________________
253
धनुः पञ्चशतोद्वेधाः, सचतुर्द्वारतोरणाः । वृताः पद्मवेदिकया, वनखण्डेन चाभितः ॥ ३३३ ॥ तासां चतसृणां मध्ये, प्रासादः परिकीर्तितः । स च जम्बूवृक्षशाखाप्रासादसदृशोऽभितः ॥ ३३४ ॥ एवमस्मिन्नेव वने, वायव्यां दिशि योजनैः । पञ्चाशता पुष्करिण्यश्चतस्रः स्युश्चतुर्दिशम् ॥ ३३५॥ प्राच्यामुत्पलगुल्माख्या, याम्यां च नलिनाभिधा । स्यादुत्पला पश्चिमायामुदीच्यामुत्पलोज्ज्वला ॥ ३३६ ॥ अयं जम्बूद्वीपप्रज्ञप्तिसूत्र - जीवाभिगमसूत्राभिप्राय: ॥ बृहत्क्षेत्रसमासे तु “ उप्पलभोमान - लिणुज्जलुप्पला उप्पला य बीयंमि ।” इति वचनात् तृतीयतुर्ययोः नाम्निः व्यत्ययः प्रथमाया: नाम्नि विशेषश्च दृश्यते । इति ज्ञेयम् ॥
उक्त पुष्करिणीतुल्या, एता अपि प्रमाणतः । मध्ये तथैव प्रासादो, जम्बूप्रासादसन्निभः ॥ ३३७ ॥ वनेऽस्मिन्नेव नैर्ऋत्यां पञ्चाशद्योजनोत्तराः । यथाक्रमं पुष्करिण्यः, प्राच्यादिदिक्चतुष्टये ॥ ३३८ ॥ भृङ्गा भृङ्गनिभा किञ्चाजनाथ कज्जलप्रभा । मध्ये प्रासाद एतासां सर्वं मानं तु पूर्ववत् ॥ ३३९ ॥ आग्नेय्यां च योजनानां पञ्चाशतो व्यतिक्रमे । वनेऽत्रैव पुष्करिण्यो, दिक्चतुष्के यथाक्रमम् ॥ ३४० ॥ श्रीकान्ता श्रीमहिता च, श्रीचन्द्रा च ततः परम् । श्रीनीलयाख्येति शेषं, प्रासादादि तु पूर्ववत् ॥ ३४१ ॥ प्रासादेष्वेषु चैकैकमस्ति सिंहासनं महत् । अनादृतस्य देवस्य, क्रीडाईं सपरिच्छदम् ॥ ३४२ ॥ अत्र जम्बूद्वीपप्रज्ञप्तिसूत्रे “सीहासणा सपरिवारा” इति । जीवाभिगमे च “सीहासणं अपरिवार” इति । अस्मिन्नेव वने पूर्वदिक्भाविभवनात् किल । उदीच्यां दक्षिणस्यां चैशानीप्रासादशेखरात् ॥ ३४३ ॥ एक: कूटो द्वितीयस्तु, प्राग्भाविभवनादितः । दक्षिणस्यामुदीच्यां चाग्नेयीप्रासादपुङ्गवात् ॥ ३४४ ॥ पश्चिमायामथाग्नेयीप्रासादात् पूर्वतोऽपि च । दाक्षिणात्यात् भवनतः, कूटोऽत्रास्ति तृतीयकः ॥ ३४५ ॥ दाक्षिणात्यभवनतोऽपरस्यां पूर्वतोऽपि च । प्रासादानैर्ऋतीनिष्टात्तुर्यः कूटो भवेदिह ॥ ३४६ ॥ प्रासादानैर्ऋतीसंस्थादुदीच्यामथ याम्यतः । प्रतीचीनभवनतः, कूटो भवति पञ्चमः ॥ ३४७ ॥ प्रतीचीनभवनतः, उदीच्यामथ याम्यतः । वायव्यकोणप्रासादात्, षष्ठः कूटः निरूपितः ॥ ३४८ ॥ वायव्यकोणप्रासादात्, प्राच्यां पश्चिमतोऽपि च । उदग्भवनतस्तत्र, कूटो भवति सप्तमः ॥ ३४९ ॥ उदग्भवनतः प्राच्यामथ पश्चिमतोऽपि च । ऐशानकोणप्रासादादत्र कूटोऽष्टमो मतः ॥ ३५० ॥ एवमष्टाप्यमी कूटा, जात्यस्वर्णमयाः स्मृताः । द्वे योजने भूनिमग्ना, योजनान्यष्ट चोच्छ्रिताः ॥ ३५१ ॥ विष्कम्भायामतो मूले, योजनान्यष्ट कीर्तिताः । मध्ये षडूर्ध्वं चत्वारि, गोपुच्छाकृतयस्ततः ॥ ३५२ ॥ एषां मूले परिक्षेपोऽधिकानि पञ्चविंशतिः । मध्येऽष्टादश मौलौ च, योजनान्यर्कसंख्यया ।। ३५३ ॥ तथोक्तम् । पणविसठ्ठारसबारसेव मूले अ मज्झि उवरिं च । सविसेसाई परिरओ कूडस्स इमस्स बोधव्वो ।