SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ 265 आह ॥ नन्दनवने बलकूटम् । नन्दनवनं च पञ्चयोजनशतविस्तीर्णायां मेरोः प्रथममेखलायां । ततः कथं तत्र माति ? उच्यते, बलकूटेन पञ्चयोजनशतानि नन्दनवनसत्कानि रुद्धानि पञ्चयोजनशतानि पुनरोर्बहिराकाशे । ततो न कश्चिद्दोषः ॥ उक्तं च, नंदनवण रुभित्ता, पंचसए जोअणाई नीसरिओ । आयासे पंचसए, रुंभित्ता ठाइ बलकूडो ॥ इति बृहत् क्षेत्रसमासवृत्तौ ॥ जम्बूद्धीपप्रज्ञप्तिसूत्रवृत्तौ तु मेरुतः पंचाशद्योजनातिक्रमे ईशानकोणे ऐशानप्रासादः ततोऽपीशानकोणे बलकूटमित्युक्तम् ॥ तदभिप्रायं न विद्मः ॥ माल्यवगिरिसम्बन्धिहरिस्सहायकूटवत् । सर्वात्मनेदं विज्ञेयं, व्यासायामोच्चतादिभिः ॥ १६७ ॥ बलनामा सुरस्तत्र, स्वामी तद्राजधान्यपि । मेरोरुत्तरपूर्वस्यां, जम्बूद्धीपेऽपरे मता ॥ १६८ ॥ बलाख्याया राजधान्याः, स्वरूपमखिलं खलु । हरिस्सहायाः सदृशं, विज्ञेयमविशेषितम् ॥ १६९ ॥ गच्छद्भिश्चैत्यनत्यर्थं, पाण्डकेऽदो वनं पथि । विश्रान्त्यै श्रीयते विद्याचारणैर्मुनिवारणैः ॥ १७० ॥ प्रत्यागच्छद्भिरानम्य, पाण्डके शाश्वतान् जिनान् । विश्राम्यद्भिर्भूष्यतेऽदो, जङ्याचारणसाधुभिः ॥ १७१ ॥ अथास्य नन्दनाभिख्यवनस्य समभूतलात् । योजनानां सहस्राणि, द्वाषष्टि पञ्चभिः शतैः ॥ १७२ ॥ समन्वितान्यतीत्यास्ति, वनं सौमनसाभिधम् । योजनानां पञ्चशती, विस्तीर्णं सर्वतोऽपि तत् ॥ १७३ ॥ अस्मिन्नपि परिक्षिप्य, स्थिते मेरुं समन्ततः । वक्ष्ये बाह्यान्तररूपौ, विष्कम्भौ पूर्ववगिरेः ॥ १७४ ॥ योजनानां सहस्राणि, चत्वारि द्वे शते अपि । द्विसप्तत्यधिके भागा, अष्टावेकादशोद्भवाः ॥ १७५ ॥ बहिर्वनाद्गिरेासः, एष पूर्वापरान्तयोः । दक्षिणोत्तरयोर्वापि, तत्रोपपत्तिरुच्यते ॥ १७६ ॥ मेरुच्छ्रयस्यातीतानि, भुवः सौमनसावधि । त्रिषष्टिोजनसहस्राणि रुदैर्भजेद्बुधः ॥ १७७ ॥ शतानि सप्तपञ्चाशत्, सप्तविंशानि तत्र च । लब्धानि योजनान्यंशास्त्रयश्चैकादशोद्भवाः ॥ १७८ ॥ अस्मिन् राशौ भूमिगतान्मेरुव्यासाद्विशोधिते । मानं यथोक्तं जायेत, बाह्यायाः गिरिविस्तृतेः ॥ १७९ ॥ व्यासो वनस्योभयत:, पञ्चपञ्चशतात्मकः । बाह्यव्यासात्तत्सहनै, शोधिते शेषमान्तरः ॥ १८० ॥ स चायम् । योजनानां सहस्राणि, त्रीणि किञ्च शतद्वयम् । द्विसप्तत्यधिकं भागारष्ट चैकादशोद्भवाः ॥ १८१ ॥ तथा गिर्खाह्यपरिक्षेपः, त्रयोदशसहस्रकाः । एकादशा: शता: पञ्च, षट् चैकादशजा लवा: ॥ १८२ ॥ अन्तर्गिरिपरिक्षेपः, सहस्राणि दश त्रयः । शताश्चैकोनपञ्चाशास्त्रयो भागाश्च रुद्रजाः ॥ १८३ ॥ एवमुक्ताभिलापेन, ज्ञेया वक्तव्यताऽखिला । अत्रापि नन्दनाभिख्यवनवत् कूटवर्जिता ॥ १८४ ॥ तथैवैकैकमाशासु, विज्ञेयं सिद्धमन्दिरम् । विदिक्षु पुनरेकैकः, प्रासादो वापिकावृतः ॥ १८५ ॥ १ ईशानेशास्यैशानत्वाविरोधात् न भिन्नता, सहस्रदीर्घत्वाच्चास्य न तथात्वाभावः ।
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy