________________
6
एतेषामथ पल्यानां दशभिः कोटिकोटिभिः । भवेद्बादरमुद्धारसंज्ञकं सागरोपमम् ॥ ८४ ॥ अथैकैकस्य पूर्वोक्तवालाग्रस्य मनीषया । असंख्येयानि खण्डानि, कल्पनीयानि धीधनैः ॥ ८५ ॥ यत्सूक्ष्मं पुद्गलद्रव्यं, छद्मस्थश्चक्षुषेक्षते । तदसंख्यांशमानानि तानि स्युर्द्रव्यमानतः ॥ ८६ ॥ सूक्ष्मपनकजीवाङ्गावगाढक्षेत्रतोऽधिके । असंख्येयगुणे क्षेत्रेऽवगाहन्त इमानि च 11 26 11 व्याचक्षतेऽथ वृद्धास्तु, मानमेषां बहुश्रुताः । पर्याप्तबादरक्षोणीकायिकाङ्गेन सम्मितम् ॥ ८८ ॥ समानान्येव सर्वाणि तानि च स्युः परस्परम् । अनन्तप्रादेशिकानि, प्रत्येकमखिलान्यपि ॥ ८९ ॥ ततस्तैः पूर्यते प्राग्वत्, पल्यः पूर्वोक्तमानकः । समये समये चैकं, खण्डमुद्धियते ततः ॥ ९० ॥ निःशेष निष्ठिते चास्मिन्, सूक्ष्ममुद्धारपल्यकम् । संख्येयवर्षकोटिभिर्मितमेतदुदाहृतम् ॥ ९१ ॥ सुसूक्ष्मोद्धारपल्यानां, दशभिः कोटिकोटिभिः । सूक्ष्मं भवति चोद्धाराभिधानं सागरोपमम् ॥ ९२ ॥ आभ्यां सागरपल्याभ्यां, मीयन्ते द्वीपसागराः । अस्याः सार्द्धद्धिसागर्या:, समयैः प्रमिता हि ते ॥ ९३ ॥ यद्वैतासु पल्यकोटाकोटीषु पञ्चविंशतौ । यावन्ति वालखण्डानि, तावन्तो द्वीपसागराः ॥ ९४ ॥ एकादिसप्तान्तदिनोद्गतैः केशाग्रराशिभिः । भृतादुक्तप्रकारेण, पल्यात्पूर्वोक्तमानतः ॥ ९५ ॥ प्रतिवर्षशतं खण्डमेकमेकं समुद्धरेत् । निशेषं निष्ठिते चास्मिन्नद्धापल्यं हि बादरम् ।। ९६ ।। एतेषामथ पल्यानां दशभिः कोटिकोटिभिः । भवेद्बादरमद्धाख्यं, जिनोक्तं सागरोपमम् ॥ ९७ ॥ पूर्वरीत्याऽथ वालाग्रैः, खण्डीभूतैरसंख्यशः । पूर्णात्पल्यात्तथा खण्डं प्रतिवर्षशतं हरेत् ॥ ९८ ॥ कालेन यावता पल्यः, स्यान्निर्लेपोऽखिलोऽपि सः । तावान्कालो भवेत्सूक्ष्ममद्धापल्योपमं किल ।। ९९ ।। एतेषामथ पल्यानां दशभि: कोटिकोटिभिः । सूक्ष्ममद्धाभिधं ज्ञान सागराः सागरं जगुः ॥ १०० ॥ सूक्ष्माद्धापल्यवाद्धिभ्यामाभ्यां मीयन्त आर्हतैः । आयूंषि नारकादीनां, कर्मकायस्थिती तथा ।। १०१ ।। एतेषामेव वार्द्धनां दशभिः कोटिकोटिभिः । उत्सर्पिणी भवेदेका, तावत्येवावसर्पिणी ॥ १०२ ।। एकादिसप्तान्तघस्ररूढकेशाग्रराशिभिः । भृतादुक्तप्रकारेण, पल्यात्पूर्वोक्तमानतः ॥ १०३ ॥ तत्तद्वालाग्रसंस्पृष्टखप्रदेशापकर्षणे । समये समये तस्मिन् प्राप्ते नि:शेषतां तथा ॥ १०४ ॥ कालचक्रैरसंख्यातैर्मितं तत्क्षेत्रनामकम् । बादरं जायते पल्योपममेवं जिनैर्मतम् ॥ १०५ ।। कोटाकोट्यो दशैषां च, बादरं क्षेत्रसागरम् । सुबोधतायै सूक्ष्मस्य, कृतमेतन्निरूपणम् ॥ १०६ ॥ छिन्नैरसंख्यशः प्राग्वत्, केशाग्रैः पल्यतो भृतात् । समये समये चैकः, खप्रदेशोऽपकृष्यते ॥ १०७ ॥ एवं केशांशसंस्पृष्टा संस्पृष्टाभ्रांशकर्षणात् । तस्मिन्निःशेषिते सूक्ष्मं, क्षेत्रपल्योपमं भवेत् ॥ १०८ ॥
,