________________
262
तथाहि वृद्धसंप्रदायः । भद्रशालवने मेरोश्चतस्रोऽपि दिशः किल । नदीप्रवाहै रुद्धाः तद्दिक्ष्वेवार्हद्गृहाणि न ॥ १०१ ॥ किन्तु नद्यन्तिकस्थानि, भवनानि किलार्हताम् । गजदन्तसमीपस्थाः, प्रासादाश्च बिडौजसाम् ॥ १०२ ॥ तदन्तरालेष्वष्टासु, करिकूटा यथोदिताः । दर्शितः स्थाननियमस्तत्राप्येष विशेषतः ॥ १०३ ॥ बहिरुत्तरकुरुभ्यो, मेरोरुत्तरपूर्वतः । शीताया उत्तरदिशि, प्रासादः परिकीर्तितः ॥ १०४ ॥ मेरोः प्राच्या दक्षिणतः, शीतायाः सिद्धमन्दिरम् । एतस्योभयत: कूटौ, द्धौ प्रज्ञप्तौ जिनेश्वरैः ॥ १०५ ॥ बहिर्देवकुरूणां च, मेरोदक्षिणपूर्वतः । शीताया दक्षिणदिशि, प्रासादः कीर्तितो जिनैः ॥ १०६ ॥ मध्ये देवकुरुणां वै, शीतोदायाश्च पूर्वतः । मेरोदक्षिणतः सिद्धायतनं स्मृतमागमे ॥ १०७ ॥ अस्याप्युभयत: कूटौ, समश्रेण्या व्यवस्थितौ । धुर्यो युगन्धरस्येव, महीन्द्रस्येव चामरौ ॥ १०८ ॥ शीतोदाया दक्षिणतो, नैर्ऋत्यां स्वर्णभूभृतः । बहिर्देवकुरूणां च, प्रासादः प्राग्वदाहितः ॥ १०९ ॥ शीतोदाया उत्तरतः, पश्चिमायां सुमेरुत: । सिद्धानां सदनं कूटौ, तस्याप्युभयत: स्थितौ ॥ ११० ॥ शीतोदाया उत्तरतो, वायुकोणे सुमेरुतः । बहिरुत्तरकुरुभ्यः, प्रासादः सुरभूभृतः ॥ १११ ॥ शीतानद्याः पश्चिमायामुदीच्यां मन्दराचलात् । उत्तरासां कुरूणां च, मध्येऽस्ति सिद्धमन्दिरम् ॥ ११२ ॥ कूटौ द्रौ तदुभयतो, मेरोः सर्वेऽप्यमी स्थिताः । विहारकूटप्रासादाः, पञ्चाशद्योजनान्तरे ॥ ११३ ॥ योजनानां पञ्चशतान्युच्चैस्त्वेन भवन्त्यमी । गव्यूतानां पञ्चशती, निमग्नाश्च धरोदरे ॥ ११४ ॥ मूले पञ्च योजनानां, शतान्यायतविस्तृताः । मध्ये त्रीणि पञ्चसप्तत्यधिकानि शतानि च ॥ ११५ ।। उपर्यर्द्धतृतीयानि, शतानि विस्तृतायताः । कूटा इमे वर्षधरगिरिकूटसमा इति ॥ ११६ ॥ सर्वेऽमी वनखण्डेन, पद्मवेदिकयान्विताः । सिंहासनाढ्यस्वस्वेशप्रासादभ्राजिमौलयः ॥ ११७ ॥ द्वाषष्टिं योजनान्येते, प्रासादा विस्तृतायताः । एकत्रिंशद्योजनोच्चाः, रम्या विविधरत्नजाः ॥ ११८ ॥ एकपल्यायुषस्तेषु, स्वस्वकूटसमाभिधाः । क्रीडन्ति नाकिन: स्वैरं, दिक्कुम्भिकूटनायकाः ॥ ११९ ॥ स्वस्वकूटविदिश्वेषां, राजधान्यः प्रकीर्तिताः । जम्बूद्वीपेऽन्यत्र यथायोगं विजयदेववत् ॥ १२० ॥ एतेषु करिकूटेषु, पूर्वाचार्यश्चिरन्तनैः । पठ्यन्ते जिनचैत्यानि, स्तोत्रेषु शाश्वतार्हताम् ॥ १२१ ॥ जम्बूदीपप्रज्ञप्त्यादिसूत्रे तूपलभामहे । न साम्प्रतं तत्र तत्त्वं, जानन्ति श्रुतपारगाः ॥ १२२ ॥ ___अत एवोक्तं रत्नशेखरसूरिभिः स्वोपज्ञक्षेत्रविचारे । करिकूडकुंडनइदहकुरुकंचण
जमलसमविअड्ढेसु । जिणभवणविसंवाओ, जो तं जाणंति गीयत्था ॥ [लघुक्षेत्रसमास गा. ७८] भद्रशालवनस्यास्य, समभूमेरुपर्यथ । स्यात्पञ्चयोजनशतातिक्रमे नन्दनं वनम् ॥ १२३ ॥ योजनानां पञ्चशतान्येतद्विष्कम्भतो मतम् । स्थितं मेरुं परिक्षिप्य, वलयाकृतिनाऽऽत्मना ॥ १२४ ॥