________________
252
एवमुक्तस्वरूपोऽयं, जम्बूवृक्षः समन्ततः । भात्यष्टाग्रेण जम्बूनां, शतेन परिवेष्टित: ॥ ३१३ ॥ अमी आद्यपरिक्षेपगता जम्बूमहीरुहः । मूलजम्बूतरोरर्धमाना भवन्ति सर्वथा ॥ ३१४ ॥ यथा द्वादशभिः पद्मवेदिकाभिः स वेष्टितः । तथाऽमी निख्रिला षड्भिर्वेदिकाभिरलङ्कृताः ॥ ३१५ ॥ श्रीदेवीपद्मवच्चैते, सर्वेऽनादृतनाकिनः । स्वीयाभरणसर्वस्वनिक्षेपवणिगापणाः ॥ ३१६ ॥
एतेषु च १०८ जम्बूवृक्षेषु श्रीजम्बूद्धीपप्रज्ञप्ति-श्रीजीवाभिगमक्षेत्रविचारादौ सूत्रकृभिवृत्तिकृद्भिश्च जिनभवनप्रासादचिन्ता न कापि चक्रे । बहवो बहुश्रुताः श्राद्धप्रतिक्रमणचूर्णिकारादयः शाश्वतजिनस्तोत्रकर्तुश्रीजयानन्दसूरिप्रभृतयश्च मूलजम्बूवृक्षवत् प्रथमवलयजम्बूवृक्षप्रथमवनखंडगतकूटाष्टकजिनभवनैः सह जम्बूवृक्षे सप्तदशोत्तरं जिनभवनानां शतं मन्यमाना इहाप्येकैकं सिद्धाय पूर्वोक्तमानं मेनिरे । ततोऽत्र तत्त्वं केवलिनो
विदुः । इति जम्बूद्धीपप्रज्ञप्तिवृत्तौ ॥ मूलजम्बूतरोस्तस्माद्यथाक्रमं दिशां त्रये । वायव्यामुत्तरस्यां चैशान्यां च तुल्यनाकिनाम् ॥ ३१७ ॥ जम्बूसहस्राश्चत्वारस्तावतां कीर्त्तिता जिनैः । जम्ब्वश्चतस्रः पूर्वस्यां, महिषीणां चतसृणाम् ॥ ३१८ ॥ सहस्राण्यष्ट चाग्नेय्यां, जम्ब्बोऽभ्यन्तरपर्षदाम् । जम्बूसहस्राणि दश, याम्यां मध्यपर्षदाम् ॥ ३१९ ॥ ता द्वादशसहस्राणि, नैर्ऋत्यां बाह्यपर्षदाम् । प्रत्यक् च सप्त सेनान्यां, परिक्षेपे द्वितीयके ॥ ३२० ॥ जम्बूसहस्राश्चत्वारः, प्रत्येकं दिक्चतुष्टये । सहस्राः षोडशेत्यात्मरक्षकाणां तृतीयके ॥ ३२१ ॥ यद्यप्युक्तं वलययोर्मानं नैवानयोः स्फुटम् । पूर्वाचार्यरुच्चतादेः, प्राज्ञैर्जेयास्तथापि हि ॥ ३२२ ॥ श्रीदेवीपद्मदृष्टान्तात्, प्रथमादलयादिह । अर्धार्धमानका जम्ब्बोऽनयोर्वलययोर्द्धयोः ॥ ३२३ ॥
___ तथाहुः जिनभद्रगणिपादाः क्षेत्रसमासे । पउमद्दहे सिरीए जो परिवारो कमेण निद्दिठ्ठो । सो
चेव य नायव्यो जम्बूएणाढियसुरस्स ॥ तथैवोक्तं जम्बूदीपप्रज्ञप्तिवृत्तौ ॥ अत्राप्येकैकया पङ्क्त्या , परिक्षेपे विवक्षिते । न जम्बूनामवकाशः, श्रीदेवीपद्मवत् भवेत् ॥ ३२४ ॥ तदिहापि परिक्षेपजातयस्तिन इत्यहो । ज्ञेयं जम्बूपङ्क्तयस्तु, यथायोगमनेकशः ॥ ३२५ ॥ स चैवं सपरीवारो, जम्बूवृक्षः समन्ततः । काननैर्योजनशतमानस्त्रिभिः समावृतः ॥ ३२६ ॥ आन्तरेण मध्यमेन, बाह्येन च यथाक्रमम् । तत्रादिमे बने पूर्वादिषु दिक्षु चतसृषु ॥ ३२७ ॥ पञ्चाशतं योजनानि, वगाह्यात्रान्तरे महत् । एकैकं भवनं जम्बूशाखाभवनसन्निभम् ॥ ३२८ ॥ भवनेष्वेषु सर्वेषु, प्रत्येकं मणिपीठिका । तत्रानादृतदेवस्य, शयनीयं श्रमापहम् ॥ ३२९ ॥ तस्मिन्नेवादिमवनखण्डेऽखण्डेश्रियोज्ज्वले । पञ्चाशतो योजनानामैशान्यां समतिक्रमे ॥ ३३० ॥ अत्रान्तरे पुष्करिण्यश्चतस्रः स्युश्चतुर्दिशम् । प्राच्यां पद्मा दक्षिणस्यां, पद्मप्रभेति नामत: ॥ ३३१ ॥ कुमुदाख्या पश्चिमायामुदीच्यां कुमुदप्रभा । सर्वाः क्रोशार्द्धविष्कम्भा, एकक्रोशायताश्च ता: ॥ ३३२ ॥