SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ 260 प्रत्येकं परितः पञ्चशतविस्तृतयोर्ननु । नन्दनसौमनसयोः, सद्भावात् मेखलाद्धये ॥ ५७ ॥ योजनानां सहस्रस्य, द्वि भवेत् युगपत् त्रुटिः । कथमेकादशभागहानिस्तदुपपद्यते ? ॥ ५८ ॥ अत्रोच्यते कर्णगत्या, समाधेयमिदं बुधैः । का कर्णगतिरित्येवं, यदि पृच्छसि तत् श्रुणु ॥ ५९॥ कन्दादारभ्य शिखरं, यावत्तदुभयस्पृशि । दत्तायां दवरिकायां, स्थिरहस्तेन धीमता ॥ ६० ॥ अपान्तराले यत् क्वापि, कियदाकाशमास्थितम् । तत् समग्रं कर्णगत्या, मेरोराभाव्यमित्यत: ॥ ६१ ॥ तत् प्रकल्प्य मेरुतया, प्राहुर्गणितकोविदाः । सर्वत्रैकादशभागपरिहाणिं यथोदिताम् ॥ ६२ ॥ ___ अयं चार्थः श्रीजिनभद्रगणिक्षमाश्रमणपूज्यैरपि विशेषणवत्यां लवणोदधिधन गणितनिरूपणावसरे दृष्टान्तद्वारेण ज्ञापित एव ॥ अतोऽयं मेखलायुग्माविवक्षया क्रमात्तनुः । मूले च विस्तृतः सुष्ठूदस्तगोपूच्छसंस्थितः ॥ ६३ ॥ अथात्र त्रीणि काण्डानि, वर्तन्ते कनकाचले । काण्डं विभागो नियतविशिष्टपरिणामवान् ॥ ६४ ॥ चतुर्विधं काण्डमाद्यं, मृत्तिकाबहुलं क्वचित् । पाषाणबहुलं वज्रबहुलं शर्करामयम् ॥६५॥ काण्डं द्वितीयमप्येवं, चतुर्धाऽस्य निरूपितम् । अङ्कजं स्फाटिकं क्वापि, सौवर्णं राजतं तथा ॥ ६६ ॥ जात्यजाम्बूनदमयं, तृतीयं काण्डमीरितम् । त्रयाणामपि काण्डानां, परिमाणमथोच्यते ॥६७ ॥ सहस्रयोजनोन्मानमाद्यमारभ्य कन्दतः । त्रिषष्टिश्च सहस्राणि, द्वितीयं समभूतलात् ॥ ६८ ॥ ततस्तृतीयं षट्त्रिंशत्सहस्रावधि कीर्तितम् । एवं काण्डैस्त्रिभिस्तस्य लक्षमेकं समाप्यते ॥ ६ ॥ अयं जम्बूद्धीपप्रज्ञप्तिसूत्राभिप्रायः ॥ समवायाङ्गे त्वष्टत्रिंशत्तमे समवाये द्वितीयविभागरष्टत्रिंशद्योजनसहस्राण्युच्चत्वेन भवतीत्युक्तमिति ज्ञेयं ॥ चतुर्विधत्वे नन्वेवमाद्यद्वितीयकाण्डयोः । मृत्तिकादिविभागानां, न पृथक्काण्डता कथम् ॥ ७० ॥ अत्रोच्यते । पृथ्यादिवस्तुजत्वेऽपि, नैयत्येनोक्तकाण्डयोः । पृथ्व्यादिरूपभागानामविवेकात् न काण्डता ॥ ७१ ॥ चतुर्भिश्चायमभितो, वनखण्डैरलङ्कृतः । दानशीलतपोभावैः, जैनधर्म इवोन्नतः ॥ ७२ ॥ तत्र भूमौ भद्रशालं, क्रमात् मेखलयोर्द्धयोः । नन्दनं सौमनसं च, शिखरे. पण्डकं वनम् ॥७३॥ तत्राद्यं भद्रशालाख्यं, मेरोः पश्चिमपूर्वतः । द्वाविंशतिविंशतिः, सहस्राण्यायतं मतम् ॥७४ ॥ साढे द्वे योजनशते, दक्षिणोत्तरविस्तृतम् । स्थितं मेरुं परिक्षिप्य, वलयाकृतिनात्मना ॥७५ ॥ अत्रेयमुपपत्तिः । १ बहिर्दृश्यमेवपेक्षया द्वितीयः, तथा च मूलापेक्षया तृतीय: कर्णदवरिकापेक्षया च ग्रहणं उच्चत्वस्य, दवरिकान्तौ च सौमनसबाहापरिधौ चूलामध्ये च, व्यवहारेण साधिकसप्तत्रिंशत्यपि तथोक्तिन विरुद्धा ।
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy