________________
268
पूर्वपश्चिमविस्तीर्णा, सा दक्षिणोत्तरायता । ऋजुताऽस्या: पश्चिमायां, वक्रता चूलिकादिशि ॥ २३५ ॥ स्यात् प्रतीचीसंमुखायामरयां सिंहासनद्धयम् । जिनजन्माभिषेकाई, दक्षिणोत्तरयोर्दिशोः ॥ २३६ ॥ शीतोदोत्तरदिग्भाविपक्ष्मादिविजयाष्टके । संजातोऽर्हन्नौत्तराहसिंहासनेऽभिषिच्यते ॥ २३७ ॥ शीतोदादक्षिणाभाविवप्रादिविजयाष्टके । जातो जिनो दाक्षिणात्यसिंहासनेऽभिषिच्यते ॥ २३८ ॥ उदीच्यां मेरूचूलाया, उदीच्यान्ते वनस्य च । रक्तस्वर्णमयी रक्तकम्बला वर्तते शिला ॥ २३९ ॥ दक्षिणोत्तरविस्तीर्णा, सा पूर्वपश्चिमायता । उदग् रुज्वी चूलिकातो, वक्रा तथोत्तरामुखी ॥ २४० ॥ अस्यां सिंहासनं मध्ये, मणिरत्नमनोहरम् । ऐरावतक्षेत्रजातो, जिनस्तत्राभिषिच्यते ॥ २४१ ॥ एवं मेरुगिरावस्मिन्नभिषेकासनानि षट् । अभिषेकस्तु युगपच्चतुर्णामथवा द्वयोः ॥ २४२ ॥ पूर्वापरविदेहेषु, निशीथेऽर्हज्जनिर्यदा । भरतैरवतक्षेत्रे, मध्याह्नः स्यात्तदा यतः ॥ २४३ ॥ शेषेष्वपि व्यवस्थेयं, तुल्या चतुर्षु मेरुषु । सिंहासनान्यतस्त्रिंशत्, भवन्ति सर्वसंख्यया ॥ २४४ ॥ त्रिंशतस्तीर्थराजां तु, युगपन्न जनिर्भवेत् । भरतैरावतविदेहेषु कालविपर्ययात् ॥ २४५ ॥ युक्तैवोक्ता तत: प्राच्यैरर्हतां युगपज्जनिः । उत्कर्षादिशतेरेव, दशानां च जघन्यत: ॥ २४६ ॥ भारतेष्वैरावतेषु, कालस्य साम्यतो मिथ: । हीनाधिकानां पूर्वोक्तसंख्यातो न जनिर्भवेत् ॥ २४७ ॥ पाण्डकाख्यवनस्यास्य, मध्यभागे सुनिश्चिते । चकास्ति चूलिका मेरोर्वर्यवैडूर्यरत्नजा ॥ २४८ ॥ विस्फुरत्पण्डकवनशरावान्तःप्रतिष्ठितः । यवारकस्तम्ब इव, भद्रकृज्जिनजन्मनि ॥ २४९ ॥ चत्वारिंशद्योजनानि, तुङ्गत्वेन भवेदसौ । द्वादशैव योजनानि, मूले विष्कम्भतो मता ॥ २५० ॥ मध्ये च योजनान्यष्टौ, चत्वार्युपरि विस्तृता । उदस्तादुत्थगोपुच्छसुस्थसंस्थानशालिनी ॥ २५१ ॥ सप्तत्रिंशद्योजनानि, सातिरेकाणि किञ्चन । मूलेऽस्या परिधिर्मध्ये, साधिका पञ्चविंशतिः ॥ २५२ ॥ साधिकानि द्वादशैतत्परिक्षेप उपर्यथ । व्यासानुसारतो भाव्योऽन्यत्रापि परिधिर्बुधैः ॥ २५३ ॥ अर्थतस्यां चूलिकायामुत्क्रान्ते योजनादिके । मूलात्तत्पञ्चमलवः, क्षीयते मूलविस्तृतेः ॥ २५४ ॥ मेरोर्यथैकादशभिर्योजनैः योजनं हसेत् । क्षीयते योजनं तद्वत्, पञ्चभिर्योजनैरिह ॥ २५५ ॥ उत्क्रान्तायां मूलभागाद्यथा योजनविंशतौ । विंशतेः पञ्चमो भागः, स्याच्चतुर्योजनात्मकः ॥ २५६ ॥ तस्मिंश्च मूलविष्कम्भादपनीते भवेदिह । विष्कम्भो योजनान्यष्टावित्थं सर्वत्र भावना ॥ २५७ ॥ यद्धा मौलेरतिक्रान्तमधो यद्योजनादिकम् । विभक्ते पञ्चभिस्तस्मिन्, लब्धे चतुर्भिरन्विते ॥ २५८ ॥ जायतेऽभीप्सिते स्थाने, विष्कम्भोऽत्र यथोर्ध्वतः । अपक्रान्तौ योजनानां, विंशतेः स विभाव्यते ॥ २५९ ॥ विंशतेः पञ्चभिर्भागे, योजनानां चतुष्टयी । लब्धा चतुभिर्युक्ताऽष्टौ, योजनानीति भावना ॥ २६० ॥ असौ पद्मवेदिकया, परीता काननेन च । सहकारलतेवोच्चैरालवालेन राजते ॥ २६१ ॥