________________
आद्यमुद्धारपल्यं स्यादद्धापल्यं द्वितीयकम् । तृतीयं क्षेत्रपल्यं स्यादिति पल्योपमं त्रिधा ॥६६॥ एकैकं द्विप्रकारं स्यात्, सूक्ष्मबादरभेदतः । त्रैधस्यैवं सागरस्याप्येवं ज्ञेया द्विभेदता ॥६७ ॥ उत्सेधाङ्गलसिद्धैकयोजनप्रमितोऽवटः । उण्डत्वायामविष्कम्भैरेष पल्य इति स्मृतः ॥६८ ॥ परिधिस्तस्य वृत्तस्य, योजनत्रितयं भवेत् । एकस्य योजनस्योनषष्टभागेन संयुतम् ॥६९ ॥ संपूर्य उत्तरकुरुनृणां शिरसि मुण्डिते । दिनैरेकादिसप्तान्तै, रूढकेशाग्रराशिभिः ॥७॥
क्षेत्रसमास, बृहत्वृत्ति, जम्बूदीपप्रज्ञप्तिवृत्त्यभिप्रायोऽयं, प्रवचनसारोद्धारवृत्ति, संग्रहणीबृहत्वृत्त्योस्तु मुण्डिते शिरसि एकेनाहा द्वाभ्यामहोभ्यां यावदुत्कर्षतः सप्तभिरहोभिः प्ररुढानि वालाग्राणीत्यादि सामान्यत: कथनादुत्तरकुरु नरवालाग्राणि नोक्तानीति ज्ञेयं । 'वीरं जयसेहर' क्षेत्रविचारसत्कस्वोपज्ञवृत्तौ तु देवकुरुत्तरकुरूद्भवसप्तदिनजातोरणस्योत्सेधाङ्गुलप्रमाणं रोम सप्तकृत्वोऽष्टखण्डीकरणेन विशंतिलक्षसप्तनवतिसहस्रैकशतदापञ्चाशत्प्रमितखण्डभावं (२०९७१५२) प्राप्यते, तादृशै रोमखण्डैरेष पल्यो भ्रियत इत्यादिर्थतः संप्रदायो दृश्यत इति ज्ञेयं ॥ एतानि चाङ्गुलसत्कानि रोमखण्डानि चतुर्विंशति गुणानि हस्ते, तानि चतुर्गुणानि धनुषि, तानि द्विसहस्रगुणानि क्रोशे, एवं क्रमेण समवृत्तघनयोजनपल्यगतो
रोमखण्डराशिर्भवति, स चाङ्कतो यथात्रयस्त्रिंशत्कोट्यः स्युः, सप्तलक्षाणि चोपरी । द्वाषष्टिश्च सहस्राणि, शतं च चतुरुत्तरम् ॥ ७१॥ एतावत्यः कोटिकोटिकोटाकोटयः स्मृता अथ । चतुर्विंशतिर्लक्षाणि, पञ्चषष्टिः सहस्रका: ॥७२॥ पञ्चविंशाः शता: षट् च, स्युः कोटाकोटिकोटयः । कोटाकोटीनां च लक्षा, द्विचत्वारिंशदित्यथ ॥७३॥ एकोनविंशतिरपि, सहस्राणि शता नव । षष्टिश्चोपरिकोटिनां, मानमेवं निरूपितम् ॥७४॥ लक्षाणि सप्तनवतिस्त्रिपञ्चाशत्सहस्रका: । षट् शतानि च पल्येऽस्मिन्, स्युः सर्वे रोमखण्डकाः ॥५॥ त्रित्रिखाश्वरसाक्ष्याशावाद्धयक्ष्यब्धिरसेन्द्रियाः । द्धिपञ्चचतुद्ध्येकाकाङ्कषट्खाङ्कवाजिनः ॥७६ ॥ पञ्च त्रीणि च षट् किञ्च, नव खानि ततः परम् । आदितः पल्यरोमांशराशिसंख्याङ्कसंग्रहः ॥ ७७ ॥ अत्रोक्त शेषो विस्तरस्तु उपाध्यायश्रीशान्तिचन्द्रगणिकृतश्रीजंबूदीपप्रज्ञप्तिवृत्तेरवसेयः । तथा निबिडमाकण्ठं, भ्रियते स तथा हि तत् । नाग्निर्दहति वालाग्रं, सलिलं च न कोथयेत् ॥ ७८ ॥ यथा च चक्रिसैन्येन, तमाक्रम्य प्रसर्पता । न मनाक् क्रियते नीचैरेवं निबिडतां गतात् ॥७९॥ समये समये तस्मात्, वालखण्डे समुद्धृते । कालेन यावता पल्यः, स भवेन्निष्ठितोऽखिलः ॥८॥ कालस्य तावत: संज्ञा, पल्योपममिति स्मृता । तत्राप्युद्धारमुख्यत्वादिदमुद्धारसंज्ञितम् । ॥ ८१ ॥ इदं बादरमुद्धारपल्योपममुदीरितम् । प्रमाणमस्य संख्याताः, समयाः कथिता जिनैः ॥ ८२ ॥ अस्मिन्निरूपिते सूक्ष्म, सुबोधमबुधैरपि । अतो निरुपितं नान्यत्किञ्चिदस्य प्रयोजनम् ॥८३॥