________________
वस्तुतस्तदसंख्येयप्रदेशमपि कल्प्यते । प्रदेशत्रयनिष्पन्न, सुखावगतये नृणाम् ॥४९॥ सूची सूच्यैव गुणिता, भवति प्रतराङ्गलम् । नवप्रादेशिकं कल्प्यं, तदैर्घ्यव्यासयोः समम् ॥ ५० ॥ प्रतरे सूचीगुणिते, सप्तविंशतिखाशकम् । दैर्घ्यविष्कम्भबाहल्यैः, समानं स्याद् घनाङ्गलम् ॥ ५१॥ तत्र गुणनविधिश्चैवम्अडोऽन्तिमो गुण्यराशेर्गुण्यो गुणकराशिना । पुनरुत्सारितेनोपान्त्यादयोऽप्येवमेव च ॥ ५२ ॥ उपर्यधश्चादिमान्त्यौ, राश्योर्गुणकगुण्ययोः । कपाटसन्धिवत्स्थाप्यौ, विधिरेवमनेकधा ॥ ५३॥ स्थानाधिक्येन संस्थाप्यं, गुणितेऽड्) फलं च यत् । यथास्थानकमानां, कार्या संकलना तत: ॥ ५४॥
अङ्कस्थानानि चैवम्- [लीलावती श्लोक ११-१२] एकं दशशतसहस्रायुतलक्षप्रयुतकोटयः क्रमत: । अर्बुदमन्जं खर्वं निखर्वमहापद्मशङ्कवस्तस्मात् ॥ जलधिश्चान्त्यं मध्यं परार्ध्यमिति
दशगुणोत्तरं संज्ञाः ॥ इति ॥ अत्रोदाहरणम्पञ्चत्र्येकमितो राशिर्दिवाकरगुणीकृतः । स्यादिशा षोडशशती, क्रमोऽङ्कानां च वामतः ॥ ५५ ॥ अथ प्रसङ्गादुपयोगित्वाच्च भागहारविधिरुच्यतेयद्गुणो भाजकः शुद्धयेदन्त्यादेर्भाज्यराशित: । तत्फलं भागहारे स्यात्, भागाप्राप्तौ च खं फलम् ॥ ५६ ॥ अग्रे यथाऽऽप्यते भागः, पूर्वमङ्घ तथा भजेत् । षड्भिर्भागे यथा षष्टेः, प्राप्यन्ते केवलं दश ॥ ५७ ॥ अथ प्रकृतम्पादः स्यादङ्गलैः षड्भिर्वितस्ति: पादयोर्द्धयम् । वितस्तिद्धितयं हस्तो, द्वौ हस्तौ कुक्षिरुच्यते ॥ ५८ ॥ कुक्षिद्धयेन दण्डः स्यात्तावन्मानं धनुर्भवेत् । युगं वा मुसलं वापि, नालिका वा समाः समे ॥ ५९॥ अङ्गलैः षण्णवत्यैव, सर्वेऽपि प्रमिता अमी । सहस्राद्वितयेनाथ, क्रोश: स्याद्धनुषामिह ॥ ६०॥ चतुष्टयेन क्रोशानां, योजनं तत्पुनस्त्रिधा । उत्सेधात्मप्रमाणाख्यैरङ्गलैर्जायते पृथक् ॥ ६१ ॥ एवं पादादिमानानां, सर्वेषां त्रिप्रकारताम् । विभाव्य विनियुञ्जीत, स्वस्वस्थाने यथायथम् ॥ ६२ ॥ प्रमाणाङ्गलनिष्पन्नयोजनानां प्रमाणत: । असंख्यकोटाकोटीभिरेका रज्जुः प्रकीर्तिता ॥६३॥ स्वयम्भूरमणाब्धेर्ये, पूर्वपश्चिमवेदिके । तयोः परान्तान्तरालं, रज्जुमानमिदं भवेत् ॥६४ ॥
लोकैश्च - यवोदरैरङ्गलमष्टसंख्यैः हस्तोऽङ्गुलैः षड्गुणितै तुभिः ।
हस्तैश्चतुर्भिर्भवतीह दण्डः, क्रोश: सहसद्धितयेन तेषाम् ॥
स्यायोजनं क्रोशचतुष्टयेन, तथा कराणां दशकेन वंशः ।
निवर्त्तनं विंशतिवंशसंख्यैः, क्षेत्रं चतुर्भिश्च भुजैर्निबद्धम् ॥ इत्याद्यभिधीयते । मानं पल्योपमस्याथ, तत्सागरोपमस्य च । वक्ष्ये विस्तरत: किञ्चित्, श्रुत्वा श्रीगुरुसन्निधौ ॥६५॥