SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ 259 गुण्यं तदेकादशभिर्यद्भवेत्तत्प्रमाणत: । उच्चत्वमस्य विष्कम्भस्यानुसारेण तद्यथा ॥ ३३ ॥ योजनानां सहस्राणि, दश व्यासोऽस्य भूतले । मूलविष्कम्भतस्तेषु, विशोधितेष्वदः स्थितम् ॥ ३४ ॥ नवतिर्योजनान्यंशा, दश चैकादशात्मका: । अस्मिन्नैकादशगुणे, सहस्रमियमुच्चता ॥ ३५ ॥ मूलभूतलयोर्मध्ये, सर्वत्रैवं विभाव्यताम् । विस्तारस्यानुसारेण, तुङ्गत्वमीप्सितास्पदे ॥ ३६॥ अथ सर्वत्र विष्कम्भवृद्धिहानिज्ञानाय करणम् । उपरितने विस्तारेऽधस्तनविस्तारतः कृते दूरम् । तन्मध्यवर्तिशैलोच्छ्रयेण शेषे हृते विदुषा ॥ ३७ ॥ यल्लब्धं तदुभयतो, वृद्धिर्गिरिमौलितो ह्यध:पतने । तावत्येव च हानिमौलावारोहणेऽधस्त: ॥ ३८ ॥ तथाहि, साहौमौलिविष्कम्भे, कन्दव्यासाद्विशोधिते । शेषं नवत्यधिकानि, शतानि नवतिः स्थितम् ॥ ३९ ॥ अंशा दशैकादशोत्थाश्चैषां कर्तुं सवर्णनम् । योजनानां राशिमेकादशभिर्गुणयेत् बुधः ॥४०॥ भागान् दशोपरितनान्, क्षिपेज्जाता इमे ततः । लक्षं भाज्यराशिमेनं, क्वचित् संस्थापयेत् बुधः ॥ ४१ ॥ नगोच्छ्रयो लक्षरूपो, भाजको रुद्रसंगुण: । लक्षाण्येकादश जातस्तं भागार्थमधो न्यसेत् ॥ ४२ ॥ अल्पत्वेन विभाज्यस्य, भूयस्त्वात् भाजकस्य च । भागाप्राप्त्यापवय॑ते, लक्षेण भाज्यभाजकौ ॥ ४३ ॥ उपर्येकः स्थितोऽधस्तादेकादश स्थितास्ततः । लब्ध एकादश भागो, योजनं योजनं प्रति ॥ ४४ ॥ यदा भाज्यभाजकयोरुभयोर्लक्षरूपयोः । राशि: भाज्योऽशरूपोऽस्ति, भाजको योजनात्मकः ॥ ४५ ॥ प्रतियोजनमेकोऽशस्तत्सुखेनैव लभ्यते । इयं मेरोरुभयतो, वृद्धिहानी निरूपिते ॥४६॥ ज्ञातुमिष्टे वृद्धिहानी, तत्र यद्येकपार्श्वत: । द्वाविंशतिविभक्तस्य, योजनस्य लवस्तदा ॥४७॥ ततोऽयं भावः । यावदुत्पत्यते कन्दादङ्गलयोजनादिकम् । एकादशस्तस्य भागो, कन्दव्यासात् क्षयं व्रजेत् ॥४८॥ तथाहि । एकादशस्वङ्गलेषु, समुत्क्रान्तेषु मूलत: । क्षीयते मूलविष्कम्भात्, संपूर्णमेकमङ्गलम् ॥ ४९ ॥ योजनेष्वपि तावत्सु, समुद्यातेषु मूलतः । क्षीयते मूलविष्कम्भात्, संपूर्णमेकयोजनम् ॥ ५० ॥ एवं योजनशतसहस्रेष्वपि भाव्यम् ॥ अत एव योजनानां, सहने मूलतो गते । नवतिर्योजनान्यंशा, एकादशोद्भवा दश ॥५१॥ एतावानेकादर्शोऽशः, सहस्रस्य क्षयं गतः । ततः सहस्राणि दश, विष्कम्भो धरणीतले ॥५२॥ एकादशस्वेकादशस्वतिक्रान्तेषु भूमितः । सहस्रेषु किलैकैकं, सहस्रं व्यासतो हुसेत् ॥५३॥ एवं च नवनवतेः, सहस्राणामतिक्रमे । शिरोभागेऽस्य विष्कम्भः, सहस्रमवशिष्यते ॥ ५४ ॥ यद्धा कन्दाद्योजनानां, लक्षेऽतीते शिरस्तले । लक्षस्यैकादशो भाग, एतावान् परिहीयते ॥ ५५ ॥ नवतिर्योजनशतान्यधिका नवतिस्तथा । अंशा दशैकादशोत्थाः, सहस्रं शिष्यते ततः ॥ ५६ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy