________________
251
पत्राणि तस्य वैडूर्यमयानि जगदुर्जिनाः । तपनीयवृन्तवन्ति, गुच्छा जाम्बूनदोद्भवाः ॥ २९४ ॥ रजतोत्थास्तत्प्रवालाङ्कुराः पुष्पफलावली । नानारत्नमयी जम्बूतरुरिदृक् श्रुतः श्रुते ॥ २९५ ॥ शाखाप्रभवपर्यन्तः, स्कन्धः कन्दाद्य ऊर्ध्वगः । द्वे योजने स उत्तुङ्गो, विस्तीर्णः क्रोशयोर्द्धयम् ।। २९६ ॥ या दिक्प्रसृत शाखान्तर्जाता शाखोर्ध्वगामिनी । विडिमापरपर्याया, सोत्तुङ्गा योजनानि षट् ॥। २९७ ।। एवं च कन्दादारभ्य, सर्वाग्रेणाष्टयोजनीम् । जम्बूतरुः समुतुङ्गो, भूमग्नः क्रोशयोर्द्धयम् ॥ २९८ ॥ या तस्य प्रसृता स्कन्धाच्छाखा दिक्षु चतसृषु । पूर्वादिषु किलैकैकाः, शिष्यशाखा गुरोरिव ।। २९९ ।। 1 क्रोशेनोनानि चत्वारि, योजनान्यायताश्च ताः । प्रत्येकं चित्रकृत्पत्रफलपुष्पाद्यलङ्कृताः ॥ ३०० ॥ एवं चोभयतः शाखादैर्घ्य स्कन्धोरुतान्विते । विष्कम्भायामतः सोऽयं भवेत् पूर्णाष्टयोजनः ॥ ३०१॥ शाखायाः प्रसृतायाः प्राकू, मध्यभागे विराजते । अनादृतस्य देवस्य भवनं रत्ननिर्मितम् ॥ ३०२ ॥ अनेकरत्नस्तम्भाढ्यं, क्रोशमायामतो मतम् । विष्कम्भतस्तु क्रोशार्द्धं, देशोनं क्रोशमुन्नतम् ॥ ३०३ ॥ धनुःपञ्चशतोत्तुङ्गं तदर्थं पृथुलं क्रमात् । प्राच्युदीचीदक्षिणासु, द्वारमेकैकमत्र च ॥ ३०४ ॥ धनुःपञ्चाशतायामविष्कम्भा मणिपीठिका । तदर्द्धमानबाहल्या, तत्र शय्याविराजिता ॥ ३०५ ॥ शेषशाखासु तिसृषु, स्युः प्रासादावतंसकाः । प्राक्शाखाभाविभवनानुकाराः सर्वमानतः ॥ ३०६ ॥ सर्वरत्नमयामविष्कम्भा मणिपीठिका । अनादृतस्वर्गियोग्यसिंहासनविभूषिताः ॥ ३०७ ॥ यद्यपि विषमायामविष्कम्भं भवनं श्रीदेव्यादिभवनवत् समायामविष्कम्भः प्रासादो: विजयादिप्रासादवदिति भवनप्रासादयोर्विशेषमामनन्ति तथापि श्रीजम्बूद्वीपप्रज्ञप्तिसूत्रश्रीजिनभद्रगणिक्षमाश्रमणकृतक्षेत्रसमास श्रीउमास्वातिवाचककृतजम्बूद्वीपसमासश्रीसोमतिलकसूरिकृतनव्यबृहत्क्षेत्रसमासादिष्वेतेषां वक्ष्यमाणवनगतानां च प्रासादतया व्यपदिष्टत्वात् क्रोशायामक्रोशार्द्धविष्कम्भत्वस्य चोक्तत्वात् जम्बूप्रकरणे प्रासादा अपि विषमायामविष्कम्भा इति ध्येयम् । इत्यर्थत उपाध्यायश्रीशान्तिचन्द्रोपज्ञजम्बूद्धीपप्रज्ञप्तिवृत्तौ ॥
जीवाभिगमसूत्रे त्वेषामपि समायामविष्कम्भत्वमेव दृश्यते । तथा च तद्ग्रन्थः । तथ दाहिणि साले एत्थ णं एगे महं पासायावडिंसए पण्णत्ते कोसं च उड्डुं उच्चतेणं अद्धकोसं आयामविक्खंभेणं इति, शेषप्रासादसूत्राण्यऽप्यस्यैव सूत्रस्यातिदेशेनोक्तानीति ज्ञेयम् ॥ चतुर्दिग्गतशाखान्तः, शाखा या विडिमाभिधा । तस्या मौलौ मध्यभागे, सिद्धायतनमुत्तमम् ॥ ३०८ ॥ विष्कम्भायामतश्चैतत्, प्राक्शाखाभवनोपमम् । देशोनक्रोशमुत्तुङ्गं पृथुद्धास्त्रयान्वितम् ॥ ३०९ ॥ तस्य मध्ये महत्येका, शोभते मणिपीठिका । धनुःपञ्चाशतायामव्यासा तदर्धमेदुरा ॥ ३१० ॥ उपर्यस्या महानेको, देवच्छन्दक आहितः । पञ्चचापशतायामविष्कम्भः सर्वरत्नजः ॥ ३११ ॥ सातिरेकधनुःपञ्चशतोत्तुङ्गोऽथ तत्र च । अष्टाधिकं जिनार्चानां शतं वैताढ्यचैत्यवत् ॥ ३१२ ॥