________________
264
अपाच्यसिद्धायतनात्प्रतीच्यां पूर्वतः पुनः । प्रासादान्नैर्ऋतीनिष्ठात्, कूटं हैमवतं स्थितम् ॥ १५१ ॥ शोभते स्वामिनी तत्र, देवता मेघमालिनी । जम्बूद्धीपेऽन्यत्र तस्या, मेरुतो राजधान्यपाक् ॥ १५२ ॥ मेघमालिनीस्थाने हेममालिनीति जम्बूद्वीपप्रज्ञप्तिसूत्रे ॥ दक्षिणस्यां प्रतीचीनात्, सिद्धायतनतस्तथा । प्रासादान्नेर्ऋतीनिष्ठादुदीच्यां रजताभिधम् ॥ १५३ ॥ सुवत्सा देवता तत्र, प्रतीच्यां कनकाचलात् । जम्बूद्वीपेऽन्यत्र तस्या, राजधानी निरूपिता ॥ १५४ ॥ उत्तरस्यां प्रतीचीनात्, सिद्धायतनतस्तथा । वायव्यकोणप्रासादादपाच्यां रुचकाभिधम् ॥ १५५ ॥ वत्समित्रा तत्र देवी, पश्चिमायां सुमेरुतः । जम्बूद्धीपेऽन्यत्र तस्या, राजधानी जिनैः स्मृता ॥ १५६ ॥
एवं च जम्बूदीपप्रज्ञप्तिसूत्रवृत्ति-बृहत्क्षेत्रसमाससृत्रवृत्ति-सिरिनिलयक्षेत्रसमाससूत्रवृत्त्यायभिप्रायेण सौमनसगजदन्तसम्बन्धिपञ्चमकूटषष्ठकूटवासिन्यौ नन्दनवनपञ्चमकूटषष्ठकूटवासिन्यौ च दिक्कुमायौ तुल्याख्ये एव ॥ स्थानाङ्गसूत्रकल्पान्तर्वाच्यटीकादिषु तु ऊर्ध्वलोकवासिनीषु
सुवत्सावत्समित्रास्थाने तोयधाराविचित्रे दृश्येते ॥ उदीच्यसिद्धायतनात्, प्रतीच्यामथ पूर्वतः । प्रासादादायुकोणस्थात्, कूटं सागरचित्रकम् ॥ १५७ ॥ बलाहका तत्र देवी, मेरोरुत्तरत: पुन: । जम्बूद्धीपेऽन्यत्र तस्या, राजधानी जिना जगुः ॥ १५८ ॥ उदीच्यसिद्धायतनात्, प्राच्या वायव्यकोणजात् । प्रासादात् पश्चिमायां च, वज्रकूटमिहान्तरे ॥ १५९ ॥ वज्रसेना तत्र देवी, राजधानी सुमेरुतः । उत्तरस्यामन्यजम्बूद्वीपे ज्ञेया यथागमम् ॥ १६० ॥
अयं तावत् क्षेत्रसमासबृहद्वृत्त्यभिप्रायः ॥ जम्बूद्वीपप्रज्ञप्तिसूत्रे च सागरचित्रकूटे वज्रसेना देवी, वज्रकूटे बलाहका देवी पठ्यते इति ज्ञेयम् ॥ तथा क्षेत्रसमाससूत्रे वारिसेणेति पाठः । किरणावल्यादावपि वारिषेणेति । जम्बूद्वीपप्रज्ञप्तिसूत्रे वइरसेणेति । बृहत्क्षेत्रसमासवृत्तौ च
वज्रसेनेति नाम । इति ज्ञेयम् ॥ एता अष्टाप्यूद्मलोकवासिन्यो दिक्कुमारिकाः । सुगन्ध्यम्बुपुष्पवृष्टि, कुर्वन्ति जिनजन्मनि ॥ १६१ ॥ भद्रशालवनकूटतुल्यत्वेन भवन्त्यमी । मूले पञ्चयोजनानां, शतान्यायतविस्तृताः ॥ १६२ ॥ वनेऽपि पञ्चशतिके पञ्चाशद्योजनोत्तरम् । स्थितेरेषां स्थितिः किञ्चिदाकाशे बलकूटवत् ॥ १६३ ॥ अत्रैव नन्दनवने, सुधाशनधराधरात् । ऐशान्यां विदिशि प्रोक्तं, बलकूटं जिनेश्वरैः ॥ १६४ ॥
- तथोक्तं जम्बूद्धीपप्रज्ञप्तिसूत्रे । मंदरस्सणं पव्वयस्स उत्तरपुरच्छिमेणं एत्थ णं णंदणवणे
बलकूडे णामं कूडे पण्णत्ते ॥ इत्यादि ॥ विदिशोऽपि विशाला: स्युर्महतो वस्तुनः किल । तद् घटेतावकाशोऽत्र, प्रासादबलकूटयोः ॥ १६५ ॥ अर्धेन नन्दनवने, कूटमेतदवस्थितम् । अपरार्द्धन चाकाशे, तदुक्तं पूर्वसूरिभिः ॥ १६६ ॥