________________
258
स चैकया पद्मवरवेदिकया परिष्कृतः । वनेन चाभितो नानारत्नज्योति:प्रभासुरः ॥ १४ ॥ सहस्रान्नवनवति, योजनानां स उन्नतः । योजनानां सहस्रं चावगाढो वसुधान्तरे ॥ १५ ॥ लक्षयोजनमानोऽसौ, सर्वाग्रेण भवेदिति । चत्वारिंशदधिकानि, चूलाया योजनानि तु ॥ १६ ॥ योजानानां सहस्त्राणि, दशान्या नवतिस्तथा । योजनस्यैकादशांशा, दश मूलेऽस्य विस्तृतिः ॥ १७ ॥ ___अयं जम्बूद्वीपप्रज्ञप्तिसूत्रबृहत्क्षेत्रसमासाभिप्राय: ॥ श्रीसमवायाङ्गे तु मन्दरेण पब्बए मूले
दसजोअणसहस्साई विश्वंभेणं पण्णत्ते । इति ज्ञेयम् ॥ एकत्रिंशत्सहस्राणि, शता नव दशाधिका: । योजनानां त्रयश्चेकादशांशा: परिधिस्त्विह ॥ १८ ॥ योजनानां सहस्राणि, दशास्य समभूतले । सहस्रमेकं शिखरे, व्यासचुलोपलक्षिते ॥१९॥ एकत्रिंशत्सहस्राणि, योजनानां शतानि षट् । त्रयोविंशत्यधिकानि, परिधिः समभूतले ॥ २० ॥ ऊर्ध्वं च परिधिस्तस्य, योजनानां भवेत् गिरेः । सहस्राणि त्रीणि चैकं, द्वाषष्ट्याभ्यधिकं शतम् ॥ २१ ॥ अथ सर्वत्र विष्कम्भज्ञानाय करणम् । सहस्रयोजनव्यासान्मेरोरूपरिभागतः । यत्रोत्तीर्य योजनादौ, विष्कम्भो ज्ञातुमिष्यते ॥ २२ ॥ तद्योजनप्रभृत्येकादशभिः प्रविभज्यते । लब्धे सहस्रसंयुक्ते, व्यासोऽस्य वाञ्छितास्पदे ॥ २३ ॥ यथाधो नवनवति, सहस्राण्यूद्धभागत: । अतीत्यात्र प्रदेशे चेदिष्कम्भं ज्ञातुमिच्छसि ॥ २४ ॥ तदेतैर्नवनवतिसहस्रैः रुद्रभाजितैः । सहस्रान्नव संप्राप्तन्, सहस्रसहितान् कुरु ॥ २५ ॥ एवं दशसहस्राणि, जातानि धरणीतले । विष्कम्भो मेरुशैलस्य, सर्वत्रेवं विभाव्यताम् ॥ २६ ॥ अथवा प्रकारान्तरेणेदमेव करणम् । मूलायत्र योजनादावुत्पत्य ज्ञातुमिष्यते । व्यासस्तस्मिन् योजनादौ, विभक्ते रुद्रसंख्यया ॥ २७ ॥ यल्लब्धं तन्मूलसत्काद्विस्ताराच्छोधयेत् बुधः । यच्छेषं तन्मितस्तस्य, व्यासोऽभीष्टस्थले यथा ॥ २८ ॥ कन्दात्सहस्रमुत्पत्य, व्यासं जिज्ञाससे यदि । सहस्रमेकादशभिर्भज लब्धमिदं पुनः ॥२९॥ नवतिर्योजनान्यंशा, दश चैकादशात्मका: । कन्दव्यासाच्छोधयेदं, तत: शेषाणि यानि तु ॥ ३० ॥ योजनानां सहस्राणि, दशैतावान्महीतले । विष्कम्भः स्वर्णशैलस्य, सर्वत्रैवं विभाव्यताम् ॥ ३१ ॥ अथ व्यासानुसारेण सर्वत्रोच्चत्वज्ञानाय करणम् । यावान् यत्रास्य विस्तारो, निश्चितो भूतलादिषु । तस्मिन्मूलस्य विस्ताराच्छोधिते यत्तु शिष्यते ॥ ३२ ॥
१ दृश्यमानमेरुमूले, समभूतलभूभागे इत्यर्थः, अधोऽवगाढस्य सहस्रस्य त्यक्तत्वात् सैकादशदशांशनवतियोजनपातः सुखावसेयः, एकादशांशत्रुटेशूलामूले सहसमानस्य च तत्रापि संमतत्वात्, वस्तुतस्तु मूले इति पाठ एव तत्र नास्ति, रूचकनामिसूत्रे परिधिसूत्रेऽत्रापि च तत्र धरणितलस्यैव स्पष्टो ग्रहः ।