: ॥ १३३ ॥ उद्वेधतोत्सेधत: प्राग्वद् भ्रियते सर्षपैश्च स: । क्रमाद्वीपे समुद्रे च, पूर्ववन्न्यस्यते कण: ॥ १३४ ॥ एवं द्वितीयवारं च, रिक्तीभूतेऽनवस्थिते । मुच्यते सर्षपः साक्षी, शलाकाभिधपल्यके ॥ १३५ ॥ पूर्यमाणै रिच्यमानैरेवं भूयोऽनवस्थितैः । शलाकाख्योऽपि सशिखं, पूर्यते साक्षिसर्षपैः ॥ १३६ ॥ अत्रेदं ज्ञेयम्आद्येऽनवस्थिते रिक्तीभूते साक्षी न मुच्यते । सर्वैः पल्यैः समानत्वान्नानवस्थितताऽस्य यत् ॥ १३७ ॥ यास्याऽनवस्थितेत्याबा, ज्ञेया योग्यतया तु सा । घृतयोग्यो घटो यदद्, घृतकुम्भोऽभिधीयते ॥ १३८ ॥ साक्षी च सर्षपकणो, मुच्यते यः शलाकके । अनवस्थितसकं तं, जगुरेके परे परम् ॥ १३९ ॥ पूर्णीभूते शलाकेऽथ, स्थाप्यस्तत्राऽनवस्थितः । क्रमागतदीपवार्द्धिसमानः सर्षपैर्भूतः ॥ १४० ॥ अथोत्पाट्य शलाकाख्यं, प्राग्वत्तस्य कणान् क्षिपेत् । अनवस्थान्तिमकणाक्रान्तदीपाम्बुधेः पुरः ॥ १४१ ॥ रिक्तीभूते शलाकेऽथ, पल्ये प्रतिशलाकके । क्षिप्यते सर्षपस्तस्य, साक्षीभूतस्तृतीयके ॥ १४२ ॥ अथ तत्र स्थितं पूर्णं, तं गृहीत्वाऽनवस्थितम् । शलाकान्त्यकणाक्रान्तादग्रे प्राग्वत् कणान् क्षिपेत् ॥ १४३॥ पूर्यमाणै रिच्यमानैर्भूयोभूयोऽनवस्थितैः । पुन: शलाको भ्रियते, प्राग्वत्तथाऽनवस्थितः ॥ १४४ ॥ प्राग्वत् शलाकमुत्पाट्य, परतो दीपवार्धिषु । रिक्तीकृत्य च तत्साक्षी, स्थाप्यः प्रतिशलाकके ॥ १४५ ॥ एवं प्रतिशलाकेऽपि, सशिखं सम्भृते सति । अवस्थशलाकाख्यौ, स्वयमेव भृतौ स्थितौ ॥ १४६ ॥ शलाकसाक्षिण: स्थानाऽभावात्स रिच्यते कथम् । आद्यस्यापि तदभावात्, कथं सोऽपि हि रिच्यते ॥ १४७ ॥ ततः प्रतिशलाकाख्यमुत्पाट्य तस्य सर्षपान् । क्षिपेत् पूर्वोक्तया रीत्या, परतो दीपवार्धिषु ॥ १४८ ॥ एवं प्रतिशलाकेऽपि, निखिलं निष्ठिते सति । साक्षीभूतं कणमेकं, क्षिपेन्महाशलाकके ॥ १४९ ॥ ततः शलाकमुत्पाट्य, दीपाब्धिषु तदग्रतः । सर्षपान्न्यस्य तत्साक्षी, स्थाप्यः प्रतिशलाकके ॥ १५० ॥ ततः क्रमादर्द्धमानविस्तारमनवस्थितम् । उत्पाट्य परतो दीपपाथोधिषु कणान् क्षिपेत् ॥ १५१ ॥ प्राग्वदेतत्साक्षिकणैः, शलाकाख्यः प्रपूर्यते । तमप्यनेकशः प्राग्वत्, संरिच्यतस्य साक्षिभिः ॥ १५२ ॥ तृतीयः परिपूर्यताऽसकृदेतस्य साक्षिभिः । पल्यो महाशलाकोऽपि, सशिखं पूर्यते ततः ॥ १५३ ॥ यथोत्तरमथो साक्षिस्थानाभावादिमे समे । भृताः स्थिता दिक्कनीनां, क्रीडासमुद्गका इव ॥ १५४ ॥