________________
250
मध्ये विशेषाभ्यधिका, सप्तत्रिंशा शतद्वयी । सातिरेकाष्टपञ्चाशद्युक्तं शतमथोपरि ॥ २६८ ॥ वसुन्धरावधुक्रीडास्वर्णसारिसमाः स्थिताः । दक्षिणोत्तरपङ्क्त्यैते, वेदिकावनमण्डिताः ॥ २६९ ॥ काञ्चनप्रभपाथोजाधलङ्कृतजलाश्रयाः । काञ्चनाख्यास्ततो यद्धा, काञ्चनाख्यैः सुरैः श्रिताः ॥ २७०॥ सर्वेऽप्येकैकप्रसादावतंसाश्रितमौलयः । प्रासादास्ते च यमकप्रासादसदृशा मता: ॥ २७१ ॥ सपरिच्छदमेकैकं तत्र सिंहासनं स्फुरत् । ऐश्वर्यं भुञ्जते तेषु, निर्जरा: काञ्चनाभिधाः ॥ २७२ ॥ ऋद्धिश्चैषां विजयवदायुः पल्योपमं स्मृतम् । मेरोरुदग् राजधान्यो, जम्बूद्वीपे परत्र च ॥ २७३ ॥ अथोत्तरकुरुक्षेत्रस्थिता जम्बूर्निरूप्यते । सुदर्शनाख्या यन्नाम्ना, जम्बूद्वीपोऽयमुच्यते ॥ २७४ ॥ उत्तराः कुरवो दे॒धा, विभक्ताः शीतया किल । पूर्वापरार्धभावेन, सीमन्तेनालका इव ॥ २७५ ॥ तत्र चदक्षिणस्यां नीलगिरेरुदीच्यां मन्दराचलात् । पश्चिमायां माल्यवतः, शीतायाः प्राक्तने तटे ॥ २७६ ॥ उदक्कुरुप्राक्तनाद्धमध्यभागे निरूपितम् । जाम्बूनदमयं जम्बूपीठं नम्रसुरासुरैः ॥ २७७ ॥ शतानि पञ्च विष्कम्भायामौ परिधिरस्य च । एकाशीत्यधिकं सार्धसहसं किञ्चनाधिकम् ॥ २७८ ॥ पीठस्यास्य मध्यभागे, बाहल्यं परिकीर्तितम् । योजनानि द्वादशान्त्यभागेषु क्रोशयोयम् ॥ २७९ ॥ तदेकया पद्मवरवेदिकयां वनेन च । समावृतं तन्मानादि, जगतीवेदिकादिवत् ॥ २८० ॥ दिक्षु पूर्वाद्यासु तस्य, जम्बूपीठस्य तीर्थपैः । एकैकं द्वारमुक्तं त्रिसोपानप्रतिरूपकम् ॥ २८१ ॥ तदेकक्रोशविस्तीर्णं क्रोशद्वयसमुच्छ्रितम् । वज्ररत्नमयैर्भूमिमूलभागैर्मनोहरम् ॥ २८२ ॥ भूमेरूज़ प्रतिष्ठानभूतैश्च रिष्टरत्नजैः । प्रदेशैः शोभितं वर्यवैडूर्यस्तम्भबन्धुरम् ॥ २८३ ॥ सुवर्णरुप्यफलकैर्वैडूर्यसन्धिबन्धुरैः । रत्नालम्बनबाहाभी, रत्नालम्बनकै र्युतम् ॥ २८४ ॥ द्वारेषु तेषु सर्वेषु, प्रत्येकं तोरणं भवेत् । रत्नस्तम्भसन्निविष्टं, वृषभाश्वादिचित्रयुक् ॥ २८५ ॥ तोरणानामुपर्येषामुत्तरङ्गेषु सन्ति वै । अष्टावष्टौ मङ्गलानि तथा तत्तोरणोपरि ॥ २८६ ॥ दण्डा वज्रमयाः पञ्चवर्णाश्च चामरध्वजाः । पताकातिपताकाच, छत्रातिछत्रकाणि च ॥ २८७ ॥ भूयांसि घण्टायुग्मानि, भूयांस उत्पलोच्चयाः । भूयांसः पद्मकुमुदनिकराः सन्ति रत्नजाः ॥ २८८ ॥ मध्यभागेऽस्य पीठस्य, स्याच्चतुर्योजनोन्नता । योजनान्यष्ट विस्तीर्णायतैका मणिपीठिका ॥ २८९ ॥ उपर्यस्याः पीठिकाया, जम्बूवृक्षोऽस्ति वेष्टितः । वेदिकाभि‘दशभिः, प्राकाराकारचारुभिः ॥ २९० ॥ अथास्य जम्बूवृक्षस्य, मूलं वज्रमयं मतम् । मूलादुपरि य: कन्दो, भूमध्यस्थः स रिष्टजः ॥ २९१ ॥ स्कन्धः कन्दादुत्थितो यः, स तु वैडूर्यरत्नजः । सुवर्णमय्यस्तच्छाखाः, प्रशाखा जातरूपजाः ॥ २९२ ॥ शाखानां दिक्प्रसृतानां, मध्ये स्कन्धात्समुत्थिता । यो शाखा विडिमाख्या, सोक्ता रजतनिर्मिता ॥ २९३ ॥