________________
263
बाह्याभ्यन्तररूपं हि, विष्कम्भद्वितयं भवेत् । गिरीणां मेखलाभागे, ततोऽत्र द्वयमुच्यते ॥ १२५ ॥ एक एकादशभागो, योजनस्यापचीयते । प्रतियोजनमेवं च पञ्चशत्या व्यतिक्रमे ।। १२६ ।। लब्धानि पञ्चचत्वारिंशद्योजनानि पञ्चभि: । एकादशांशैर्युक्तानि त्यज्यन्ते मूलविस्तृतेः ॥ १२७ ॥ दशसहस्ररूपायास्तदैतदवशिष्यते 1 शतानि नवनवतिश्चतुष्पञ्चाशदेव च ।। १२८ ।। एकादशांशाः षट् बाह्यो, व्यासोऽयं तत्र भूभृत: । दक्षिणोत्तरयोः पूर्वापरयोर्वा वनान्तयोः ॥ १२९ ॥ एकत्रिंशद्योजनानां, सहस्राणि चतुःशती । एकोनाशीतिरधिका, परिक्षेपोऽत्र बाह्यतः ।। १३० ॥ बाह्ये च गिरिविष्कम्भे, सहस्रयोजनोनिते । स्यादन्तर्गिरिविष्कम्भः, स चायं परिभाव्यते ॥ १३१ ॥ सहस्राणि योजनानामष्टौ नव शतानि च । चतुःपञ्चाशत्तथांशाः, षडेकादशनिर्मिताः ॥ १३२ ॥ सहस्रा योजनान्यष्टाविंशतिस्त्रिशती तथा । षोडशाढ्या तथा भागा, अष्टावेकादशोत्थिताः ॥ १३३ ॥ अन्तः परिरयोऽयं च भवेदस्मिन् वने गिरेः । वनमेतदथो पद्मवेदिकावनवेष्टितम् ॥ १३४ ॥ एवं चत्वार्यपि वनानि ज्ञेयानि ॥
सिद्धायतनमेकैकं पूर्वादिदिक् चतुष्टये । सुवर्णशैलतः पञ्चाशद्योजनव्यतिक्रमे ।। १३५ ।। विदिक्षु तावतैवास्मात्, प्रासादा भद्रशालवत् । तेषां चतुर्दिशं वाप्यः, प्रत्येकमिति षोडश ॥ १३६ ॥ नन्दोत्तरा तथा नन्दा, सुनन्दा वर्धनापि च । ऐशान्यां विदिशि प्राहुर्वापीनामानि सत्तमाः ।। १३७ ॥ नन्दिषेणा तथाऽमोघा, गोस्तूपा च सुदर्शना । आग्नेय्यां विदिशि प्राहुर्वापीनामानि सत्तमाः ॥ १३८ ॥ भद्रा विशाला कुमुदा, तथा च पुण्डरीकिणी । नैर्ऋत्यां विदिशि प्राहुर्वापीनामानि सत्तमाः ॥ १३९ ॥ विजया वैजयन्ती चापराजिता जयन्त्यपि । वायव्यां विदिशि प्राहुर्वापीनामानि सत्तमाः ॥ १४० ॥ स्युश्चतस्रश्चतस्रस्ताः, पूर्वादिदिगनुक्रमात् । स्थिताः परीत्य परितः, प्रासादांस्तान् विदिग्गतान् ॥ १४१ ॥ आग्नेय्यामथ नैर्ऋत्यां प्रासादौ शक्रभर्तुकौ । वायव्यामथ चैशान्यां तावीशानसुरेशितुः ॥ १४२ ॥ कूटा नव भवन्त्यत्र, नन्दनाख्यं च मन्दरम् । निषधाख्यं च हिमवत्कूटं रजतनामकम् ॥ १४३ ॥ रुचकं सागरचित्रं, कूटं वज्रबलाभिधम् । पञ्चाशता योजनैः स्युर्मेरोरेतानि नन्दने ॥ १४४ ॥ पौरस्त्यसिद्धायतनैशानीप्रासादयोः किल अन्तरे नन्दनं कूटं तत्र मेघङ्करा सुरी ॥ १४५ ॥ जम्बूद्वीपेऽपरत्रास्या, राजधानी सुमेरुतः । ऐशान्यां विदिशि प्रोक्ता, यथार्हं विजयादिवत् ॥ १४६ ॥ पौरस्त्यसिद्धायतनाग्नेयीप्रासादयोः किल । अन्तरे मन्दरं कूटं तत्र मेघवती सुरी ॥ १४७ ॥ राजधानी पुनरस्याः, पूर्वस्यां मेरुतो मता । जम्बूद्वीपेऽन्यत्र यथास्थानं विजयदेववत् ॥ १४८ ॥ अपाच्यसिद्धायतनाग्नेयीप्रासादयोः किल । अपान्तराले निषधं, सुमेघा तत्र देवता ॥ १५९ ॥ मेरोर्दक्षिणतस्तस्या, राजधानीं जगुर्बुधाः । सहस्रान् द्वादशातीत्य, जम्बूद्वीपेऽपस्त्र वै ॥ १५० ॥