SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ 255 एव जिनजन्माधिकारे अधोलोकवासिनीनां भोगकरादीनामष्टानां दिक्कुमारीणां मध्ये पञ्चमी तोयधारा षष्ठी विचित्रा चेत्युक्तं तदयं लिखितदोषो नामान्तरं वेति सर्वविद् वेद ॥ . एतत्कूटाधिपदेवदेवीनां मन्दराचलात् । दक्षिणस्यां राजधान्यो, जम्बूद्धीपेऽपरत्र वै ॥ ३७४ ॥ उत्तरस्यां निषधाद्रेनैर्ऋत्यां कनकाचलात् । पूर्वस्यां पक्ष्मविजयात्, गिरिविद्युत्प्रभाभिधः ॥ ३७५ ॥ तपनीयमयत्वेन, विद्युदद्दीप्तिमत्तया । विद्युत्प्रभेशयोगादा, ख्यातो विद्युत्प्रभाख्यया ॥ ३७६ ॥ आद्यं सिद्धायतनाख्यं, विद्युत्प्रभं द्वितीयकम् । तृतीयं देवकुर्वाख्यं, ब्रह्मकूटं तुरीयकम् ॥ ३७७ ॥ पञ्चमं कनकाभिख्यं, षष्ठं सौवस्तिकाभिधम् । सप्तमं शीतोदाकूटं, स्याच्छतज्वलमष्टमम् ॥ ३७८ ॥ हरिकूटं तु नवमं, कूटैरेभिरलङ्कृतः । विभाति सानुमानेष, वेदिकावनशोभितः ॥ ३७९ ॥ नैर्ऋत्यां मन्दरात् ज्ञेयमाद्यं कूटचतुष्टयम् । षष्ठादुत्तरतस्तुर्यान्नैर्ऋत्यां पञ्चमं मतम् ॥ ३८० ॥ दक्षिणोत्तरया पङ्क्त्या , शेषं कूटचतुष्टयम् । मानतोऽष्टापि कूटानि, हिमवगिरिकूटवत् ॥ ३८१ ॥ नवमं निषधासन्नं, दक्षिणस्यां किलाष्टमात् । सर्वथा माल्यवद्भाविहरिस्सहसमं च तत् ॥ ३८२ ॥ ज्ञेया चमरचञ्चावदेतत्कूटपतेर्हरेः । मेरोरपाच्यां नगरी, जम्बूदीपे परत्र सा ॥ ३८३ ॥ ___ तथोक्तं जम्बूद्धीपप्रज्ञप्तिसूत्रे । जहा मालवंतस्स हरिस्सहकूडे तह चेव हरिकूडे रायहाणी जहा चेव दाहिणेणं चमरचञ्चारायहाणी तह णेयव्वा ॥ क्षेत्रसमासवृत्तावपि सा चमरचंचाराजधानीवत् प्रत्येयेति ॥ शेषकूटपतीनां तु, नगर्यो विजयोपमाः । जम्बूदीपेऽन्यत्र मेरोर्दक्षिणस्यां यथायथम् ॥ ३८४ ॥ दिक्कुमार्यो निवसतः, तत्र पञ्चमषष्ठयोः । पुष्पमालाऽनिन्दिताख्ये, शेषेषु पूर्ववत् सुराः ॥ ३८५ ॥ भोगङ्करादिमा गन्धमादनाद्यद्रिसानुषु । वसन्त्यो दिक्कुमार्योऽष्टौ, या एवमिह भाषिताः ॥ ३८६ ॥ शैलेष्वमीषु क्रीडार्थं, तासां वासो भवेद् ध्रुवम् । वसन्ति च स्वस्वगजदन्ताधोभवनेष्टिमा: ॥ ३८७ ॥ एकैकगजदन्ताधो, ढे स्तो भवने तयोः । तिर्यग्लोकं व्यतिक्रम्यासुरादिभवनास्पदे ॥ ३८८ ॥ अधोलोकनिवासिन्योऽत एवामूः श्रुते मता: । भूशुद्धिसूतिवेश्मादिनियुक्ता जिनजन्मनि ॥ ३८९ ॥ यद्यप्युत्तरकुरुवक्षस्कारयोर्यथायोगं सिद्धहरिस्सहकूटवर्जकूटाधिपराजधान्यो यथाक्रमं वायव्यामैशान्यां च यथा प्रागभिहितास्तथा देवकुरुवक्षस्कारयोर्यथायोगं सिद्धहरिकूटवर्जकूटाधिपराजधान्यो यथाक्रममाग्नेय्यां नैर्ऋत्यां च वक्तुमुचितास्तथापि प्रस्तुतसूत्रसम्बन्धि यावदादशेषु पूज्यश्रीमलयगिरिकृतक्षेत्रविचारवृत्तौ च तथा दर्शनाभावात् अस्माभिरपि राजधान्यो दक्षिणेनेत्यलेखि। इति श्रीजम्बूद्वीपप्रज्ञप्तिवृत्तौ ॥ अनयोर्नगयोदैर्घ्यव्यासोच्चत्वादिकं समम् । गन्धमादनसन्माल्यवतोरिव विभाव्यताम् ॥ ३९० ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy