SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ 261 पूर्वस्यां पश्चिमायां वा, य आयामोऽस्य वर्णित: । सोऽष्टाशीत्या विभक्तः सन्, विस्तारोऽत्रैकपार्श्वतः ॥ ७६ ॥ किञ्च उदीच्यो दाक्षिणात्यो वा, विस्तारोऽस्य वनस्य यः । सोऽष्टाशीत्या ताडित: सन्नायामोऽस्यैकपार्थतः ॥ ७७ ॥ भद्रशालवनं चैतदष्टधा विहितं किल । शीतोदया शीतया च, गजदन्ताद्रिमेरुभिः ॥७८ ॥ तथाहि, एको भागो मन्दरस्य, प्राच्या पश्चिमतः परः । विद्युत्प्रभसौमनसमध्येऽपाच्यां तृतीयकः ॥७९॥ तुर्यश्चोत्तरतो माल्यवद्गन्धमादनान्तरे । भागाः सर्वेऽप्यमी शीताशीतोदाभ्यां द्विधाकृताः ॥ ८॥ तच्चैवम्, उदीच्यांशो द्विधा चक्रे, शीतया प्राक्प्रवृत्तया । प्राची प्रति प्रस्थितया, प्राकखण्डोऽपि द्विधाकृतः ॥ ८१ ॥ शीतोदया याम्यखण्डो, द्विधोदग्गतया कृतः । द्विधा पश्चिमखण्डोऽपि, कृतः प्रत्यक्प्रवृत्तया ॥ ८२ ॥ इत्येवमष्टभागेऽस्मिन्, मेरोदिक्षु चतसृषु । सिद्धायतनमेकैकं, पञ्चाशद्योजनोत्तरम् ॥ ८३ ॥ उक्तान्येतानि हिमवच्चैत्यतुल्यानि सर्वथा । स्वरूपतो मानतश्च, सेवितानि सुरासुरैः ॥ ८४ ॥ विदिक्षु पुनरेकैकः, प्रासादस्तावदन्तरे । योजनानां पञ्च शतान्युच्चोऽर्धं विस्तृतायत: ॥ ५ ॥ चतुर्दिशं चतसृभिस्ते वापीभिरलङ्कृताः । योजनानि दशोद्विद्धास्ताः षोडशापि वापिका: ॥ ८६ ॥ पञ्चाशयोजनायामा, आयामार्धं च विस्तृताः । स्वरूपतो नामतश्च, जम्बूवापीसमाः समाः ॥ ८७ ॥ आग्नेय्यामथ नैर्ऋत्यां, यौ प्रासादौ प्रतिष्ठितौ । तौ सौधर्मसुरेन्द्रस्य, तदर्हासनशालिनौ ॥ ८८ ॥ वायव्यामथ चैशान्यां, यौ प्रासादौ प्ररूपितौ । तावीशानसुरेन्द्रस्य, तद्योग्यासनशोभनौ ॥८॥ अष्टौ दिग्गजकूटानि, वनेऽस्मिन् जगदुर्जिनाः । गजाकृतीनि कवयो, यान्याहुर्दिग्गजा इति ॥ ९० ॥ पद्मोत्तरो नीलवांश्च, सुहस्त्यथाजनागिरिः । कुमुदश्च पलाशश्च वतंसो रोचनागिरिः ॥ ९१ ॥ अन्ये-तु रोचनागिरिस्थाने रोहणागिरिं पठन्ति ॥ मेरोरुत्तरपूर्वस्यां, शीतायाः सरितः पुनः । गच्छन्त्याः प्रागभिमुखमुत्तरस्यामिहादिमः ॥ ९२ ॥ प्रादक्षिण्यक्रमेणाथ, मेरोदक्षिणपूर्वतः । शीतायाः प्राक्प्रवृत्ताया, दक्षिणस्यां च नीलवान् ॥ ९३ ॥ मेरोदक्षिणपूर्वस्यां, शीतोदायाश्च पूर्वत: । मेरोदक्षिणदिक्स्थायाः, सुहस्ती नाम दिग्गजः ॥ ९४ ॥ अञ्जनो नाम दिग्नागो, नैर्ऋत्यां मेरुभूधरात् । शीतोदाया: पश्चिमतः, प्रयान्त्यारुत्तरां प्रति ॥ १५ ॥ दिग्नाग: कुमुदोऽप्येवं, नैर्ऋत्यामेव मेरुत । शीतोदाया: दक्षिणतः, प्रयान्त्या वारुणीं प्रति ॥ ९६ ॥ उत्तरापरतो मेरोः, पलाशो नाम दिग्गजः । पश्चिमाभिमुखं यान्त्याः, शीतोदाया उदक् च सः ॥ ९७ ॥ अथावतंसकोऽप्येवं, वायुकोणे सुमेरुतः । स शीतायाः पश्चिमतः, प्रयान्त्या दक्षिणां प्रति ॥ ९८ ॥ मेरोरुत्तरपूर्वस्यामष्टमो रोचनाचल: । दक्षिणाभिमुखं यान्त्याः, शीतायाः पूर्वतश्च सः ॥ ९९ ॥ एकैकस्यां विदिश्येवं, द्वौ द्रौ कूटौ निरूपितौ । प्रासादसिद्धायतनान्तरालेषु किलाष्टसु ॥ १०० ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy