SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ 247 एतन्नीलवतो वर्षधरस्यासन्नमीरितम् । जात्यस्वर्णमयं दीपप्रभापटलपिञ्जरम् ॥ १९६ ॥ योजनानां सहस्रं तत्तुळं वृत्ताकृति ध्रुवम् । अद्धयर्धयोजनशतद्भयमुद्धेधतो भवेत् ॥ १९७ ॥ ___ तथोक्तं जम्बूद्धीपप्रज्ञप्तिवृत्तौ । अवशिष्टं यमकगिरिप्रमाणेन नेतव्यम् । तच्चेदम् । अड्डाइज्जाइं . जोअणसयाइं उब्बेहेणं ॥ योजनानां सहस्रं च, स्यान्मूले विस्तृतायतम् । मध्ये सार्द्धा सप्तशती, शतानि पञ्च चोपरि ॥ १९८ ॥ योजनानां त्रिसहस्री, सद्भाषष्टिशतान्विता । द्धे सहने च द्विसप्तत्यधिकदिशताञ्चिते ॥ १९९ ॥ सहस्रं साधिकैकाशीत्याढ्यपञ्चशतान्वितम् । क्रमादस्य परिक्षेपा, मूले मध्ये तथोपरि ॥२०० ॥ शतानि पञ्च विस्तीर्णे, गजदन्तगिराविदम् । सहस्रयोजनपृथु, कूटं माति कथं ननु ? ॥ २०१॥ अत्रोच्यते । गजदन्तगिरिं व्याप्य, निजार्द्धन स्थितं ततः । गिरेरुभयतो व्योम्नि शेषार्धन प्रतिष्ठितम् ॥ २०२ ॥ तथोक्तं क्षेत्रसमासबृहवृत्तौ । “एवं हरिकूटहरिस्सहकुटयोरपि निजनिजाश्रयगिर्यार्यथारूपं उभयपाधै आकाशमवरुद्ध्य स्थितत्वं परिभावनीयमिति” । आद्यकूटे जिनगृहं, तथा पञ्चमषष्ठयोः । सुभोगाभोगमालिन्यौ, दिक्कुमायौं निरूपिते ॥ २०३ ॥ शेषेषु षट्सु कूटेषु, पल्योपमायुषस्सुराः । कूटानुरूपनामानो, महर्द्धयो विजयोपमाः ॥ २०४ ॥ एतेषां देवदेवीनामैशान्यां मन्दरागिरेः । जम्बूद्वीपेऽन्यत्र राजधान्यो हरिस्सहं विना ॥ २०५ ॥ हरिस्सहस्य तु ख्याता, राजधानी सुमेरुतः । उत्तरस्यामन्यज्जम्बूद्वीपे हरिस्सहाभिधा ॥ २०६ ॥ सहसाश्चतुरशीतिर्योजनानां भवेदिह । व्यासायामावपरं तु, तुल्यं चमरचञ्चया ॥२०७॥ इमावद्री योजनानां, दक्षिणोत्तरमायतौ । त्रिंशत्सहस्रान् द्विशती, नवोत्तरां सषट्कलाम् ॥ २०८ ॥ पूर्वापरं च विस्तीर्णी, समीपे नीलवगिरेः । शतानि पञ्च पर्यन्तेऽङ्गला संख्यांश विस्तृतौ ॥ २०९ ॥ चतुःशती योजनानां, गिरेर्नीलवतोऽन्तिके । अभ्युन्नतौ शतमेकमवगाढौ भुवोऽन्तरे ॥ २१० ॥ समीपे मन्दरस्याथ, स्यातां पञ्चशतोन्नतौ । निमग्नौ पञ्च गव्यूतशतानि वसुधान्तरे ॥ २११ ॥ नीलवत्पर्वतोपान्ताद्र्धमानाविमौ क्रमात् । समुत्सेधावगाहाभ्यां, विस्तृत्या हीयमानको ॥ २१२ ॥ पूर्वोक्तमानविस्तीर्णाद्विद्धोच्चावुपमन्दरम् । नीलवच्छैलकरिणो, दशनाविव राजतः ॥ २१३ ॥ प्रत्येकं च पद्मवरवेदिकावनमण्डितौ । कुरुतस्तौ मिथो योगादधिज्यधनुराकृतिम् ॥ २१४ ॥ गन्धमादनसन्माल्यवतोः पर्वतयोरथ । अभ्यन्तरे स्थिताः कान्तभुजयोरिव कामिनी ॥ २१५ ॥ मन्दरानेरुतरस्यां, दक्षिणस्यां च नीलतः । उत्तराः कुरवः ख्याता, अनुत्तरचिदाश्रयैः ॥ २१६ ॥ उदग्दक्षिणविस्तीर्णास्ता: पूर्वपश्चिमायता: । अर्द्धन्दुमण्डलाकारा, भुवो भालमिवाहिताः ॥ २१७ ॥ अत्रोत्तरकुरुर्नाम, देव: पल्योपमस्थितिः । वसत्यतस्तथा ख्याता, यद्धेदं नाम शाश्वतम् ॥ २१८ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy