SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ 249 तन्मध्ये सपरीवारमस्ति सिंहासनं महत् । यमकाख्यामारार्हं, तच्छेषं विजयदेववत् ॥ २४५ ॥ मेरोरुत्तरतो जम्बूद्वीपेऽन्यत्र निरुपिते । राजधान्यौ यमकयोर्निःशेषं विजयोपमे ॥ २४६ ॥ यदुक्तमन्तरं नीलवतो यमकभूभृतो: । यमकाद्याद्यहृदयोस्तावदेवान्तरं भवेत् ।। २४७ ।। परस्परं हृदानां च तावदेवोक्तमन्तरम् । अन्त्यहृदात्तावतैव, क्षेत्रपर्यन्तभूरपि ॥ २४८ ॥ एवं च, यमक हृददीर्घत्वैः, सप्तभिश्च तथान्तरैः । यथोक्तमुत्तरकुरुव्यासमानं प्रजायते ॥ २४९ ॥ तदुक्तम् । जावइयंमि पमाणंमि, होंति जमगाओ नीलवंताओ । तावइयमंतरं खलु, जमगदहाणं दहाणं च ॥ [ बृहत्क्षेत्रसमास गा. २७१ टीकान्तर्गत श्लो. ] अथाभ्यां यमकाद्रिभ्यां, दक्षिणस्यां समान्तराः । शीतायाः सरितो मध्ये, हृदाः पञ्च यथाक्रमम् ॥ २५० ॥ प्रथमो नीलवन्नामा, नीलवगिरिसन्निभैः । शोभितः शतपत्राद्यैस्तत्तथाप्रथिताभिधः ॥ २५१ ॥ यद्वा नागकुमारेन्द्रो, नीलवन्नाम निर्जरः । पालयत्यस्य साम्राज्यमित्येवं प्रथिताभिधः ॥ २५२ ॥ द्वितीयस्तूत्तरकुरुसंस्थानाब्जादिमत्तया तुल्याख्यव्यन्तरावासाद्यद्वोत्तरकुरुहृदः ।। २५३ ॥ चन्द्राभशतपत्रादिमत्त्वाच्चन्द्राभिधो हृदः । व्यन्तरेन्द्रचन्द्रदेवस्वामित्वाद्वा तृतीयकः ॥ २५४ ॥ ऐरावताकारहारिपद्मादिमत्तयाऽथवा 1 व्यन्तरैरावताढ्यात्वात्तुर्यश्चैरावतो हृदः ।। २५५ ।। माल्यवत्पर्वताकाराम्बुजादिमत्तयाऽथवा । माल्यवद्व्यन्तरावासात् पञ्चमो माल्यवान् हृदः ।। २५६ ।। पद्महृदसमाकाराः, सर्वे सहोदरा इव । तथैव पद्मवलयैः, षड्जातीयैरलङ्कृताः ॥ २५७ ।। विशेषस्तु पद्महृदः, परिक्षिप्तः समन्ततः । एकेन वनखण्डेन पद्मवेदिकयैकया ॥ २५८ ॥ विभक्ताभ्यां प्रविश्यान्तर्विनिर्यान्त्या च शीतया । अमी पद्मवेदिकाभ्यां वनाभ्यां च परिष्कृताः ॥ २५९ ॥ याम्योत्तरायताश्चामी, पूर्वपश्चिमविस्तृताः । सहस्रयोजनायामाः, शतानि पञ्च विस्तृताः ॥ २६० ॥ तथाहुः । सीयासीओयाणं, बहुमज्झे हुंति पंच हयाओ । उत्तरदाहिणदीहा, पुव्यावरवित्थडा णमो ॥ [ बृहत्क्षेत्रसमास गाथा २७१ ] 1 पद्महदादयो ये तु परे वर्षधरा हृदाः । ते स्युः पूर्वापरायामा, दक्षिणोत्तरविस्तृताः ॥ २६१ ॥ हृदाधिदेवतानां च पञ्चानाममृताशिनाम् । राजधान्योऽन्यत्र जम्बूद्वीपे मेरोरुदग्दिशि ।। २६२ ॥ एकैकस्य हृदस्यास्य, पूर्वपश्चिमयोर्दिशो: । योजनानि दश दश, मुक्त्वा तटभुवि - स्थिताः ॥ २६३ ॥ शैलाः काञ्चननामानो, मूले लग्नाः परस्परम् । एकैकतो दश दश क्षेत्रेऽस्मिन् निखिलाः शतम् ॥ २६४ ॥ सर्वेऽपि योजनशतोत्तुङ्गा रम्या हिरण्मयाः । विष्कम्भायामतो मूले, योजनानां शतं मताः ॥ २६५ ॥ मध्ये पञ्चसप्ततिं च, योजनानि प्रकीर्त्तिताः । पञ्चाशतं योजनानि, मस्तके विस्तृतायताः ॥ २६६ ॥ शतत्रयं षोडशाढ्यं, किञ्चिद्विशेषतोऽधिकम् । योजनानि परिक्षेपस्तेषां मूले प्रकीर्त्तितः ॥ २६७ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy