________________
यद्यप्यत्र वालाग्रखण्डस्पृष्टाऽस्पृष्टनभ:प्रदेशकर्षणेऽधिकृतैकैकस्य वालाग्रस्यासंख्यभागकरणं नोपयुक्तं, उभयथाऽप्याविशेषात्, तथाऽपि प्रवचनसारोद्धारवृत्त्यादिषु पूर्वग्रन्थेषु तथा
दर्शनादत्रापि तथोक्तमिति ज्ञेयं ॥ नन्वेवं निचिते पल्ये, वालाग्रैः सम्भवन्ति किम् । नभ:प्रदेशा अस्पृष्टास्तदुद्धारो यदीरितः ॥ १०९ ॥ उच्यते सम्भवत्येवास्पृष्टास्ते सूक्ष्मभावत: । नभोऽशकानां वालाग्रखण्डौघात्तादृशादपि ॥ ११० ॥ यथा कुष्माण्डभरिते, मातुलिङ्गानि मञ्चके । मान्ति तैश्च भृते धात्रीफलानि बदराण्यपि ॥ १११ ॥ तत्रापि मान्ति चणकादयः सूक्ष्मा यथाक्रमम् । एवं वालाग्रपूणेऽपि, तत्रास्पृष्टा नभोऽशकाः ॥ ११२ ॥ यदायतो घनेऽपि स्तम्भादौ, शतशो मान्ति कीलकाः । ज्ञायन्तेऽस्पृष्टखांशानां, ततस्तत्रापि सम्भवेत् ॥ ११३ ॥ एवं वालाग्रखण्डोधैरत्यन्तनिचितेऽपि हि । युक्तैव पल्ये खांशानामस्पृष्टानां निरूपणा ॥ ११४ ॥ एतेषामथ पल्यानां, दशभिः कोटिकोटिभिः । सूक्ष्मं सूक्ष्मेक्षिभिः क्षेत्रं, सागरोपममीक्षितम् ॥ ११५ ॥ बादरक्षेत्रपल्याम्भोनिधिभ्यां सूक्ष्मके इमे । असंख्यगुणमाने स्तः, कालत: पल्यसागरे ॥ ११६ ॥ क्षेत्रसागरपल्याभ्यामाभ्यां प्राय: प्रयोजनम् । द्रव्यप्रमाणचिन्तायां, दृष्टिवादे क्वचिद्भवेत् ॥ ११७ ॥ पल्यं पल्योपमं चापि, ऋषिभिः परिभाषितम् । सारं वारिधिपर्यायं, सागरं सागरोपमम् ॥ ११८ ॥ अथ संख्यातादिकानां, स्वरूपं किञ्चिदुच्यते । श्रोतव्यं तत्सावधानैर्जनैस्तत्त्वबुभुत्सुभिः ॥ ११९ ॥ त्रिधा संख्यातं जघन्यमध्यमोत्कृष्टभेदतः । असंख्यातानन्तयोस्तु, भेदा नवनवोदिताः ॥ १२० ॥ परितासंख्यातमाद्यं, युक्तासंख्यातकं परम् । तार्तीयिकमसंख्यातासंख्यातं परिकीर्तितम् ॥ १२१ ॥ परित्तानन्तमायं स्यायुक्तानन्तं द्वितीयकम् । अनन्तानन्तकं तार्तीयिकं च गदितं जिनैः ॥ १२२ ॥ षडप्येते स्युर्जघन्यमध्यमोत्कृष्टभेदतः । अष्टादशाथ संख्यातैस्त्रिभिः सहैकविंशतिः ॥ १२३ ॥ दावेव लघुसंख्यातं, त्र्यादिकं मध्यमं तत: । अर्वागुत्कृष्टसंख्यातात्, नैकस्तु गणनां भजेत् ॥ १२४ ॥ यत्तु संख्यातमुत्कृष्टं, तत्तु ज्ञेयं विवेकिभिः । चतुष्पल्यायुपायेन, सर्षपोत्करमानतः ॥ १२५ ॥ तच्चैवम्जम्बूद्वीपसमायामविष्कम्भपरिवेषकाः । सहस्रयोजनोद्वेधाः, पल्याश्चत्वार ईरिताः ॥ १२६ ॥ उच्चया योजनान्यष्टौ, जगत्या ते विराजिता: । जगत्युपरि च क्रोशद्धयोच्चवेदिकाञ्चिताः ॥ १२७ ॥ दिदृक्षवो दीपवा/न्, स्वीकृतोद्ग्रीविका इव । ध्यायन्तो ज्येष्ठसंख्यातं, योगपट्टभृतोऽथवा ॥ १२८ ॥ १ आह - यदि स्पृष्टा अस्पृष्टाच नभ:प्रदेशा गृहान्ते, तर्हि वालाग्रैः किं प्रयोजनम् ?, यथोक्तपल्यान्तर्गतनभःप्रदेशापहारमात्रतः सामान्येनैव वक्तुमुचितं स्यात्, सत्यं, किन्तु प्रस्तुतपल्योपमेन दृष्टिवादे द्रव्याणि मीयन्ते, तानि कानिचियथोक्तवालाग्रस्पृष्टैरेवनभः प्रदेशैर्मीयन्ते, कानिचिदस्पृष्टैरित्यतो दृष्टिवादोक्तद्रव्यमानोपयोगित्वाद् वालाग्रप्ररूपणाऽत्र प्रयोजनवतीति (अनुयोगदारवृत्ती)