SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ 267 शतान्यर्द्धतृतीयानि, मध्ये विष्कम्भतो मता । अर्धचन्द्राकृतेस्तस्या, मध्ये परमविस्तृतिः ॥ २११ ।। पूर्वापरः शरत्वेन, व्यासोऽस्यां परमो बुधैः । जीवात्वेन च परमायामस्तु दक्षिणोत्तरः ।। २१२ ॥ परिक्षेपो धनुः पृष्ठतया भाव्यो यथोचितः । तत्तत्करणरीत्या वा, समानेयं शरादिकम् ॥ २१३ ॥ चतुर्योजनपिण्डायामस्यां भाति चतुर्दिशम् । तोरणालङ्कृतं कम्रे, सोपानानां त्रयं त्रयम् ॥ २१४ ॥ अधिज्यचापाकाराया, वक्रता चूलिकादिशि । ऋजुता स्वस्वदिक् क्षेत्राभिमुखास्या विभाव्यताम् ।। २१५ ॥ अत्यन्तकमनीयायामस्यां वृन्दारकव्रजाः । आसीनाश्च शयानाश्च विदन्ति परमां मुदम् ॥ २१६ ॥ वेदिकावनखण्डाभ्यां, समन्तादियमावृता । काञ्चीदामनीलपरिधानाभ्यामिव कामिनी ॥ २१७ ॥ दक्षिणस्यामुदीच्यां च तस्यां सिंहासने स्थिते । धनुः पञ्चशतव्यासायामे तदर्द्धमेदुरे ॥ २१८ ।। ज्ञेयो ग्रन्थान्तरात् सिंहासनयोरिह वर्णकः । अनावृतस्थलस्थानादेषां चन्द्रोदयं विना ॥ २१९ ॥ तुल्यत्वादनयोर्व्यासायामाभ्यां चतुरस्रता । चतुरस्रपीठबन्धरूपे ज्ञेये इमे ततः ।। २२० ।। औत्तराहे तत्र सिंहासने देवाश्चतुर्विधाः । अभिषिञ्चन्ति कच्छादिविजयाष्टकतीर्थपान् ॥ २२१॥ सिंहासने दाक्षिणात्ये, विजयेषु किलाष्टसु । वत्सादिकेषु संजातान्, स्नपयन्ति जिनेश्वरान् ॥ २२२ ॥ अयं भावः शिलायाः संमुखं ह्यस्या:, पूर्वस्यां दिशि वर्तते । क्षेत्रं पूर्वविदेहाख्यं, विजयास्तत्र षोडश ॥ २२३ ॥ उत्कर्षतोऽपि तत्र द्वौ, जायेते युगपज्जिनौ । तत्र शीतोत्तराभाविविजयाष्टकजो जिनः ॥ २२४॥ सिंहासने सुराधीशैरौत्तराहेऽभिषिच्यते । दाक्षिणात्ये दाक्षिणात्यविजयाष्टकजो जिनः ॥ २२५ ॥ एवं भाव्यं पश्चिमायामपि सिंहासनद्वयम् । प्रत्यक्विदेहार्हद्योग्यं, दक्षिणोत्तरयोर्दिशोः ॥ २२६ ॥ तदेकैकं दाक्षिणात्योदीच्ययोः शिलयोः किल । यद्भारतैरवतयोरेकैकस्यार्हतो जनिः ॥ २२७ ॥ वनस्याथो दाक्षिणात्यपर्यन्ते पाण्डुकम्बला । दक्षिणस्यां दिशि मेरुचूलिकायाः प्रतिष्ठिता ॥ २२८ ॥ दक्षिणोत्तरविस्तीर्णा, प्राक्पश्चिमायता च सा । ऋजुताऽस्या दक्षिणस्यां वक्रता चूलिकादिशि ।। २२९ ॥ उपर्यस्या मध्यभागे, सिंहासनमनुत्तरम् । सुरेन्द्रैस्तत्र भरतजातो जिनोऽभिषिच्यते ॥ २३० ॥ अमुष्या दक्षिणामुख्याः, सम्मुखं भरतं यतः । ततस्तत्रत्यसार्वस्य युक्तमत्राभिषेचनम् ॥ २३१ ॥ शेषं तु मानसंस्थानसोपानवेदिकादिकम् । सर्वासामपि विज्ञेयमविशेषेण पाण्डुवत् ॥ २३२ ॥ वर्णतश्चोक्तरूपे द्वे, कुमुदोदरसोदरे । वक्ष्यमाणे पुनः कोकनदविद्रुमबन्धुरे ॥ २३३ ॥ अयं तावत् जम्बूद्वीपप्रज्ञप्तिसूत्रवृत्त्यभिप्राय: ॥ बृहत्क्षेत्रसमाससूत्रवृत्तौ तु सर्वाः श्वेतसुवर्णमय्य उक्ता इति ज्ञेयं ॥ वनपश्चिमपर्यन्ते, शिला रक्तशिलाभिधा । प्रतीच्यां मेरुचूलायास्तपनीयमयी मता ॥ २३४ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy