SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ 246 लब्धं व्यासो योजनादिः, स्यादत्राभीप्सितास्पदे । भाज्यभाजकयोस्त्रोपपत्तिलिख्यते स्फुटा ॥ १७२ ॥ परमव्यासरूपोऽत्र, सर्वत्र गुणको ध्रुवः । तेन हत्वैकोनविंशत्याहतिस्तु कलाकृते ॥ १७३ ॥ आयाम एव परमो, भाजकोऽत्र ध्रुवो भवेत् । उपरिस्थिकलायुग्मप्रक्षेपाय कलीकृतः ॥ १७४ ॥ अथोत्तरकुरूणां यौ, पर्वतौ सीमकारिणौ । गन्धमादनसन्माल्यवन्तौ तौ वर्णयाम्यहम् ॥ १७५ ॥ तत्रोत्तरकुरूणां य: पश्चिमायां व्यवस्थितः । वायव्यां मेरुतः सोऽयं, प्रज्ञप्तो गन्धमादनः ॥ १७६ ॥ गन्धः कोष्टपुटादिभ्यो, रम्यो यदिह पर्वते । तथा क्षेत्रस्वभावेन, ततोऽयं गन्धमादन: ॥ १७७ ॥ गन्धमादननामा च, देव: पल्योपमस्थितिः । स्वाम्यस्येति तथा ख्यातोऽपरं च शाश्वताभिधः ॥ १७८ ॥ पीतरत्नमयश्चैष, मतान्तरे हिरण्मयः । शोभितः सप्तभिः कुटै नारत्नोपशोभितैः ॥ १७९ ॥ जम्बूद्वीपप्रज्ञप्तिसूत्रे त्वयं 'सबरयणमये' इति सर्वात्मना रत्नमय उक्तः । जम्बूद्वीपसमासे तु कनकमय उक्त: । बृहत्क्षेत्रसमासे तु 'गिरिगंधमायणो पीयओ अ' पीतकः पीतमणिमय इत्येतदवृत्तौ ॥ तत्राद्यं मन्दरासन्नं, वायव्यां मन्दराचलात् । कूटं सिद्धायतनाख्यं, तत्रात्तुङ्गो जिनालयः ॥ १८० ॥ कूटात्ततोऽपि वायव्यां, कूटं स्यात् गन्धमादनम् । स्यात् गन्धिलावतीकूटं, वायव्याममुतो दिशि ॥ १८१ ॥ तुर्यं तूत्तरकुर्वाख्यं, स्याद्रायव्यां तृतीयतः । पञ्चमात्तद्दक्षिणस्यां, वक्रत्वेनास्य भूभृतः ॥ १८२ ॥ तुरीयादुत्तरस्यां च, पञ्चमं स्फटिकाभिधम् । अस्मादुत्तरतः षष्टं, लोहिताक्षाभिधं भवेत् ॥ १८३ ॥ लोहिताक्षादुत्तरस्यां, सप्तमं कूटमाहितम् । आनन्दाख्यमिति सप्त, कूटानि गन्धमादने ॥ १८४ ॥ भोगङ्कराभोगवत्यौ, द्रयोः पञ्चमषष्ठयोः । दिक्कुमार्यावपरेषु, कूटतुल्याभिधासुराः ॥ १८५ ॥ एतत्कूटाधिपदेवदेवीनां मन्दराचलात् । राजधान्योऽन्यत्र जम्बूद्वीपे वायव्यकोणके ॥ १८६ ॥ अथोदकुरुतः प्राच्या, याम्यां नीलवतो गिरेः । ऐशान्यां मन्दरात्कच्छात् प्रतीच्यां माल्यवान् गिरिः ॥ १८ ॥ नानाकुसुमगुल्मानि, विधूतानि समीरणैः । कुर्वन्त्येनं कीर्णपुष्पं, ततोऽयं माल्यवानिति ॥ १८ ॥ महद्धिको वसत्यत्र, माल्यवान्नाम निर्जर: । पल्योपमायुरिति वा, यद्बासौ शाश्वताभिधः ॥ १८९ ॥ सद्वैडूर्यमयश्चायं, नवकूटोपशोभितः । मेर्वासन्नं कूटमाद्यं, सिद्धायतनसंज्ञितम् ॥ १९० ॥ द्वितीयं माल्यवत् कूटं, तृतीयं तु ततः परम् । भवेदुत्तरकुर्वाख्यं, तुर्य कच्छाभिधं मतम् ॥ १९१ ॥ पञ्चमं सागराभिख्यं, षष्टं तु रजताभिधम् । शीताकूटं पूर्णभद्रकूटं हरिस्सहाभिधम् ॥ १९२ ॥ ऐशान्यां मन्दरात् पङ्क्त्यास्थितं कूटचतुष्टयम् । तुर्यात् पञ्चममैशान्यां, षष्टाद्दक्षिणतश्च तत् ॥ १९३ ॥ पञ्चमादुत्तरस्यां च, षष्टं राजतमित्यथ । दक्षिणोत्तरया पङ्क्त्या , शेषं कूटत्रयं ततः ॥ १९४ ॥ पूर्णभद्रादुत्तरस्यां, याम्यां नीलवतो गिरेः । कूटं नाम्ना सहस्राईं, ख्यातं हरिस्सहं च तत् ॥ १९५ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy